अध्यायः 165

सङ्कुलयुद्धम् ॥ 3 ॥

सञ्जय उवाच ।
प्रकाशिते तदा लोके रजसा तमसावृते ।
समाजग्मुरथो वीराः परस्परवधैषिणः ॥
ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः ।
परस्परमुदैक्षन्त परस्परकृतागसः ॥
प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः ।
रत्नाचितैः स्वर्णदण्डैर्गन्धतैलावसिञ्चितैः ॥
देवगन्धर्वदीपाद्यैः प्रभाभिरधिकोज्ज्वलैः ।
विरराज तदा भूमिर्ग्रहैर्द्यौरिव भारत ॥
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत ।
दह्यमानेव लोकानामभावे च वसुन्धरा ॥
व्यदीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः ।
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः ॥
असज्जन्त ततो वीरा विरेष्वेव पृथक्पृथक् । नागा नागैः समाजग्मुस्तुरगा हयसादिभिः ।
रथा रथवरैरेव समजग्मुर्मुदा युताः ॥
तस्मिन्रात्रिमुखे घोरे तव पुत्रस्य शासनात् ।
चतुरङ्गस्य सैन्यस्य सम्पातश्च महारनभूत् ॥
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् ।
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ॥
धृतराष्ट्र उवाच ।
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् ।
अमृष्यमाणे दुर्धर्षे कथमासीन्मनो हि वः ॥
किमकुर्वत सैन्यानि प्रविष्टे परषीडने ।
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥
के चैनं समरे वीरं प्रत्युद्ययुररिन्दमाः ।
द्रोणं च के व्यरक्षन्त प्रविष्टे श्वेतवाहने ॥
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः । के पृष्ठतश्चाप्यभवन्वीरा वीरान्विनिघ्नतः ।
के पुरस्तादगच्छन्त निघ्नन्तः शास्त्रवान्रणे ॥
यत्प्राविशन्महेष्वासः पाञ्चालनापराजिताः ।
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ॥
यो ददाह शरैर्द्रोणः पाञ्चालानां रथव्रजान् ।
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥
अव्यग्रानेव हि परान्कथयस्यपराजितान् ।
हृष्टानुदीर्णान्सङ्ग्रामे न तथा सूत मामकान् ॥
हतांश्चैव विदीर्णांश्च विप्रकीर्णांश्च शंससि ।
रथिनो विरथांश्चैव कृतान्युद्वेषु मामकान् ॥
सञ्जय उवाच ।
द्रोणस्य मतमाज्ञाय योद्वुकामस्य तां निशाम् ।
दुर्योधनो महाराज वश्यान्भ्रातॄनुवाच ह ॥
कर्णं च वृषसेनं च मद्रराजं च कौरव ।
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ॥
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षन्तु पृष्ठतः ।
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ॥
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः ।
तांश्चैव पुरतः सर्वान्पुत्रस्ते समचोदयत् ॥
दुर्योधन उवाच ।
आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः ।
तं रक्षत सुसंयत्ता निघ्नन्तं शास्त्रवान्रणे ॥
द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः प्रतापवान् ।
निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ॥
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः ।
द्रोणं रक्षत पाञ्चालाद्धृष्टद्युम्नान्महारथात् ॥
पाण़्डवीयेषु सैन्येषु न तं पश्याम कञ्चन ।
यो योधयेद्रणे द्रोणं धृष्टद्युम्नादृते पुमान् ॥
तस्मात्सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् ।
सुगुप्तः पाण्डवान्हन्यात्सृञ्जयांश्च ससोमकान् ॥
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे ।
धृष्टद्युम्नं रमे द्रौणिर्हनिष्यति न संशयः ॥
तथाऽर्जुनं च राधेयो हनिष्यति महारथः । भीमसेनमहं चापि युद्धेजेष्यामि दीक्षितः ।
शेषांश्च पाण्डवान्योधाः प्रसभं हीनतेजसः ॥
सोयं मम जयो व्यक्तो दीर्घकालं भविष्यति ।
तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथम् ॥
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्याधनस्तव ।
व्यादिदेश तथा सैन्यं तस्मिंस्तमसि दारुणे ॥
ततः प्रववृते युद्धं रात्रौ भरतसत्तम ।
उभयोः सेनयोर्घोरं परस्परजिगीषया ॥
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः ।
नानाशस्त्रसमावायैरन्योन्यं समपीडयन् ॥
द्रौणिः पाञ्चालराजं च भारद्वाजश्च सृञ्जयान् ।
छादयांचक्रिरे सङ्ख्ये शरैः सन्नतपर्वभिः ॥
पाण्डुपाञ्चालसैन्यानां कौरवाणां च भारत ।
आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ॥
नैवास्माभिस्तथा पूर्वैर्दृष्टपूर्वं तथाविधम् ।
युद्धं यादृशमेवासीत्तां रात्रि सुभयावहम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥

श्रीः