अध्यायः 150
युधिष्ठिरेण स्वाभिवादकानां कृष्णभीमार्जुनसात्यकीनामालिङ्गनादिना
सत्कारः ॥ 1 ॥ कृष्णयुधिष्ठिरयोः संलापः ॥ 2 ॥
ततो राजानमभ्येत्य धर्मपुत्रं युधिष्ठिरम् ।
ववन्दे सम्प्रहृष्टात्मा हते पार्थेन सैन्धवे ॥
दिष्ट्या वर्धसि राजेन्द्र हतशत्रुर्नरोत्तम ।
दिष्ट्या निस्तीर्णवांशैव प्रतिज्ञामनुजस्तव ॥
स त्वेवमुक्तः कृष्णेन हृष्टः परपुरञ्जयः ।
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत ।
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ॥
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् ।
अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् ॥
प्रियमेतदुपश्रुत्य त्वत्तः पुष्करलोचन ।
नान्तं गच्छामि हर्षस्य तितीर्षुरुदधेरिव ॥
अत्यद्भुतमिदं कृष्ण कृतं पार्थेन धीमता ।
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ ॥
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ।
`दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे' ॥
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता ।
त्वया गुप्तेन गोविन्द घ्नता पापं जयद्रथम् ॥
किन्तु नात्यद्भुतं तेषां येषां नस्त्वं समाश्रयः ।
न तेषां दुष्कृतं किञ्चित्त्रिषु लोकेषु विद्यते ।
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ॥
त्वत्प्रसादाद्धि गोविन्द वयं जेष्यामहे रिपून् ।
`यथा पुरा प्रसादात्ते दानवान्पाकशासनः ॥
पृथिव्या विजयो वापि त्रैलोक्यविजयोऽपि वा ।
ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि मानद ॥
न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः ।
त्रिदशेश्वर नाथस्त्वं येषां तुष्टोऽसि माधव ॥
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः ।
त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ॥
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वराः ।
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान्' ॥
स्थितः सर्वात्मना नित्यं प्रियेषु च हितेषु च ।
त्वां चैवास्माभिराश्रित्य कृतः शस्त्रसमुद्यमः ।
सुरैरिवासुरवधे शक्रं शक्रानुजाहवे ॥
असंभाव्यमिदं कर्म देवैरपि जनार्दन ।
त्वद्बुद्धिबलवीर्येण कृतवानेष फल्गुनः ॥
बाल्यात्प्रभृति ते कृष्ण कर्माणि श्रुतवानहम् ।
अमानुषाणि दिव्यानि महान्ति च बहूनि च ।
तदैवाज्ञासिषं शत्रून्हतान्प्राप्तां च मेदिनीम् ॥
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन ।
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ॥
त्वत्प्रसादाद्वृषीकेश जगत्स्थावरजङ्गमम् ।
स्ववर्त्मनि स्थितं वीर जपरहोमेषु वर्तते ॥
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् ।
त्वत्प्रसादान्माहाबाहो जगत्प्राप्तं नरोत्तम ॥
स्रष्टारं सर्वलोकानां परमात्मानमव्ययम् ।
ये पश्यन्ति हृषीकेश न ते मुह्यन्ति कर्हिचित् ॥
पुराणं परमं देवं देवदेवं सनातनम् ।
ये प्रपन्नाः सुरगुरुं न ते मुह्यन्ति कर्हिचित् ॥
अनादिनिधनं देवं लोककर्तारमव्ययम् ।
ये भक्तास्त्वां हृषीकेश दुर्गाण्यतितरन्ति ते ॥
परं पुराणं पुरुषं पराणां परमं च यत् ।
प्रपद्यतस्तत्परमं परा भूतिर्विधीयते ॥
गायन्ति चतुरो वेदा यश्च देवेषु गीयते ।
तं प्रपद्य महात्मानं भूतिमश्नाम्यनुत्तमाम् ॥
परमेश परेशेश तिर्यगीश नरेश्वर ।
सर्वेश्वरेश्वरेशेन नमस्ते पुरुषोत्तम ॥
त्वमीशेशेश्वरेशान प्रभो वर्धस्व माधव ।
प्रभवाप्यय सर्वस्य सर्वात्मन्पृथुलोचन ॥
धनञ्जयसखा यश्च धनञ्जयहितश्च यः ।
धनञ्जयस्य गोप्ता तं प्रपद्य सुखमेधते ॥
[मार्कण्डेयः पुराणर्षिश्चरितज्ञस्तवानघ ।
माहात्म्यमनुभावं पुरा फीर्तितवान्मुनिः ॥
असितो देवलश्चैव नारदश्च महातपाः ।
पितामहश्च मे व्यासस्त्वामाहुर्विधिमुत्तमम् ॥
त्वं तेजस्त्वं परं ब्रह्म त्वं सत्यं त्वं महत्तपः ।
त्वं श्रेयस्त्वं यशश्चाग्र््यं कारणं जगतस्तथा ॥
त्वया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ।
प्रलये समनुप्राप्ते त्वां वै निविशते पुनः ॥
अनादिनिधनं देवं विश्वस्येशं जगत्पते ।
धातारमजमव्यक्तमाहुर्वेदविदो जनाः ॥
भूतात्मानं महात्मानमनन्तं विश्वतोमुखम् ।
अपि देवा न जानन्ति गुह्यमाद्यं जगत्पतिम् ।
नारायणं परं देवं परमात्मानमीश्वरम् ॥
