अध्यायः 148

कृष्णेनार्जुनं प्रति सैन्धवमूर्ध्नो धरण्यामनिपातनीयत्वे कारणाभिधानम् ॥ 1 ॥ कृष्णाज्ञयाऽर्जुनेन स्यमन्तपञ्चके सन्ध्य मुपासमानस्य वृद्धक्षत्रस्योत्सङ्गे जयद्रथशिरसो निपातनम् ॥ 2 ॥ उत्तिष्ठमानस्य तस्योत्सङ्गाच्छिरसि धरणौ पतिते वृद्ध क्षत्रमूर्ध्नो विदारणम् ॥ 3 ॥

सञ्जय उवाच ।
एवस्मिन्नेव काले तु त्वरमाणे दिवाकरे ।
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ॥
पार्थ पार्थ शिरो ह्येनद्यत्कृते न पतेद्भुवि ।
श्रूयतां तद्यथावृत्तं कारणं सैन्धवं *प्रति ॥
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः ।
स च घोरेण तपसा दैन्धवं प्राप्तवान्सुतम् ॥
जयद्रथममित्रघ्नं वागुवाचाशरीरिणी ।
नृपमन्तर्हिता वाणी मेघदुन्दुभिनिःस्वना ॥
तवात्मजो मनुष्येन्द्र कुलशीलदमादिभिः । गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः ।
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ॥
शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुश्चालक्षितो भुवि ॥
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दमः ।
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः ॥
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् ।
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ॥
तस्यापि शतधा मूर्धा फलिष्यति न संशयः ।
`यदि चेदस्ति मे लाभस्तपसो वा दमस्य वा' ॥
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् ।
वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः ॥
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् ।
स्यमन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे ।
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज ।
उत्सङ्गे पातयस्वास्य वृद्धक्षत्रस्य भारत ॥
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले ।
तवापि शतधा मूर्धा फलिष्यति न संशयः ॥
यथा चेदं न जानीयात्स राजा तपसि स्थितः ।
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन ।
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥
`यथैतत्सैन्धवशिरः शरैरेव धनञ्जय ।
वृद्धक्षत्रे पतत्येव तथा नीतिर्विधीयताम्' ॥
सञ्जय उवाच ।
ततः सुमहदाश्चर्यं तत्रापश्याम भारत ।
स्यमन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः ॥
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः ।
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष ॥
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् ।
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् ।
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम ॥
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य भारत ।
प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्वरातलम् ॥
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतले ।
गते तस्यापि शतधा मूर्धाऽगच्छदरिन्दम ॥
ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम् ।
वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ॥
`ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् ।
कर्मणा तेन पार्थस्य विस्मिताः सर्वदेवताः ॥
सर्वदा समरे यस्य गोप्ता नित्यं जनार्दनः ।
कथं तस्य जयो न स्यादिति भूतानि मेनिरे ॥
एतदर्थं शिरस्तस्य व्यापयामास पाण्डवः ।
स्यमन्तपञ्चकाद्बाह्यं शरैरेव यथाक्रमम् ॥
कृत्वा तच्च महत्कर्म निहत्य च जयद्रथम् ।
अस्त्रं पाशुपतं पार्थः संहर्तुमुपचक्रमे ॥
संहरत्यपि कौन्तेये तदस्त्रं तत्र भारत ।
