अध्यायः 172

सङ्कुलयुद्धम् ॥ 1 ॥ धृष्टद्युम्नादीनां हर्षात्सिंहनादः ॥ 2 ॥

सञ्जय उवाच ।
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः ।
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति ॥
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः ।
सादिभिश्च गजैश्चैव परिवव्रुः समन्ततः ॥
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः ।
सिंहनादांस्ततश्चक्रुस्तर्जयन्ति स्म सात्यकिम् ॥
तेऽभ्यवर्षञ्छरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् ।
त्वरमाणा महावीरा माधवस्य वधैषिणः ॥
तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा ।
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् ॥
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः ।
निचकर्त शिरांस्युग्रैः शरैः सन्नतपर्वभिः ॥
हस्तिहस्तान्हयग्रीवा बाहूनपि च सायुधान् ।
क्षुरप्रैः शातयामास तावकानां स माधवः ॥
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत ।
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो ॥
एतेषां युयुधानेन युध्यतां युधि भारत ।
बभूव तुमुलः शब्दः प्रेतानां क्रन्दतामिव ॥
तेन शब्देन महता पूरिताऽभूद्वसुन्धरा ।
रात्रिः समभवच्चैव तीव्ररूपा भयावहा ॥
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् ।
श्रुत्वा च विपुलं नादं निशीथे रोमहर्षणे ॥
सुतस्तवाब्रवीद्राजन्सारथिंरथिनां वरः ।
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनःपुनः ॥
तेन सञ्चोद्यमानस्तु ततस्तांस्तुरगोत्तमान् ।
सूतः सञ्चोदयामास युयुधानरथं प्रति ॥
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः ।
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् ॥
ततः पूर्णायतोत्सृष्टैः शरैः शोणितभोजनैः ।
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ॥
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः ।
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः ॥
ततः समभवद्युद्धं तुमुलं भरतर्षभ ।
पाञ्चालानां च सर्वेषां भरतानां च दारुणम् ॥
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् ।
सायकानामशीत्या तु विव्याधोरसि भारत ॥
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् ।
सारथिं च रथात्तूर्णं पातयामास पत्रिणा ॥
हताश्वे तु रथेऽतिष्ठन्पुत्रस्तव विशाम्पते ।
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति ॥
शरान्पञ्छसतांस्तस्मै शैनेयः कृतहस्तवत् ।
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते ॥
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः ।
चिच्छेद तरसा युद्धे तव पुत्रस्य माधव ॥
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः ।
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् ।
द्रावयामास विशिखैर्निशामध्ये विशाम्पते ॥
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः । रथैरनेकसाहस्रैर्गजैश्चापि सहस्रशः ।
तथा हयसहस्रैश्च नानाशस्त्रैरवाकिरत् ॥
ते महास्त्राणि सर्वाणि विकिरन्तोऽर्जुनं प्रति ।
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ॥
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् ।
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ॥
ततस्तु समरे शूरः शकुनिः सौबलस्तदा ।
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ॥
पुनश्चैव शतेनास्य संरुरोध महारथम् ॥
तमर्जुनस्तु विंशत्या विव्याध युधि भारत ।
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत ॥
निवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः ।
जघान तावकान्योधान्वज्रपाणिरिवासुरान् ॥
भुजैश्छिन्नैर्महीपाल हस्तिहस्तोपमैर्मृधे ।
समाकीर्णा मही भाति पञ्चास्यैरिव पन्नगैः ॥
शिरोभिः सकिरीटैश्च सुनसैश्चारुकुण्डलैः ।
सन्दष्टौष्ठपुटैः क्रुद्धैस्तथैवोद्वृत्तलोचनैः ॥
निष्कचूडामणिधरैः क्षत्रियाणां पियंवदैः ।
पङ्कजैरिव विन्यस्तैः पर्वतैर्विबभौ मही ॥
कृत्वा तत्कर्म बीभत्सुरुग्रमुग्रपराक्रमः ।
विव्याध शकुनिं भूयः पञ्चभिर्नतपर्वभिः ॥
अताडयदुलूकं च त्रिभिरेव तथा शरैः ।
उलूकं पुनराजघ्ने त्रिभिरेव महायशाः ॥
स तु तेन समाविद्ध क्रोधाद्द्विगुणविक्रमः ।
शरैरनेकसाहस्रैः सोऽर्जुनं प्रत्यविध्यत ॥
तमुलूकस्तथा विद्धा वासुदेवमताडयत् ।
ननाद च महानादं पूरयन्निव मेदिनीम् ॥
अर्जुनः शकुनेश्चापं सायकैरच्छिनद्रणे ।
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ॥
ततो रथादवप्लुत्य सौबलो भरतर्षभ ।
उलूकस्य रथं तूर्णमारुरोह विशाम्पते ॥
तावेकरथमारूढौ पितापुत्रौ महारथौ ।
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवाम्बुभिः ॥
तौ तु विद्धा महाराज पाण्डवो निशितैः शरैः ।
विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ॥
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः ।
विच्छिन्नानि तथा राजन्बलान्यासन्विशाम्पते ॥
तद्बलं भरतश्चेष्ठ वध्यमानं तदा निशि ।
प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् ॥
उत्सृज्य वाहान्समरे चोदयन्तस्तथाऽपरे ।
सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ॥
विजित्य समरे योधांस्तावकान्भरतर्षभ ।
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जयौ ॥
धृष्टद्युम्नो महाराज द्रोणं विद्धा त्रिभिः शरैः ।
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ॥
तन्निधाय धनुर्भूमौ द्रोणः क्षत्रियमर्दनः ।
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ॥
धृष्टद्युम्नं ततो द्रोणो विद्धा सप्तभिराशुगैः ।
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे ॥
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः ।
व्यधमत्कौरवीं सेनामासुरीं मघवानिव ॥
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष ।
प्रावर्तत नदी घोरां शोणितौघतरङ्गिणी ॥
उभयोः सेनयोर्मध्ये नराधद्विपवाहिनी ।
तथा वैतरणी राजन्यतराजुपुरं प्रति ॥
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् ।
अभ्यराजत तेजस्वी शक्रो देवगणेष्विव ॥
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ ।
यमौ च युयुधानश्च पाण्डक्य वृकोदरः ॥
जित्वा रथसहस्राणि तावकानां महारथाः ।
सिंहनादरवांश्चक्रुः पाण़्डवा जितकाशिनः ॥
पश्यतस्तव पुत्रस्य कर्णस्य च रणोत्कटाः ।
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशाम्पते ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥

श्रीः