ज्ञानयोनिं हरिं विष्णुं मुमुक्षूणां परायणम् ।
परं पुराणं पुरुषं पुराणानां परं च यत् ॥
एवमादिगुणानां ते कर्मणां दिवि चेह च ।
अतीतभूतभव्यानां सङ्ख्याताऽत्र न विद्यते ॥
सर्वतो रक्षणीयाः स्म शक्रेणेव दिवौकसः ।
यैस्त्वं सर्वगुणोपेतः सुहृन्न उपपादितः ॥
इत्येवं धर्मराजेन हरिरुक्तो महायशाः ।
अनुरूपमिदं वाक्यं प्रत्युवाच जनार्दनः ॥
भवता तपसोग्रेण धर्मेण परमेण च ।
साधुत्वादार्जवाच्चैव हतः पापो जयद्रथः ॥
अयं च पुरुषव्याघ्र त्वदनुध्यानसंवृतः ।
हत्वा योधसहस्राणि न्यहञ्जिष्णुर्जयद्रथम् ॥
कृतित्वे बाहुवीर्ये च तथैवासम्भ्रमेऽपि च ।
शीघ्रतामोधबुद्धित्वे नास्ति पार्थसमः क्वचित् ॥
तदयं भरतश्रेष्ठ भ्राता तेऽद्य यदर्जुनः ।
सैन्यक्षयं रणे कृत्वा सिन्धुराजशिरोऽहरत् ॥
ततो धर्मसुतो जिष्णुं परिष्वज्य विशाम्पते ।
प्रमृज्य वदनं तस्य पर्याश्वासयत प्रभुः ॥
अतीव सुमहत्कर्म कृतवानसि फल्गुन ।
असह्यं चाविषह्यं च देवैरपि सवासवैः ॥
दिष्टा निस्तीर्णभारोऽसि हतारिश्चासि शत्रुहन् ।
दिष्ट्या सत्या प्रतिज्ञेयं कृता हत्वा जयद्रथम् ॥
एवमुक्त्वा गुडाकेशं धर्मराजो महायशाः ।
पस्पर्श पुण्यगन्धेन पृष्ठे हस्तेन पार्थिवाः ॥]
सञ्जय उवाच ।
एवमुक्तौ महात्मानावुभौ केशवपाण्डवौ ।
तावब्रूतां तदा कृष्णौ राजानं पृथिवीपतिम् ॥
तव कोपाग्निना दग्धः पापो राजञ्जयद्रथः ।
उत्तीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ॥
युधिष्ठिर उवाच ।
हन्यन्ते निहताश्चैव विनङ्क्ष्यन्ति च केशव ।
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ॥
त्वां हि चक्षुर्हणं वीर कोपयित्वा सुयोधनः ।
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ॥
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः ।
शरतल्पगतः शेते भीष्मः कुरुपितामहः ॥
दुर्लभो विजयस्तेषां सम्प्रामे रिपुघातिनाम् ।
याता मृत्युवशं ते वै येषां क्रुद्धोऽपि माधव ॥
राज्यं प्राणाः श्रियः पुत्राः सौख्यानि विविधानि च ।
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ॥
भगवानुवाच ।
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् ।
राजधर्मपरे नित्यं त्वयि क्रुद्धे परन्तप ॥
सञ्जय उवाच ।
ततो भीमो महाबाहुः सात्यकिश्च महारथः ।
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ ।
क्षितावास्तां महेष्वासौ पाञ्चाल्यपरिवारितौ ॥
तौ दृष्ट्वा मुदितो वीरौ प्राञ्जली चाग्रतः स्थितौ ।
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ॥
दिष्ट्या पश्यामि वा शूरौ विमुक्तौ सैन्यसागरात् ।
द्रोणग्राहदुराधर्षाद्धार्दिक्यमकरालयात् ॥
दिष्ट्या विनिर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः ।
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे ॥
दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः ।
दिष्ट्या विकर्णिभिः कर्णोरणे नीतः पराभवम् ॥
विमुखश्च कृतः शल्यो युवाभ्यां पुरुषर्षभौ ।
दिष्ट्या युवां कुशलिनौ सङ्ग्रामात्पुनरागतौ ।
पश्यामि रथिनां श्रेष्ठावुभौ युद्धविशारदौ ॥
मम वाक्यकरौ वीरौ मम गौरवयन्त्रितौ ।
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि वामहम् ॥
समरश्लाघिनौ वीरौ समरेष्वपराजितौ ।
मम वाक्यसमौ चैव दिष्ट्या पश्यामि वामहम् ॥
इत्युक्त्वा पाण्डवो राजन्युयुधानवृकोदरौ ।
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुपोच ह ॥
ततः प्रमुदितं सर्वं बलमासीद्विशाम्पते ।
पाण्डवानां रणे हृष्टं युद्धाय तु मनो दधे ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे
प़ञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥
5-150-8 गुप्तेन अर्जुनेनेति शेषः ॥ 8 ॥ 5-150-15
शक्रानुजेति कृष्णं प्रति सम्बोधनम् ॥ 5-150-25 चतुरश्चत्वारः ॥ 5-150-27
त्वमिति । हेईशेश रुद्राद्याराध्य । ईश्वरा राजानस्तेषामपीशानो धर्मः ।
तदेतत्क्षत्रस्य क्षत्रं यद्धर्म इति श्रुतेस्तस्यापि प्रभो । धर्मस्य
प्रभुरच्युत इति स्मृतेः ॥ 5-150-28 सखा वयस्यः । हितः प्रियकृत् । गोप्ता
दुःखनिवारकः ॥ 5-150-29 कुण्डलितः पाठः झ. पुस्तक एव दृश्यते ॥ 5-150-48
उत्तीर्णं लङ्घितम् ॥ 5-150-50 चक्षुर्हणं क्रोधदृष्टिमात्रेण हन्तारम् ॥ 5-150-150 पञ्चाशदधिकशततमोऽध्यायः ॥
श्रीः