अध्यायः 135

भीमेन दुर्मर्षणादिदुर्योधनानुजानां पञ्चानां हननम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् ।
यत्राधिरथिरायत्तौ नातरत्पाण्डवं रणे ॥
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे । न च कर्णसमं लोके पश्यामि कञ्चन ।
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः ।
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥
वसुषेणसहायं मां नालं देवाऽपि संयुगे ।
किं नु पाण्डुसुता राजन्गतसत्वा विचेतसः ॥
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् ।
युद्धात्कर्णमपक्रान्तं किंस्विद्दुर्योधनोऽब्रवीत् ॥
अहो दुर्मुखमेवैकं युद्धानामविशारदम् ।
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः ॥
अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः ।
न शक्त्याः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय ॥
तेऽपि चास्य महाघोरं बलं नागायुतोपमम् ।
जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् ।
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥
कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितम् ।
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥
योऽजयत्समरे कर्णं पुरन्दर इवासुरम् ।
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥
द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम् ।
भीमो धनञ्जयान्वेषी कस्तमार्च्छेज्जिजीविषु ॥
को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः ।
उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः ॥
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः ।
न भीमसेनं सम्प्राप्य निवर्तेत कदाचन ॥
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः ।
ये भीमसेनं सङ्क्रुद्धमन्वधावन्विमोहिताः ॥
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् ।
उक्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम् ।
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥
यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः ।
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् ।
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति पुत्रकः ॥
दृष्ट्वा भ्रातॄन्हतान्सङ्ख्ये भीमसेनेन दंशितान् ।
आत्मापराधात्सम्मूढो नूनं तप्यति पुत्रकः ॥
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् ।
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥
बडबामुखमध्यस्थो मुच्येतापि हि मानवः ।
न भीममुखसम्प्राप्तो मुच्येदिति मतिर्मम ॥
न पार्था न च पञ्चाला न च केशवसात्यकी ।
जानते युधि संरब्धा जीवितं परिरक्षितुम् ॥
अहो मम सुतानां हि विपन्नं सूत जीवितम् ॥
सञ्जय उवाच ।
यस्त्वं शोचसि कौरव्य वर्तमाने महाभये ।
त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः ।
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् ।
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥
यत्तु कुत्सयसे योधान्युध्यमानान्महाबलान् ।
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत ॥
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् ।
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च भारत ॥
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः ।
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन् ॥
ते समन्तान्महाबाहुं परिवार्य वृकोदरम् ।
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः ।
प्रतिजग्राह समरे भीमसेनो हसन्निव ॥
तव दृष्ट्वा तु तनयान्दुर्मर्षणपुरोगमान् ।
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥
विसृजन्विशिखांस्तीक्ष्णान्स्वर्णपुङ्खांञ्छिलाशितान् ।
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥
कुरवस्तु ततः कर्णं परिवार्य समन्ततः ।
अवाकिरन्भीमसेनं शरैः सन्नतपर्वभिः ॥
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् ।
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः ।
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ।
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः ।
सूतपुत्रो महाराज भीमसेनमवैक्षत ॥
तं भीससेनः संरम्भात्क्रोधसंरक्तलोचनः ।
विष्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

5-135-9 यमः संयमनव्यापारः कालः कलनव्यापरः अन्तको मारणव्यापारः तदुपमम् ॥ 5-135-135 पञ्चत्रिंशदधिकशततमोऽध्यायः ॥

श्रीः