ववौ शीतः सुगन्धश्च पवनो ह्लादयन्निव ॥
संहारं च प्रमोक्षं च दृष्ट्वा तत्र दिवौकसः ।
विस्मयं परमं जग्मुः प्रशशंसुश्च पाण्डवम् ॥
एवमस्त्रेण तान्वीरो योधयित्वा धनञ्जयः ।
जयद्रथशिरः पश्चाद्व्यापयामास पाण्डवः ॥
तच्छिरश्च्यावमानं तु ददृशुस्तावका युधि ।
शल्यकर्णकृपा राजन्मोहिताः सव्यसाचिना ॥
शिरसि च्याविते तस्य शरैराशीविषोपमैः ।
पश्चात्कायोऽपतद्भूमिं शोचयन्सर्वपार्थिवान् ॥
दृष्ट्वा तु निहतं सङ्ख्ये सिन्धुराजं महारथम् ।
पुत्राणां तव नेत्रेभ्यो दुःखादास्रं प्रवर्तत' ॥
ततो विनिहते राजन्सिन्धुराजे किरीटिना ।
तमस्तद्वासुदेवेन संहृतं भरतर्षभ ॥
पश्चाज्ज्ञातं महीपाल तव पुत्रैः सहानुगैः ।
वासुदेवप्रयुक्तेयं मायेति नृपसत्तम ॥
एवं स निहतो राजन्पार्थेनामिततेजसा ।
अक्षौहिणीरष्ट हत्वा जामाता तव सैन्धवः ॥
हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप ।
दुःखादश्रूणि मुमुचुर्निराशाश्चाभवञ्जये ॥
ततो जयद्रथे राजन्हते पार्थेन केशवः ।
दध्मौ शङ्खं महाबाहुरर्जुनश्च परन्तपः ॥
भीमश्च वृष्णिसिंहश्च युधामन्युश्च भारत ।
उत्तमौजाश्च विक्रान्तः शङ्खान्दध्मुः पृथक्पृथक् ॥
श्रुत्वा महान्तं तं शब्दं धर्मराजो युधिष्ठिरः ।
सैन्धनं निहतं मेने फल्गुनेन महात्मना ॥
ततो वादित्रघोषेण स्वान्योधान्पर्यहर्षयत् ।
अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया ॥
ततः प्रववृते राजन्नस्तं गच्छति भास्करे ।
द्रोणस्य सोमकैः सार्धं सङ्ग्रामो रोमहर्षणः ॥
ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः ।
सैन्धवे निहते राजन्नयुध्यन्त महारथाः ॥
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च ।
अयोधयंस्तु ते द्रोणं जयोऽन्मत्तास्ततस्ततः ॥
अर्जुनोऽपि ततो योधांस्तावकान्रथसत्तमान् ।
अयोधयन्महाबाहुर्हत्वा सैन्धवकं नृपम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिसयुद्धे अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥

5-148-* 147 तमाध्याये आदित्यं प्रेक्षमाणस्तु इत्यादि 61 तमश्लोकमारभ्य 148 तमाध्याये श्रूयतां तद्यथावृत्तं कारणं सैन्धवं प्रतीति 2 तीयश्लोकपर्यन्तं विद्यमानानां 23 विंशतिश्लोकानां स्थाने ग.घ.ङ.झ.पुस्तकेषु अधोलिखिताः 45 श्लोका दृश्यन्ते । एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे । अब्रवीत्पाण्डवं राजंस्त्वरमाणो जनार्दनः ॥ 1 ॥ एष मध्ये कृतः षड््भिः पार्थ वीरैर्महारथैः । जीवितेप्सुर्महाबाहो भीतस्तिष्ठति सैन्धवः ॥ 2 ॥ एताननिर्जित्य रणे षड्रथान्पुरुषर्षभ । न शक्यः शैन्धवो हन्तुं यतो निर्व्याजमर्जुन ॥ 3 ॥ योगमत्र विधास्यामि सूर्यस्यावरणं प्रति । अस्तं गत इति व्यक्तं द्रक्ष्यत्येकः स सिन्धुराट् ॥ 4 ॥ हर्षेण जीविताकाङ्क्षी विनाशार्थं तव प्रभो । न गोप्स्यति दुराचारः स आत्मानं कथञ्चन ॥ 5 ॥ तत्र च्छिद्रे प्रहर्तव्यं त्वयास्त कुरुसत्तम । व्यपेक्षा नैव कर्तव्या गतोऽस्तमिति भास्करः ॥ 6 ॥ एवमस्त्विति बीभत्सुः केशवं प्रत्यभाषत । ततोऽसृजत्तमः कृष्णः सूर्यस्यावरणं प्रति ॥ 7 ॥ योगी योगेन संयुक्तो योगिनामीश्वरो हरिः ॥ 8 ॥ सृष्टे तमसि कृष्णेन गतोऽस्तमिति भास्करः । त्वदीया जहृषुर्योधाः पार्थनाशान्नराधिप ॥ 9 ॥ ते प्रहृष्टा रणे राजन्नापश्यन्सैनिका रविम् । उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः ॥ 10 ॥ वीक्षमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम् । पुनरेवाब्रवीत्कृष्णो धनञ्जयमिदं वचः ॥ 11 ॥ पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवाकरम् । भयं हि विप्रमुच्यैतत्त्वत्तो भरतसत्तम ॥ 