अध्यायः 010

द्रोणमरणश्रवणेन मूर्छितस्य धृतराष्ट्रस्य पिरचारिकाभिर्जलसेचनादिना समुद्बोधनम् ॥ 1 ॥ धृतराष्ट्रेण सञ्जयम्प्रति युद्धकथनचोदना ॥ 2 ॥

वैशम्पायन उवाच ।
एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् ।
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ ॥
तं विसंज्ञं निपतिन्त सिषिचुः परिचारिकाः ।
जलेनात्यर्थशीतेन जीवन्त्यः पुण्यगन्धिना ॥
पतितं चैनमालोक्य समस्ता भरतस्त्रियः ।
परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः ॥
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् ।
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराननाः ॥
आसनं प्राप्य राजा तु मूर्च्छयाऽभिपरिप्लुतः ।
निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः ॥
स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः ।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् ॥
धृतराष्ट्र उवाच ।
यः स उद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः ।
अजातशत्रुमायान्तं कस्तं द्रोणादवारयत् ॥
प्रभिन्नमिव मातङ्गं यथा क्रुद्धं तरस्विनम् ।
प्रसन्नवदनं दृष्ट्वा प्रतिद्विरदगामिनम् ॥
वासितासङ्गमे यद्वदजय्यं प्रतियूथपैः ।
निजघान रणे वीरान्वीरः पुरुषसत्तमः ॥
यो ह्येको हि महावीर्यो निर्दहेद्धोरचक्षुषा ।
कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः ॥
चक्षुर्हणं जये सक्तमिष्वासधरमच्युतम् ।
दान्तं बहुमतं लोके के शूराः पर्यवारयन् ॥
के दुष्प्रधर्षं राजानमिष्वासधरमच्युतम् ।
समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः ॥
तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत् ।
यः करोति महत्कर्म शत्रूणां वै महाबलः ॥
महाकायो महोत्साहो नागायुतसमो बले ।
तं भीमसेनमायान्तं के शूराः पर्यवारयन् ॥
यदायाज्जलदप्रख्यो रथः परमवीर्यवान् ।
पर्जन्य इव बीभत्सुस्तुमुलामशनीं सृजन् ॥
विसृजञ्छरजालानि वर्षाणि मघवानिव ।
अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च ॥
चापविद्युत्प्रभो घोरो रथगुल्मवलाहकः ।
सनेमिघोषस्तनितः शरशब्दातिबन्धुरः ॥
रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः ।
मर्मातिगो बाणधरस्तुमुलः शोणितोदकैः ॥
सम्प्लावयन्दिशः सर्वा मानवैरास्तरन्महीम् ।
भीमनिःस्वनितो रौद्रो दुर्योधनपुरोगमान् ॥
युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः ।
गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा ॥
इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः ।
यदायात्कथमासीत्तु तदा पार्थं समीक्षताम् ॥
कच्चिद्गाण्डीवशब्देन न प्रणश्यति वै बलम् ।
यद्वः सभैरवं कुर्वन्नर्जुनो भृशमन्वयात् ॥
कच्चिन्नापानुदत्प्रामानिषुभिर्वो धनञ्जयः ।
वातो वेगादिवाविध्यन्मेघाञ्शरगणैर्नृपान् ॥
को हि गाण्डीवधन्वानं रणे सोढुं नरोऽर्हति ।
यमुषश्चुत्य सेनाग्रे जनः सर्वो विदीर्यते ॥
यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् ।
के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् ॥
के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् ।
अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम् ॥
न च वेगं सिताश्वस्य विसहिष्यन्ति मामकाः ।
गाण्डीवस्य च निर्घोषं प्रावृड््जलदनिःस्वनम् ॥
विष्वक्सेनो यस्य यन्ता यस्य योद्धा धनञ्चयः ।
अशक्यः स रथो जेतुं मन्ये देवासुरैरपि ॥
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः ।
मेधावी निपुणो धीमान्युधि सत्यपराक्रमः ॥
आरावं विपुलं कुर्वन्व्यथयन्सर्वसैनिकान् ।
यदायान्नकुलो द्रोणं के शूराः पर्यवारयन् ॥
आशीविष इव क्रुद्धः सहदेवो यदाऽभ्ययात् ।
कदनं करिष्यञ्शत्रूणां तेजसा दुर्जयो युधि ॥
आर्यव्रतममोघेषुं हीमन्तमपराजितम् ।
सहदेवं तमायान्तं के शूराः पर्यवारयन् ॥
यस्तु सौवीरराजस्य प्रमथ्य महतीं चमूम् ।
आदत्त महिषीं भोजां काम्यां सर्वाङ्गशोभनाम् ॥
सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् ।
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे ॥
बलिनं सत्यकर्माणमदीनमपराजितम् ।
वासुदेवसमं युद्धे वासुदेवादनन्तरम् ॥
धनञ्जयोपदेशेन श्रेष्ठमिष्वस्त्रकर्मणि ।
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् ॥
वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् ।
रामेण सममस्त्रेषु यशसा विक्रमेण च ॥
सत्यं धृतिर्मतिः शौर्यं ब्राह्मं चास्त्रमनुत्तमम् ।
सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे ॥
तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः ।
समासाद्य महेष्वासं के शूराः पर्यवारयन् ॥
पाञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम् ।
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे ॥
युक्तं धनञ्जयहिते ममानर्थार्थमुत्थितम् ।
यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् ॥
महारथं समाख्यातं द्रोणायोद्यतमाहवे ।
