अध्यायः 181

घटोत्कचनिधनात्सर्वेषु शोचत्सु हर्षादात्मानं परिष्वजमानं कृष्णं प्रत्यर्जुनेन हर्षङेतुप्रश्नः ॥ 1 ॥ कृष्णेन तदभिधानपूर्वकं कर्णप्रभावप्रशंसनम् ॥ 2 ॥

`धृतराष्ट्र उवाच ।
तस्मिन्हते महामाये महातेजसि राक्षसे ।
अमर्षिताः पाण्डवेयाः किमकुर्वन्महारणे ॥
मर्दिताश्च भृशं युद्धे किमकुर्वन्त सञ्जय ॥
ये च तेऽभ्यद्रवन्द्रोणं व्यूढानीकं प्रहारिणः ।
सृञ्जयाः सह पाञ्चालैस्तेऽरुर्वन्किं महारणे ॥
सौमदत्तिवधाद्द्रोणमायत्तं सैन्धवस्य च ।
अमर्षाज्जीवितं त्यक्त्वा गाहमानं वरूथिनीम् ॥
जृम्भमाणमिव व्याघ्रं व्यात्ताननमिवान्तकम् ।
कथं प्रत्युद्ययुर्द्रोणमजय्यं कुरुसृञ्जयाः ॥
आचार्यं ये च रक्षन्ति दुर्योधनपुरोगमाः ।
द्रौणिकर्णकृपास्तात ते ह्यकुर्वन्किमाहवे ॥
भारद्वाजं जिघांसन्तौ सव्यसाचिवृकोदरौ ।
आर्च्छतां मामकान्युद्धे कथं सञ्जय शंस मे ॥
सिन्धुराजवधेनेमे घटोत्कचवधेन ते ।
अमर्षिताश्च सङ्क्रुद्धा रणं चक्रुः कथं युधि' ॥
सञ्जय उवाच ।
हैडिम्बिं निहतं दृष्ट्वा विशीर्णमिव पर्वतम् ।
बभूवुः पाण्डवाः सर्वे शोकबाष्पाकुलेक्षणाः ॥
वासुदेवस्तु हर्षेण महताऽभिपरिप्लुतः ।
ननाद सिंहवन्नादं व्यथयन्निव भारत ॥
हतं घटोत्कचं ज्ञात्वा वासुदेवः प्रतापवान् ।
विनद्य च महानादं पर्यष्वजत फल्गुनम् ॥
स विनद्य महानादमभीशून्सन्नियम्य च ।
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥
ततः परिष्वज्य पुनः पार्थमास्फोट्य चासकृत् ।
रथोपस्थगतो धीमान्प्राणदत्पुनरच्युतः ॥
प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलः ।
अर्जुनोऽथाब्रवीद्राजन्नातिहृष्टमना इव ॥
अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन ।
शोकस्थाने तु सम्प्राप्ते हैडिम्बस्य वधेन तु ॥
विमुखानीह सैन्यानि हतं दृष्ट्वा घटोत्कचम् ।
वयं च भृशमुद्विग्ना हेडिम्बेस्तु निपातनात् ॥
नैतत्कारणमल्पं हि भविष्यति जनार्दन ।
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥
यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिन्दम ।
धैर्यस्य विकृतिं ब्रूहि त्वमद्य मधुसूदन ॥
समुद्रस्येव संशोषं मेरोरिव विसर्पणम् ।
तथैतदद्य मन्येऽहं तव कर्म जनार्दन ॥
वासुदेव उवाच ।
अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनञ्जय ।
अतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥
शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते ।
कर्णं निहतमेवाजौ विद्धि सद्यो धनञ्जय ॥
शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह ।
य एनमभितस्तिष्ठेत्कार्तिकेयमिवाहवे ॥
दिष्ट्याऽपनीतकवचो दिष्ट्याऽपहृतकुण्डलः ।
दिष्ट्या सा व्यंसिता शक्तिरमोघाऽस्य घटोत्कचे ॥
यदि हि स्यात्सकवचस्तथैव स्यात्सकुण्डलः ।
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्रणे ॥
वासवो वा कुबेरो वा वरुणो वा जलेश्वरः ।
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥
गाण्डीवमुद्यम्य भवांश्चक्रं चाहं सुदर्शनम् ।
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥
त्वद्धितार्थं तु शक्रेण मायापहृतकुण्डलः ।
विहीनकवचश्चायं कृतः परपुरञ्जयः ॥
उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते ।
प्रादाच्छक्राय वै कर्णस्तस्माद्वैकर्तनः स्मृतः ॥
आशिविष इव क्रुद्वः स्तम्भितो मन्त्रतेजसा ।
तथाऽद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥
यदाप्रभृति कर्णाय शक्तिर्दत्ता महात्मना ।
वासवेन महाबाहो क्षिप्ता याऽसौ घटत्कचे ॥
कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च ।
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥
एवं गतोऽपि शक्योऽयं हतुं नान्येन केनचित् ।
ऋते त्वां पुरुषव्याघ्र शपे सत्येन चानघ ॥
ब्रह्मण्यः सत्यवादी च सपस्वी नियतव्रतः ।
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥
युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः । केसरीव वने नर्दन्मत्तमातङ्गयूथपान् ।
विमर्दन्रथशार्दूलान्राजते रणमूर्धनिxxx ॥
मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम् ।
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्सभिः ॥
शरजालसहस्रांशुः शरदीव दिxxxx ॥
तपान्ते जलदो यद्वच्छरधाराः क्षरन्मुहुः ।
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ॥
त्रिदशैरपि चास्यद्भिः शरवर्षं समन्ततः ।
अशक्यस्तदयं जेतुं स्रवद्भिर्मांसशोणितम् ॥
कवचेन विहीनश्च कुण्डलाभ्यां च पाण्डव ।
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥
एको हि योगोऽस्य भवेद्वधाय च्छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् ।
कृच्छ्रं प्राप्तं रथचक्रे विमग्ने हन्याः पूर्वं त्वं तु संज्ञां विचार्य ॥
न ह्युद्यतास्त्रं युधि हन्यादजय्य-- मप्येकवीरो बलभित्सवज्रः ॥
जरासन्धश्चेदिराजो महात्मा महाबाहुश्चैकलव्यो निषादः ।
एकैकशो निहताः सर्व एते योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥
अथापरे निहता राक्षसेन्द्रा हिडिम्बकिर्मीरबकप्रधानाः ।
अलायुधः परचक्रावमर्दी घटोत्कचश्चोग्रकर्मा तरस्वी ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

5-181-18 धैर्यस्य वैकृतं इति झ. पाठे अस्मत्पक्षक्षयेण तव हर्षोऽस्मद्धैर्यविनाशक इत्यर्थखः ॥ 5-181-31 कुण्डलाभ्यां निमाय विनिमयं कृत्वा ॥ 5-181-33 वृषा धर्मप्रधानः ॥ 5-181-37 पर्जन्यइव वृष्टिमान् । नेता नेतृभिरस्यद्भिः शरवर्षाणि वर्षताम् । सोऽद्य मानुषतामित्यादि क.ट.ड.पाठः ॥ 5-181-181 एकाशीत्यधिकशततमोऽध्यायः ॥

श्रीः