अध्यायः 134

भीमेन पराजितस्य कर्णस्य पलायनम् ॥ 1 ॥

सञ्जय उवाच ।
सर्वथा विरथः कर्णः पुनर्भीमेन निर्जितः ।
रथमन्यं समास्थाय पुनर्विव्याध पाण्डवम् ॥
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥
अथ कर्णः शरव्रातैर्भीमसेनं समार्पयत् ।
ननाद च महानादं पुनर्विव्याध चोरसि ॥
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ।
पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम् ॥
कर्णस्तु नवभिर्भीमं भित्त्वा राजंस्तनान्तरे ।
ध्वजमेकेन विव्याध विशोकं च त्रिभिः शरैः ॥
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत ।
तोत्रैरिव महानागं कशाभिरिव वाजिनम् ॥
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना ।
सृक्विणी लेलिहन्वीरः क्रोधरक्तान्तलोचनः ॥
ततः शरं महाराज सर्वकायावदारणम् ।
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः ।
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥
ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः । वज्रकल्पां चतुष्किष्कुं गुर्वी रुक्माङ्गदां गदाम् ।
प्राहिणोत्मूतपुत्राय षडस्रामविचारयन् ॥
तया जघानाधिरथेः सदश्वान्साधुवाहिनः ।
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ ।
ध्वजमाघिरथेश्छित्त्वा सूतमभ्यहनच्छरैः ॥
हताश्वसूतमुत्सृज्य स रथं पतितध्वजम् ।
विष्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् ।
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ॥
विरथं तं नरश्रेष्ठं दृष्ट्वाऽऽधिरथिमाहवे ।
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥
एष दुर्मुख राधेयो भीमेन विरथीकृतः ।
तं रथेन नरश्रेष्ठ सम्पादय महारथम् ॥
ततो दुर्योधनवचः श्रुत्वा भारत दुर्मुखः ।
त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः ॥
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम् ।
वायुपुत्रः प्रहृष्टोऽभूत्सृक्विणी परिसंलिहन् ॥
ततः कर्णं महाराज वारयित्वा शिलीमुखैः ।
दुर्मुखाय रथं तूर्णं प्रेषयामास पाण्डवः ॥
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः ।
सुमुखैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते ।
आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् ।
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् ।
दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ॥
तस्मिंस्तु विवरे राजन्नाराचान्गार्धवाससः ।
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥
ते तस्य कवचं भित्त्वा स्वर्णचित्रं महोजसः ।
हेमपुङ्खा महाराज व्यशोभन्त दिशो दश ॥
अपिबन्सूत पुत्रस्य शोणितं रक्तभोजनाः ।
क्रुद्धा इव मनुष्येन्द्र भुजङ्गाः कालचोदिताः ॥
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः ।
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः ।
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः ।
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम् ।
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः ।
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः ।
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥
स विह्वलो महाराज कर्णो भीमशराहतः ।
प्राद्रवज्जवनैरश्वै रणं हित्वा महाभयात् ॥
भीमसेनस्तु विष्फार्य चापं हेमपरिष्कृतम् ।
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥

5-134-10 ततः शैक्यां चतुष्किष्कुं इति क.ख.ङ.पाठः ॥ 5-134-32 सुष्ठु पर्णानां पत्राणां वेगो येषाम् ॥ 32 ॥ 5-134-134 चतुस्त्रिंशदधिकशततमोऽध्यायः ॥

श्रीः