अध्यायः 140

सात्यकिना अलम्बुसदधः ॥ 1 ॥

धृतराष्ट्र उवाच ।
`दातव्यमद्य मन्येऽहं पाण्डवानां स्वकं पुनः ।
न विग्रहो हि बलिना श्रेयसे स्याद्यथातथा ॥
पादयोः प्रणतेनापि भुक्त्वाऽप्युच्छिष्टमप्यरेः ।
अतोऽन्यद्वापि कृत्वैव जीव्यं लोके नरेण वै ॥
जीवतैव परो लोकः साध्यते चैव सर्वथा ।
अजीवतस्तथैवासीन्न सुखं न परा गतिः ॥
विनाशे सर्वथोत्पन्ने न बालो बुध्यते क्रियाम् ।
मिथ्याभिमानदग्धो हि न बुद्ध्येत कृताकृते' ॥
अहन्यहनि मे दीप्तं यशः पतति सञ्जय ।
हता मे बहवो योधा मन्ये कालस्य पर्ययम् ॥
धनञ्जयः सुसङ्क्रद्धः प्रविष्टो मामकं बलम् ।
रक्षितं द्रौणिकर्णाभ्यामप्रवेश्यं सुरैरपि ॥
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः ।
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ॥
तदाप्रभृति मां शोको दहत्यग्निरिवाशयम् ।
ग्रस्तानिव प्रपश्यामि भूमिपालान्ससैन्धवान् ॥
अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः । `क्रुद्धस्य देवराजस्य शक्रस्येव महाद्युतेः' ।
चक्षुर्विषयमापन्नः कथं जीवितमाप्नुयात् ॥
अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः ।
युद्धं तु तद्यथावृत्तं तन्ममाचक्ष्व तत्त्वतः ॥
यच्च विक्षोभ्य महतीं सेनामालोड्य चासकृत् ।
एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः ॥
तस्य मे वृष्णिवीरस्य ब्रूहि युद्धं यथातथम् ।
धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय ॥
सञ्जय उवाच ।
तथा तु वैकर्त नपीडितं तं भीमं प्रयान्तं पुरुषप्रवीरम् ।
समीक्ष्य राजन्नरवीरमध्ये शिनिप्रवीरोऽनुययौ रथेन ॥
नदन्यथा वज्रधरस्तपान्ते ज्वलन्यथा जलदान्ते च सूर्यः ।
निघ्नन्नमित्रान्धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् ॥
तं यान्तमश्वै रजतप्रकाशै-- रायोधने वीरतरं नदन्तम् ।
नाशक्नुवन्वारयितुं त्वदीयाः सर्वे रथा भारत माधवाग्र्यम् ॥
अमर्षपूर्णस्त्वनिवृत्तयोधी शरासनी काञ्चनवर्मधारी ।
अलम्बुसः सात्यकिं माधवाग्र्य-- मवारयद्राजवरोऽभिपत्य ॥
तयोरभूद्भारत सम्प्रहारो यथाविधो नैव बभूव कश्चित् ।
प्रेक्षन्त एवाहवशोभिनौ तौ योधास्त्वदीयाश्च परे च सर्वे ॥
आविध्यदेनं दशभिः पृषत्कै-- रलम्बुसो राजवरः प्रसह्य ।
अनागतानेव तु तान्पृषत्कां-- श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ॥
पुनः स बाणैस्त्रिभिरग्निकल्पै-- राकर्णपूर्णैर्निशितैः सपुङ्खैः ।
विव्याध देहावरणं विदार्य ते सात्यकेराविविशुः शरीरम् ॥
तैः कायमस्याग्न्यनिलप्रभावै-- र्विदार्य बाणैर्निशितैर्ज्वलद्भिः ।
आजघ्निवांस्तान्रजतप्रकाशा-- नश्वांश्चतुर्भिश्चतुरः प्रसह्य ॥
तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेश्चक्रधरप्रभावः ।
अलम्बुसस्योत्तमवेगवद्भि-- रश्वांशअचतुर्भिर्निजघान बाणैः ॥
अथास्य सूतस्य शिरो निकृत्य भल्लेन कालानलसन्निभेन ।
सकुण्डलं पूर्मशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् ॥
निहत्य तं पार्थिवपुत्रपौत्रं सङ्ख्ये यदूनामृषभः प्रमाथी ।
ततोऽन्वयादर्जुनमेव वीरः सैन्यानि राजंस्तव सन्निवार्य ॥
अन्वागतं वृष्णिवीरं समीक्ष्य तथारिमध्ये परिवर्तमानम् ।
घ्नन्तं कुरूणामिषुभिर्बलानि पुनःपुनर्वायुमिवाभ्रपूगान् ॥
ततोऽवहन्सैन्धवाः साधुदान्ता गोक्षीरकुन्देन्दुहिमप्रकाशाः ।
सुवर्णजालावतताः सदश्वा यतोयतः कामयते नृसिंहः ॥
अथात्मजास्ते सहिताऽभिपेतु-- रन्ये च योधास्त्वरितास्त्वदीयाः ।
कृत्वा मुखं भारतयोधमुख्यं दुःशासनं त्वत्सुतमाजमीढ ॥
ते सर्वतः सम्परिवार्य सङ्ख्ये शैनेयमाजघ्नुरनीकसाहाः ।
स चापि तान्प्रवरः सात्वतानां न्यवारयद्बाणजालेन वीरः ॥
निवार्य तांस्तूर्णममित्रघाती नप्ता शिनेः पत्रिभिरग्निकल्पैः ।
दुःशासनस्याभिजघान वाहा-- ञ्जवीयसस्तन्मनसोऽपि बाणैः ॥
ततोऽर्जुनो हर्षमवाप सङ्ख्ये कृष्णश्च दृष्ट्वा पुरुषप्रवीरम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥

5-140-17 प्रेक्षन्तः प्रेक्षकाः । बभूवेत्येतत् बहुवचनतया परिणतमनुषज्यते ॥ 5-140-18 प्रसह्य अनादृत्य ॥ 5-140-140 चत्वारिंशदधिकशततमोऽध्यायः ॥

श्रीः