अध्यायः 008

सञ्जयेन धृतराष्ट्रं प्रति द्रोणपराक्रमवर्णनपूर्वकं तन्निधनकथनम् ॥ 1 ॥

सञ्जय उवाच ।
तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् ।
व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् ॥
ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ ।
अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् ॥
तत्रैनमर्जुनश्चैव धृष्टद्युम्नश्च पार्षतः । `ये चान्ये पार्थिवा राजन्पाण्डवस्यानुसैनिकाः ।
प्रत्यगृह्णंस्ततस्तत्र समागच्छन्महारथाः ॥
केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः ।
युधिष्ठिरो यमौ मात्स्यो द्रुदश्चात्मजैः सह ॥
द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः ।
चेकितानश्च सङ्क्रुद्धो युयुत्सुश्च महारथः ॥
ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः ।
कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः ॥
संभिद्यमानां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे ।
व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत ॥
स तीव्रं कोपमास्थाय रथे समरदुर्जयः ।
व्यधमत्पाण्डवानीकं महाभ्राणीव मारुतः ॥
रथानश्वान्नरान्नागानभिधावन्नितस्ततः ।
चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा ॥
तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः ।
आजानेया हया राजन्नविश्रान्ताः सुखं ययुः ॥
तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् ।
दृष्ट्वा सम्प्राद्रवन्योधाः पाण्डवस्य ततस्ततः ॥
तेषां प्राद्रवतां भीमः पुनरावर्ततामपि ॥
पश्यतां तिष्ठतां चासीच्छब्दः परमदारुणः ॥
शूराणां हर्षजननो भीरूणां भयवर्धनः ।
द्यावापृथिव्योर्विवरं पूरयामास सर्वतः ॥
ततः पुनरपि द्रोणो नाम विश्रावयन्युधि ।
अकरोद्रौद्रमात्मानं किरञ्छरशतैः परान् ॥
स तथा तेष्वनीकेषु पाण्डुपुत्रस्य मारिष ।
कालवद्व्यचरद्द्रोणो युवेव स्थविरो बली ॥
उत्कृत्य च शिरांस्युग्रो बाहूनपि सुभूषणान् ।
कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारवान् ॥
तस्य हर्षप्रणादेन बाणवर्षेण च प्रभो ।
प्राकम्पन्त रणे योधा गावः शीतार्दिता इव ॥
द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च ।
धनुःशब्देन चाकाशे शब्दः समभवन्महान् ॥
अथास्य धनुषो बाणा निस्सरन्तः सहस्रशः । व्याप्य सर्वा दिशः पेतुर्नागाश्वरथपत्तिषु ।
तं कार्मुकमहावेगमस्त्रज्वलितपावकम् ।
द्रोणमासादयाञ्चक्रुः पाञ्चालाः पाण्डवैः सह ॥
सनागरथपत्त्यश्वान्प्राहिणोद्यमसादनम् ।
अचिरादकरोद्दोणो महीं शोणितकर्दमाम् ॥
तन्वता परमास्त्राणि शरान्सततमस्यता ।
द्रोणेन विहितं दिक्षु शरजालमदृश्यत ॥
पदातिषु रथाश्वेषु वारणेषु च सर्वशः ।
तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत ॥
सकेकयानां प्रवरांश्च पञ्च पाञ्चालराजं च शरैः प्रमथ्य ।
युधिष्ठिरानीकमदीनसत्वो द्रोणोऽभ्ययात्कार्मुकबाणपाणिः ॥
तं भीमसेनश्च धनञ्जयश्च शिनेश्च नप्ता द्रुपदात्मजश्च ।
शैब्यात्मजः काशिपतिः शिबिश्च दृष्ट्वा नदन्तो व्यकिरञ्छरौघैः ॥
`तेषां शरा द्रोणशरैर्निकृत्ता भूमावदृश्यन्त विवर्तमानाः ।
श्रेणीकृताः संयति मोघवेगा द्वीपे नदीनामिव काशरोहाः' ॥
ते द्रोणबाणासनविप्रमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः ।
भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः ॥
सा योधसङ्घैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च ।
प्रच्छाद्यमाना पतितैर्बभूव समावृता द्यौरिव कालमेघैः ॥
शैनेयभीमार्जुनवाहिनीशं सौभ्रद्रपाञ्चालसकाशिराजम् ।
अन्यांश्च वीरान्समरे ममर्द द्रोणः सुतानां तव भूतिकामः ॥
एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा ।
प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन् ॥
एवं रुक्मरथः शूरो हत्वा शतसहस्रशः ।
पाण़्डवानां रणे योधान्पार्षतेन निपातितः ॥
अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् ।
निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् ॥
पाण्डवैः सहपाञ्चालैरशिवैः क्रूरकर्मभिः ।
हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् ॥
ततो निनादो भूतानामाकाशे समजायत ।
सैन्यानां च ततो राजन्नाचार्ये निहते युधि ॥
द्यां धरां खं दिशो वापि प्रदिशर्श्चानुनादयन् ।
अहो धिगिति भूतानां शब्दः समभावद्भृशम् ॥
देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः ।
ददृशुर्निहतं तत्र भारद्वाजं महारथम् ॥
पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे ।
सिंहनादेन महता समकम्पत मेदिनी ॥
`विचित्रजाम्बूनदभूषितध्वजं महारथं रुक्मरथं निपातितम् ॥ ।

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि अष्टमोऽध्यायः ॥ 8 ॥

5-1-12 भीमः शब्द इति सम्बन्धः ॥ 5-1-8 अष्टमोऽध्यायः ॥

श्रीः