अध्यायः 145
कृष्णार्जुनयोः संवादः कर्णसात्यक्योर्युद्धं च ॥ 1 ॥
तदवस्थे हे तस्मिन्भूरिश्रवसि कौरवे ।
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत ।
वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥
अर्जुन उवाच ।
चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः ।
[श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते ।]
प्रतिज्ञां सफलां चापि कर्तुमर्हसि मेऽनघ ॥
अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥
एतद्धि पुरुषव्याघ्र महदब्युद्यतं मया ।
कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥
यथा नाभ्येति सूर्योऽस्तं यथा सत्यं भवेद्वचः ।
चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥
`ततः कृष्णो महाबाहुरश्वान्रजतसन्निभान् ।
हयज्ञश्चोदयामास जयद्रथवधं प्रति ॥
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः ।
त्वरमाणा महाराज सेनामुख्याः समाद्रवन् ॥
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् ।
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥
समासाद्य च बीभत्सुः सैन्धवं समुपस्थितम् ।
नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव' ॥
यथाग्निरिन्धनेद्धौ वै क्रोधेन्धनसमीरितः ।
सैन्धवस्य मुखं त्यक्त्वा कर्णः सात्वतमभ्ययात् ॥
उपायान्तं* तु राधेयं दृष्ट्वा पार्थो महारथः ।
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति ।
न मृष्यति हतं नूनं भूरिश्रवसमाहवे ॥
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन ।
न सौमदत्तिपदवीं गमयेत्सात्यकिं वृषः ॥
सञ्जय उवाच ।
एवमुक्तो महाबाहुः केशवः सव्यसाचिना ।
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ॥
अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव ।
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥
न च तावत्क्षमः पार्थ तव कर्णेन सङ्गरः ।
प्रज्वलन्ती महोल्केव तिष्ठत्यस्मिन्हि वासवी ।
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥
`न कर्णं प्राकृतं मन्ये तेन योद्धुं न साम्प्रतम् ।
यः कर्णो बलवानेष शक्तोऽस्माञ्जेतुमोजसा ॥
कर्णस्यैष महान्दोषो यद्दूयेन पदेपदे ।
प्रमादाच्च घृणित्वाच्च तेन शोचिति मे मनः' ॥
अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा ।
अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः ॥
यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले ।
तदा गन्तासि पार्थ त्वं तेन योद्धुं दुरात्मना ॥
धृतराष्ट्र उवाच ।
योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः ।
हते तु भूरिश्रवसि तद्युद्धमभवत्कथम् ॥
सात्यकिश्चापि विरथः कं समारूढवान्रथम् ।
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
हन्त ते कथयिष्यामि यथावृत्तं महारणे ।
पश्यतां सर्वसैन्यानां केशवार्युनयोरपि ।
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥
xxमेव हि कृष्णस्य मनोगतमिदं प्रभो ।
विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना ॥
अतीतानागते राजन्स हि वेत्ति जनार्दनः ।
ततः सूतं समाहूय दारुकं संदिदेश ह ।
रथो मे युज्यतां कल्यमिति राजन्महाबालः ॥
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः ।
मानवा वाऽपि जेतारः कृष्णयोः सन्ति केचन ।
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः ।
तयोः प्रभावमतुलं शृणु युद्धं तु तत्तथा ॥
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतं रणे ।
दध्मौ शङ्खं महानादमार्षभेणाथ माधवः ॥
दारुकोऽवेत्य सन्देशं श्रुत्वा शङ्खस्य च स्वनम् ।
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥
स केशवस्यानुमते रथं दारुकसंयुतम् ।
आरुरोह शिनेः पौत्रो ज्वलनादित्यसन्निभम् ॥
कामगैः शैव्यसुग्रीवमेघपुष्पवलाहकैः ।
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ॥
युक्तं समारुह्य च तं विमानप्रतिमं रथम् ।
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ ।
धनञ्जयरथं हित्वा राधेयं प्रत्युदीयतुः ॥
राधेयोऽपि महाराज शरवर्षं समुत्सृजन् ।
अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ॥
नैव दैवं न गान्धर्वं नासुरं न च राक्षसम् ।
तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत ।
उपारसत तत्सैन्यं सरथाश्वनरद्विपम् ॥
तयोर्दृष्ट्वा महाराज कर्म सम्मूढचेतसः ।
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् ॥
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥
गतप्रत्यागतावृत्तैर्मण्डलैः सन्निवर्तनैः ।
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥
नभस्तलगताश्चैव देवगान्धर्वदानवाः ।
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥
मित्रार्थे तौ पराक्रान्तौ शुष्मिणौ स्पर्धिनौ रमे ॥
कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः ।
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् ॥
प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः ।
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः ॥