त्यजन्तं तुमुले प्राणान्के शूराः समवारयन् ॥
एकोपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः ।
धृष्टकेतुं समायान्तं द्रोणं कस्तं न्यवारयत् ॥
योऽवधीत्केतुमान्वीरो राजपुत्रं दुरासदम् ।
अपरान्तगिरिद्वारे द्रोणात्कस्तं न्यवारयत् ॥
स्त्रीम्पुसयोर्नरव्याघ्रो यः स वेद गुणागुणान् ।
शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि ॥
देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः ।
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् ॥
यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात् ।
यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च सर्वदा ॥
वासुदेवसमं वीर्ये धनञ्जयसमं बले ।
तेजसाऽऽदित्यसदृशं बृहस्पतिसमं मतौ ॥
अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् ।
द्रोणायाभिमुखं यान्तं के शूराः समवारयन् ॥
तरुणस्तरुणप्रज्ञः सौभद्रः परवीरहा ।
यदाभ्यधावद्वै द्रोणं तदाऽऽसीद्वो मनः कथं ॥
द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः ।
यद्रोणमाद्रवन्सङ्ख्ये के शूरास्तान्न्यवारयन् ॥
एते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः ।
अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् ॥
क्षत्रञ्जयः क्षत्रदेवः क्षत्रवर्मा च मानदः ।
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ॥
शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः ।
चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ॥
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि ।
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ॥
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः ।
इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः ॥
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः ।
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ॥
यं योधयन्तो राजानो नाजयन्वारणावते ।
षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं ॥
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् ।
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत् ॥
यः पुत्रं काशिराजस्य वाराणस्यां महारथम् ।
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात् ॥
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् ।
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ॥
निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः ।
द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन् ॥
उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम् ।
शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन् ॥
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ।
महता रथघोषेण मुख्यारिघ्नो महारथः ॥
दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान् ।
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ॥
विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत् । गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः ।
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ॥
न पूर्वे नापरे चक्रुरिदं केचन मानवाः ।
इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ॥
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु ।
जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम् ॥
अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत ।
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ॥
तस्य नप्तारमायान्तं शैब्यं कः समवारयत् ।
द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम् ॥
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः ।
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ॥
सद्यो वृकोदराज्जातो महाबलपराक्रमः ।
मायावी राक्षसो वीरो यस्मान्मम महद्भयम् ॥
पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम् ।
घटोत्कचं महात्मानं कस्तं द्रोणादवारयत् ॥
एते चान्ये च बहवो येषामजितं युधि ।
त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ॥
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः ॥ लोकानां गुरुरत्यर्थं लोकनाथः सनातनः ।
नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः ॥ यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ।
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि दशमोऽध्यायः ॥ 10 ॥

5-10-8 सः प्रसिद्धः । तमजातशत्रुम् आयान्तं दृष्ट्वा द्रोणात्कः अवारयदित्यन्वयः ॥ 5-10-15 यदा अयात् यदा च दुर्योधनपुरोगमान्गार्ध्रपत्रैरभ्यषिञ्चत्तदा वो मनः क्रीदृशमभूदिति षष्ठेनान्वयः ॥ 5-10-34 युयुधाने सात्यकौ ॥ 5-10-38 सात्वते सात्यकौ ॥ 5-10-68 स्थास्रुचारिषु स्थावरजङ्गमात्मकेषु । स्नमित्यस्य व्यवहितेन पश्याम इत्यनेन सम्बन्धः ॥ 5-10-10 दशमोऽध्यायः ॥ 10 ॥

श्रीः