अध्यायः 126

अर्जुनवृत्तान्तपरिज्ञानाय सात्यकिं प्रेषितवता युधिष्ठिरेण पुनस्तयोर्वृत्तान्तपरिज्ञानाय भीमसेनस्य तत्र गमनचोदना ॥ 1 ॥

सञ्जय उवाच ।
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः ।
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ॥
वर्तमाने तथा रौद्रे सङ्ग्रामे रोमहर्षणे ।
सङ्क्षये जगतस्तीव्रे युगान्त इव भारत ॥
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः ।
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥
नापश्यच्छरणं कञ्चिद्वर्मराजो युधिष्ठिरः ।
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥
ततो विक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया ।
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् ।
गाण़्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् । चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ।
नाध्यगच्छत्तदा शान्ति तावपश्यन्नरोत्तमौ ॥
लोकोपक्रोशभीरुत्वाद्वर्मराजो महामनाः ।
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे ।
शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ॥
तदिदं ह्येकमेवासीद्द्द्विधा जातं ममाऽद्य वै ।
सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनञ्जयः ॥
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् ।
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥
परिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि ।
युयुधानमनन्विष्य लोको मां गर्हयिष्यति ॥
भ्रातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः ।
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् ।
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ॥
यथैव च मम प्रीतिरर्जुने शत्रुमूदने ।
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ॥
अतिभारे नियुक्तश्च मया शैनेयनन्दनः । स तु मित्रोपरोधेन गौरवात्तु महाबलः ।
प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् ।
मिथः संयुध्यमानानं वृष्णिवीरेण धीमता ॥
प्राप्तकालं सुबलवन्निश्चितं बहुधा हि मे । तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ।
गमनं रोचते मह्यं यत्र यातौ महारथौ ॥
न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चिन ॥
शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम् ।
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः ।
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥
इतो गते भीमसेने सात्वतं प्रति पाण़्डवे ।
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ॥
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ ।
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ ॥
अवश्यं तु मया कार्यमात्मनः शोकनाशनम् ।
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ॥
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ॥ एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः ।
यन्तारमब्रवीद्राजा भीमं प्रति नयस्व माम् ॥
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः ।
रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ॥
भीमसेनमनुज्ञाप्य प्राप्तकालमचिन्तयत् ।
कश्मलं प्राविशद्राजा बहु तत्र समादिशत् ॥
स कश्मलसमाविष्टो भीममाहूय पार्थिवः । अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः ।
अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः ॥ यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् ।
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ॥
सञ्जय उवाच ।
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् ।
नैवाद्राक्षं नचाश्रौषं तव कश्मलमीदृशम् ॥
पुरातिदुःखदीर्णानां भवान्गतिरभूद्धि नः ।
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥
न ह्यसाध्यमकार्यं वा विद्यते मम मानद ।
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ॥
सञ्जय उवाच ।
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् ।
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥
श्रूयते पाञ्चजन्यस्य यथा शङ्खस्य निस्वनः ।
पूरितो वासुदेवेन संरब्धेन यशस्विना ॥
नूनमद्य हतः शेते तव भ्राता धनञ्जयः ।
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः ॥
यस्य सत्ववतो वीर्यं ह्युपजीवन्ति पाण्डवाः ।
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः ॥
स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ।
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः ॥
श्यामो युवा गुडाकेशो दर्शनीयो महारथः ।
व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः ॥
चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः ।
`मम प्रियहितार्थं च शक्रलोकादिहागतः ॥
वृद्धोपसेवी धृतिमान्कृतज्ञः सत्यसङ्गरः ।
प्रविष्टो महतीं सेनामपर्यन्तां धनञ्जयः ॥
प्रविष्टे च चमूं घोरामर्जुने शत्रुनाशने ।
प्रेषितः सात्वतो वीरः फल्गुनस्य पदानुगः ॥
तस्याभिगमनं जाने भीम नावर्तनं पुनः' ।
तदिदं मम भद्रं ते शोकस्थानमरिन्दम ॥
अर्जुनार्थे महाबाहो सात्वतस्य च कारणात् ।
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः ॥
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ।
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् ॥
स तं महारथं पश्चादनुयातस्तवानुजम् ।
तमपश्यन्महाबाहुमदं विन्दामि कश्मलम् ॥
`अथैनं पुनराचक्ष्व लोहिताक्षं सकेशवम् ।
दृष्ट्वा कुशलिनं पार्थं सैन्धवान्ते ससात्यकिम् ॥
संविदं मम कुर्यास्त्वं सिंहनादेन पाण्डव ॥
नूनं विनिहतः शूरः सव्यासाची परन्तप' ।
पार्थे तस्मिन्हते चैव युध्यते गरुडध्वजः ॥
सहयो नास्य वै कश्चित्तेन विन्दामि कश्मलम् ।
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः ॥
न हि मे शुध्यते भावस्तयोरेव परन्तप ।
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः ॥
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ।
वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते ॥
न मेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा ॥
चिकीर्षुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः ।
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥
दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम् ।
संविदं चैव कुर्यास्त्वं सिंहनादेन पाण़्डव ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥

5-126-6 वानरर्षभलक्षणं वानरप्रधानध्वजम् । वरवानरकेतनमिति पाठो वा ॥ 5-126-9 सत्यो दृढप्रतिज्ञः ॥ 5-126-25 सात्यकिम्प्रति प्रतिविधानं कृतमित्यन्वयः ॥ 5-126-40 चकोरनेत्रो रक्तान्तायतनयनः । ताम्रास्यो रक्तगौरमुखः ॥ 5-126-126 षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥

श्रीः