कर्णः शोकसमाविष्टो महोरग इव श्वसन् ।
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा ।
अभ्यधावत वेगेन पुनःपुनररिन्दम ॥
तं तु सक्रोधमालोक्य सात्यकिः प्रत्ययुध्यत ।
महता शरवर्षेण गजं प्रतिगजो यथा ॥
तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ ।
अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ॥
ततः कर्णं शिनेः पौत्रः सर्वपारसवैः शरैः ।
बिभेद सर्वगात्रेषु पुनःपुनररिन्दम ॥
सारथिं चास्य भल्लेन रथनीडादपातयत् ।
अश्वांश्च चतुरः श्वेतान्निजघान शितैः शरैः ॥
छित्त्वा ध्वजं रथं चैव शतधा पुनर्षर्षभ ।
चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥
ततो विमनसो राजंस्तावकास्ते महारथाः ।
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा ।
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् ॥
ततः पर्याकुलं सर्वं न प्राज्ञायत किंचन ॥
तथा सात्यकिना वीरे विरथे सूतजे कृते ।
हाहाकारस्ततो राजन्सर्वसैन्येष्वभून्महान् ॥
कर्णोऽपि विरथो राजन्सात्वतेन कृतः शरैः ।
दुर्योधनरथं तूर्णमारुरोह विनिःश्वसन् ॥
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् ।
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ॥
तथा तु विरथं कर्णं पुत्रांश्च परिपालयन् ॥
दुःशासनमुखान्वीरान्नावधीत्सात्यकिर्वशी ॥
रक्षन्प्रतिज्ञां भीमेन पार्थेन च पुराकृताम् ।
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥
भीमसेनेन तु वदः पुत्राणां ते प्रतिश्रुतः ।
अनुद्यूते च पार्थेन वधः कर्णस्य संश्रुतः ॥
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा ।
नाशक्नुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः ॥
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः ।
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः ।
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः ।
जितवान्सर्वसैन्यानि तावकानि हसन्निव ॥
कृष्णो वाऽपि भवेल्लोके पार्थो बाऽपि धनुर्धरः ।
शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते ॥
धृतराष्ट्र उवाच ।
अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः ।
विरथं कृतवान्कर्णं वासुदेवसमो युधि ।
दारुकेण समायुक्तः स्वबाहुबलदर्पितः ॥
कच्चिदन्यं समारूढः सात्यकिः शत्रुतापनः ।
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् ।
असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
शृणु राजन्यथावृत्तं रथमन्यं महामतिः ।
दारुकस्यानुजस्तूर्णं कल्पनाविदिकल्पितम् ॥
आयसैः काञ्चनैश्चापि पट्टैः सन्नद्धकूबरम् ।
तारासहस्रखचितं सिंहध्वजपताकिनम् ॥
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः ।
सैन्धवैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ॥
चित्रकाञ्चनसन्नाहैर्वाजिमुख्यैर्विशाम्पते ।
घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ॥
युक्तं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदैः ।
रथं सम्पादयामास मेघगम्भीरनिःस्वनम् ॥
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् ।
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥
कर्णस्यापि रथं राजञ्शङ्खगोक्षीरपाण्डुरैः ।
चित्रकाञ्चनसन्नाहैः सदश्वैर्वेगवत्तरैः ॥
हेमकक्ष्याध्वजोपेतं क्लृप्तयन्त्रपताकिनम् ।
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् ।
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।
भूयश्चापि निबोधेमं तवापन्नयजं क्षयम् ॥
एकत्रिंशत्तव सुता भीमसेनेन पातिताः ।
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् ॥
शतशो निहताः शूराः सात्वतेनार्जुनेन च ।
भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत ।
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे
पञ्चत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥
5-145-3 हेपुण्डरीकाक्ष स जयद्रथस्त्रिषु धर्मेषु वर्तते इति
श्रूयते के पुनस्ते त्रयो धर्माः । अत्रोच्यते । यदि युध्यमानो हन्यते तदा तूर्णं
स्वर्गप्राप्तिरेव तस्य धर्मः । अथ पलायमानो हन्यते तदा नरकप्राप्तिरेव तस्य
धर्मः । अथ मद्भयात्स्वदेशं गच्छति तदा यशःशरीरनाश एव तस्य धर्मः । यावदसौ
युद्धाभिमुखः प्रथमधर्मे तिष्ठति तावदेव हन्तुमुचितः अतः शीघ्रमश्वांश्चोदयेति ।
कुण्डलितोऽयं श्लोकार्धः झ.पुस्तक एव दृश्यते ॥ 5-145-7 हयज्ञः हयहृदयज्ञः ॥ 5-145-8 आशुगैः मारुतैः ॥ 5-145-14 वृषः कर्णः ॥ 5-145-* इत आरभ्य
उत्तराध्यायस्थ--मन्दरश्मिः सहस्रांशुरस्तङ्गिरिमुपाद्रवत् इति 25
तमश्लोकपर्यन्तं विद्यमानाः श्लोकः झ. पुस्तके जयद्रथवधादनन्तरं वर्तन्ते ।
5-145-17 वासवी शक्तिरिति शेषः ॥ 5-145-20 यथा प्रयाति तथा प्रयात्विति
योज्यम् । ज्ञास्यमि ज्ञापयिष्यामि ॥ 5-145-21 यत्र काले ॥ 5-145-25 पूर्वं
पूर्वेद्युः ॥ 5-145-26 कल्यं प्रातः ॥ 5-145-29 आर्षभेण स्वार्थे तद्वितः ।
ऋषभस्वरेण ॥ 5-145-39 काश्यपेयस्य दारुकस्य ॥ 5-145-57 अनुद्यूते पुनर्द्यूते ॥ 5-145-145 पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥
श्रीः