12 ॥ अयं कालो महाबाहो वधायास्य दुरात्मनः । छिन्धि मूर्धानमस्याशु कुरु साफल्यमात्मनः ॥ 13 ॥ इत्येवं केशवोनोक्तः पाण्डुपुत्रः प्रतापवान् । न्यवधीत्तावकं सैन्यं शरैरर्काग्निसन्निभैः ॥ 14 ॥ कृपं विव्याध विंशत्या कर्णं पञ्चाशता शरैः । शल्यं दुर्योधनं चैव षड््भिः षड््भिरताडयत् ॥ 15 ॥ वृषसेनं तथाष्टाभिः षष्ट्या सैन्धवमेव च । तथैव स महाबाहुस्त्वदीयान्पाण्डुनन्दनः । गाढं विद्ध्वा शरै राजञ्जयद्रथमुपाद्रवत् ॥ 16 ॥ तं समीपस्थितं दृष्ट्वा लेलिहानमिवानलम् । जयद्रथस्य गोप्तारः संशयं परमं गताः ॥ 17 ततः सर्वे महाराज तव योधा जयैषिणः । सिषिचुः शरधाराभिः पाकशासनिमाहवे ॥ 18 सञ्छाद्यमानः कौन्तेयः शरजालैरनेकशः । अक्रुध्यत्स महाबाहुरजितः कुरुनन्दनः ॥ 19 ॥ ततः शरमयं जालं तुमुलं पाकशासनिः । व्यसृजत्पुरुषव्याघ्रस्तव सैन्यजिघांसया ॥ 20 ॥ ते हन्यमाना वीरणे योधा राजन्रणे तव । प्रजहुः सैन्धवं भीता द्वौ समं नाप्यधावताम् ॥ 21 ॥ तत्राद्भुतमपश्याम कुन्तीपुत्रस्य विक्रमम् । तादृङ्ग भावी भूतो वा यच्चकार महायशाः ॥ 22 ॥ द्विपान्द्विपगतांश्चैव हयान्हयगतानपि । तथा स रथिनश्चैव न्यहन्रुद्रः पशूनिव ॥ 23 ॥ न तत्र समरे कश्चिन्मया दृष्टो नराधिप । गजो वाजी नरो वापि यो न पार्थशराहतः ॥ 24 ॥ रजसा तमसा चैव योधाः सञ्छन्नचक्षुषः । कश्मलं प्राविशन्घोरं नान्वजानन्परस्परम् ॥ 25 ॥ ते शरैर्भिन्नमर्माणः सैनिकाः पार्थचोदितैः । वभ्रमुश्चस्खलुः पेतुः सेदुर्मम्लुश्च भारत ॥ 26 ॥ तस्मिंन्महाभीषणके प्रजानामिव सङ्क्षये । रणे महति दुष्पारे वर्तमाने सुदारुणे ॥ 27 ॥ शोणितस्य प्रसेकेन शीघ्रत्वादनिलस्य च । अशाम्यत्तद्रजो भौममसृक्सिक्ते धरातले ॥ 28 ॥ आनाभि निरमज्जंश्च रथचक्राणि शोणिते । मत्ता वेगवता राजंस्तावकानां रणाङ्गणे ॥ 29 ॥ हस्तिनश्च हतारोहा दारिताङ्गाः सहस्रशः । स्वान्यनीकानि मृद्गन्त आर्तनादाः प्रदुद्रुवुः ॥ 30 ॥ हयाश्च पतितारोहाः पत्तयश्च नराधिप । प्रदुद्रुवुर्भयाद्राजन्धनञ्जयशराहताः ॥ 31 ॥ मुक्तकेशा विकवचाः क्षरन्तः क्षतजं क्षतैः । प्रापलायन्त सन्त्रस्तास्त्यक्त्वा रणशिरो जनाः ॥ 32 ॥ ऊरुग्राहगृहीताश्च केचित्तत्राभवन्भूवि । हतानां चापरे मध्ये द्विरदानां निलिल्यिरे ॥ 33 ॥ एवं तव बलं राजन्द्रावयित्वा धनञ्जयः । न्यवधीत्सायकैर्घोरैः सिन्धुराजस्य रक्षिणः ॥ 34 ॥ द्रौणिं कृपं कर्णशल्यौ वृषसेनं सुयोधनम् । छादयामास तीव्रेण शरजालेन पाण्डवः ॥ 35 ॥ न गृह्णन्नक्षिपरन्राजन्मुञ्चन्नापि च सन्दधत् । अदृश्यतार्जुनः सङ्ख्ये शीघ्रास्त्रत्वात्कथञ्चन ॥ 36 ॥ धनुर्मण्डलमेवास्य दृश्यते स्मास्यतः सदा । सायकाश्च व्यदृश्यन्त निश्चरन्तः समन्ततः ॥ 37 ॥ कर्णस्य तु धनुश्छित्त्वा वृषसेनस्य चैव ह । शल्यस्य सूतं भल्लेन रथनीडादपातयत् ॥ 38 ॥ गाढविद्धावुभौ कृत्वा शरैः स्वस्रीयमातुलौ । अर्जुनो जयतां श्रेष्ठो द्रौणिशारद्वतौ रणे ॥ 39 ॥ एवं तान्व्याकुलीकृत्य त्वदीयानां महारथान् । उज्जहार शरं घोरं पाण्डवोऽनलसन्निभम् ॥ 40 ॥ इन्द्राशनिसमप्रख्यं दिव्यमस्त्राभिमन्त्रितम् । सर्वभारसहं शश्वद्ग्रन्धमाल्यार्चितं महत् ॥ 41 ॥ वज्रेणास्त्रेण संयोज्य विधिवत्कुरुनन्दनः । समादधन्महाबाहुर्गाण्डीवे क्षिप्रमर्जुनः ॥ 42 ॥ तस्मिन्सन्धीयमाने तु शरे ज्वलनतेजसि । अन्तरिक्षे महानादो भूतानामभवन्नृप ॥ 43 ॥ अब्रवीच्च पुनस्तत्र त्वरमाणो जनार्दनः । धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः ॥ 44 ॥ अस्तं महीधरश्रेष्ठं यियासति दिवाकरः । शृणुष्वैतच्च वाक्यं मे जयद्रथवधं पर्ति ॥ 45 ॥

श्रीः