अध्यायः 176

कर्णघटोत्कचयोर्युद्धम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
यत्तद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः ।
निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ॥
कीदृशं चाभवद्रूपं तस्य घोरस्य रक्षसः ।
येन वैकर्तनः कर्णः सङ्ग्रामे तेन निर्जितः ॥
रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च ।
किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा ॥
कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम् ।
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय ॥
सञ्जय उवाच ।
लोहितोक्षो महाकायस्ताम्रास्यो निम्नितोदरः ।
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ॥
आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् ।
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ॥
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः ।
महाकायो महाबाहुर्महाशीर्षो महाबलः ॥
विकृतः परुषस्पर्शो विकचोद्वृद्धपिण्डकः ।
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ॥
तथैव हस्ताभरणी महामायोऽङ्गदी तथा ।
उरसाऽधारयन्निष्कमग्निमालां यथाऽचलः ॥
तस्य हेममयं चित्रं बहुरूपाङ्गशभितम् ।
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ॥
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् । धारयन्विपुलं कांस्यं कवचं च महाप्रभम् ।
ताराजालनिभं राजन्पूर्णचन्द्रसमप्रभम् ॥
कण्ठसूत्रं महच्चापि तपनीयमधारयत् ।
स तेन विभ्राजत वै सविद्युदिव तोयदः ॥
किङ्किणीशतनिर्घोपं रक्तध्वजपताकिनम् ।
ऋक्षचर्मावनद्वाङ्गं नल्वमात्रं महारथम् ॥
सर्वायुधवरोपेतमास्थितं ध्वजमालिनम् ।
अष्टचक्रसमायुक्तं मेघगम्भीरनिःस्वनम् ॥
मत्तमातङ्गसङ्काशा लोहिताक्षा विभीपणाः ।
कालवर्णासमायुक्ता बलवन्तः शतं हयाः ॥
वहन्तो राक्षसं घोरं वालवन्तो जितश्रमाः ।
विपुलाभिः सटाभिस्ते हेषमाणा मुहुर्मुहुः ॥
मुखैर्नानाविधाकारैर्वगवन्तो हयोत्तमाः ।
रथेऽस्य युक्ता गकर्जन्तोऽवहंस्ते राक्षसाधिपम् ॥
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः । `घोररूपो महाकायः करालो विकृताननः' ।
रश्मिभिः सूर्यरश्म्याह्वैः सञ्जग्राह हयान्रणे ॥
स तेन सहितस्तस्थावरुणेन यथा रविः ।
संसक्त इव चाभ्रेण यथाऽद्रिर्महता महान् ॥
दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः ।
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ॥
वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन् ।
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ॥
रथाक्षमात्रैरिपुभिः सर्वाः प्रच्छादयन्दिशः ।
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ॥
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः ।
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ॥
तेन वित्रास्यमानानि तव सैन्यानि भारत ।
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः ॥
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् ।
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् ॥
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् ।
मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः ॥
स सन्निपातस्तुमुलस्तयोरासीद्विशाम्पते ।
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ॥
तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने ।
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ॥
ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः ।
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ॥
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ॥
सञ्छिन्दन्तौ च गात्राणि सन्दधानौ च सायकान् ।
दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः ॥
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ ।
विभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ ॥
तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम् ।
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ॥
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् ।
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ॥
तस्य सन्दधतस्तीक्ष्णाञ्छरांश्चासक्तमस्यतः ।
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाऽभवन् ॥
घटोत्कचं यदा कर्णो विशेषयति नो नृप ।
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः ॥
कर्णेन सन्धितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः ।
प्रादुश्चक्रे महामायां राक्षसीं पाण्डुनन्दनः ॥
शूलमुद्गरधारिण्या शैलपादपहस्तया ।
रक्षसां घोररूपाणां महत्या सेनया वृतः ॥
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः ।
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ॥
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः ।
प्रसुस्रुवुर्गजा मूत्रं विव्यधुश्च नरा भृशम् ॥
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः ।
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ॥
आयसानि च चक्राणि भुशुण़्ड्यः शक्तितोमराः ।
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टसास्तथा ॥
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप ।
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ॥
तत्रैकोऽस्तबलश्लाघी कर्णो मानी न विव्यथे ।
व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम् ॥
मायायां तु प्रहीणायाममर्षाच्च घटोत्कचः ।
विससर्ज शरान्धोरान्सूत पुत्रं त आविशन् ॥
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे ।
विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः ॥
सूतपुत्रस्तु सङ्क्रद्धो लघुहस्तः प्रतापवान् ।
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ॥
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु ।
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ॥
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् ।
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ॥
प्रविद्वमतिवेगेन विक्षिप्तं कर्णसायकैः ।
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ॥
घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम् ।
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥
सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ॥
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा ।
क्षिप्ता भ्राम्य शरैः साऽपि कर्णेनाभ्याहताऽपतत् ॥
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् ।
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ॥
ततो मायाविनं कर्णो भीमसेनसुतं दिवि ।
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥
तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम् ।
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ॥
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ।
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ॥
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् ।
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ॥
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् ।
मायायुद्धेन मायावी सूतपुत्रमयोधयत् ॥
सोऽयोधयत्तदा कर्णं मायया लाघवेन च ।
अलक्ष्यमाणानि दिवि शरजालानि चापतन् ॥
भैमसेनिर्महामायो मायया कुरुसत्तम ।
विचचार महाकायो मोहयन्निव भारत ॥
स तु कृत्वा विरूपाणि वदनान्यशुभानि च ।
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ॥
पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे ।
गतसत्वो निरुत्साहः पतितः खाद्व्यदृश्यत ॥
तं हतं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः ।
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत ॥
पुनश्चापि महाकायः शतशीर्षः शतोदरः ।
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः ॥
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः ।
सागरोर्मिरिवोद्वूतस्तिर्यगूर्ध्वमवर्तत ॥
वसुधां दारयित्वा च पुनरप्यु न्यमज्जत ।
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ॥
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते ।
क्षितिं खं च दिशश्चैव माययाऽभ्येत्य दंशितः ॥
गत्वा कर्णरथाभ्याशं व्यचरत्कुण्डलाननः ।
प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशाम्पते ॥
तिष्ठेदानीं क्व मे जीवन्सूतपुत्र गमिष्यसि ।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रमाजिरे ॥
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् । उत्पपातान्तरिक्षं च जहास च सुविस्तरम् ।
कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी ॥
रथाक्षमात्रेरिषुभिरभ्यवर्षद्धटोत्कचः ।
शरवृष्टिं च तां कर्णो दूरात्प्राप्तामशातयत् ॥
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ ।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः ।
शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् ।
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ॥
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदैरयत् ।
ततः सोऽस्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ॥
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ॥
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः ।
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषः ॥
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः ।
जघानास्त्रं महाराज घटोत्कचसमीरितम् ॥
ततः प्रहस्य समरे भैमसेनिर्महाबलः ।
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ॥
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् ।
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥
सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः ।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा ।
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः ॥
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् ।
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् ॥
घटोत्कचस्ततः कर्णं विद्धा पञ्चभिराशुगैः ।
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् ॥
भूयश्चाञ्जलिकेनाथ स मार्गणगणं महत् ।
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥
अथान्यद्धनुरादाय दृढं भारसहं महत् ।
विचकर्ष बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् ॥
ततः कर्णो महाराज प्रेषयामास सायकान् ।
सुवर्णपुङ्खाञ्छत्रुघ्नान्खेचरान्राक्षसान्प्रति ॥
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ॥
विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः ।
ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः ।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष ।
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ॥
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् ।
भीमवीर्यबलोपेतात्क्रुद्ध्द्वैवस्वतादिव ॥
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत ।
महोल्काभ्यां यथा राजन्सार्जिषः स्नेहबिन्दवः ॥
तलं तलेन संहत्य सन्दश्य दशनच्छदम् ।
रथमास्थाय च पुनर्मायया निर्मितं तदा ॥
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः ।
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मां वह ॥
स ययौ घोररूपेण रथेन रथिनां वरः ।द्वैरथं सूतपुत्रेण पुनरेव विशाम्पते ॥
स चिक्षेप पुनः क्रुद्धः सुतपुत्राय राक्षसः ।
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् ॥
द्वियोजनसमुत्सेधां योजनायामविस्तराम् ।
आयसीं निचितां शूलैः कदम्बमिव केशरैः ॥
तामवप्लुत्य जग्राह कर्णो न्यस्य महद्धनुः ।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः ॥
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा ।
यदप्लुत्य जग्राह देवसृष्टां महाशनिम् ॥
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः ।
ततो मुमोच नाराचान्सूतपुत्रः परन्तपः ॥
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद ।
यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने ॥
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः ।
गन्धर्वनगराकारः पुनरन्तरधीयत ॥
एवं स वै महाकायो मायया लाघवेन च ।
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ॥
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा ।
असम्भ्रान्तस्तदा कर्णस्तद्रक्षः प्रत्ययुध्यत ॥
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः ।
चकार बहुधाऽऽत्मानं भीषयाणो महारथान् ॥
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः ।
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ॥
स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः ।
नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत ॥
राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च ।
शालावृकाश्च बहवो वृकाश्च विकृताननाः ॥
ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन् ।
अथैनं वाग्भिरुग्राभिस्त्रासयाञ्चिक्रिरे तदा ॥
उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः ।
तेषामनेकैरेकैकं कर्णो विव्याध सायकैः ॥
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् ।
आजघान हयानस्य शरैः सन्नतपर्वभिः ॥
ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः ।
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ॥
स भग्नमायो हैडिम्बिः कर्णं वैकर्तनं तदा ।
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे षट््सप्तत्यधिकशततमोऽध्यायः ॥ 176 ॥

