अध्यायः 162

सङ्कुलयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः ।
द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् ॥
ततो दुर्योधनो राजा भारद्वाजेन संवृतः । अभ्ययात्पाण्डवान्सङ्ख्ये ततो युद्धमवर्तत ।
घोररूपं महाराज भीरूणां भयवर्धनम् ॥
अम्बष्ठान्मालवान्वङ्गाञ्छिबींस्त्रैगर्तकानपि ।
प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो वृकोदरः ॥
अभीषाहाञ्छूरसेनान्क्षत्रियान्युद्धदुर्मदान् ।
निकृत्त्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ॥
यौधेयानद्रिजान्राजन्मद्रकान्मालवानपि ।
प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः ॥
प्रगाढमञ्चोगतिभिर्नाराचैरभिताडिताः ।
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥
निकृत्तैर्हस्तिहस्तैश्च चेष्टमानैरितस्ततः ।
रराज वसुधाऽऽकीर्णा विसर्पद्भिरिवोरगैः ॥
क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ ।
द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये ॥
हत प्रहरताभीता विध्यत व्यवकृन्तत ।
इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति ॥
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे ।
व्यधमत्तान्महवायुर्मेघानिव दुरत्ययः ॥
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् ।
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥
ततः किरीटि भीमश्च सहसा सन्न्यवर्तताम् ।
महता रथवंशेन परिगृह्य बलं महत् ॥
बीभत्सुर्दक्षिणं वार्श्वमुत्तरं तु वृकोदरः ।
भारद्वाजं शरौघाभ्यां महद्भामभ्यवर्षताम् ॥
तौ तथा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः ।
अन्वगच्छन्महाराज मात्स्यैश्च सह सोमकैः ॥
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।
महत्या सेनया राजञ्जग्मुर्द्रोणरथं प्रति ॥
ततः सा भारती सेना हन्यमाना किरीटिना ।
तमसा निद्रया चैव पुनरेव व्यदीर्यत ॥
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च ।
नाशक्यन्त महाराज योधा वारयितुं तदा ॥
सा पाण्डुपुत्रस्य शरैर्दीर्यमाणा महाचमूः ।
तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ॥
उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः ।
प्राद्रवन्त महाराज भयाविष्टाः समन्ततः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥

श्रीः