5-176-5 निम्नितोदरः निम्नितं पृष्ठवंशसंलग्नमशनहीनस्येवोदरं यस्येत्यर्थः ॥ 5-176-6 करालवान् उन्नतदन्तचतुष्कः ॥ 5-176-8 विकचश्चासावुद्वृपिण्डो दृढाङ्गः को मूर्धा यस्य स विकचोद्वृद्धपिण्डकः । शिथिलोपचयः स्फिक्प्रदेशे एव शिथिलः श्लथ उपचयो वृद्धिर्यस्य ॥ 5-176-13 नल्वो हस्तचतुःशतम् ॥ 5-176-29 विष्कुर्हस्तस्तन्मितः परीणाहो विस्तारो यस्य । अरत्निर्निरष्टमांशः करः ॥ 5-176-30 रथः स्यन्दनदेहयोरिति कोशाद्देहानुकूलशक्तिमद्भिरिति वा ॥ 5-176-35 तस्य घटोत्कचस्या । आसक्तमन्योन्यसंसक्तं यथास्यात्तथाशरानस्यतः ॥ 5-176-94 उल्काभ्यां सजर्रसमिश्रोल्मुकाभ्याम् । ततो हि दीप्तस्य सर्जरसस्य कणाः सस्नेहत्वात्सार्चिष एव पतन्तीति प्रसिद्धम् ॥ 5-176-176 षट््सप्तत्यधिकशततमोऽध्यायः ॥

श्रीः