अध्यायः 182

श्रीकृष्णेनार्जुनम्प्रति जरासन्धादिपराक्रमकथनपूर्वकं तेषां दुर्जयतया पूर्वमेव स्वेनोपायैर्हननकथनम् ॥ 1 ॥

अर्जुन उवाच ।
कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन ।
जरासन्धप्रभृतयो घातिताः पृथिवीश्वराः ॥
वासुदेव उवाच ।
जरासन्धश्चेदिराजो नैषादिश्च महाबलः ।
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः ॥
दुर्योधनस्तानवश्यं वृणुयाद्रथसत्तमान् ।
तेऽस्मासु नित्यविद्विष्टाः संश्रयेयुश्च कौरवान् ॥
ते हि वीरा महेष्वासाः कृतास्त्रा दृढयोधिनः ।
धार्तराष्ट्रचमूं कृत्स्नां रक्षेयुरमरा इव ॥
सूतपुत्रो जरासन्धश्चेदिराजो निषादजः ।
सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम् ॥
योगैरभिहता यैस्ते तन्मे शृणु धनञ्जय ।
अजय्या हि विना योगैर्मृधे ते दैवतैरपि ॥
एकैको हि पृथक् तेषां समस्तां रिपुवाहिनीम् ।
योधयेत्समरे पार्थ लोकपालाभिरक्षिताम् ॥
जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः ।
अस्मद्वधार्थं चिक्षेप गदां वै सर्वघातिनीम् ॥
सीमन्तमिव कुर्वाणा नभसः पावकप्रभा ।
अदृश्यतापतन्ती सा शक्रुमुक्ता यथाऽशनिः ॥
तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः ।
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत् ॥
अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि ।
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान् ॥
तत्र सा राक्षसी घोरा जरानाम्नी सुविक्रमा ।
सन्दधे सा हि सञ्जातं जरासन्धमरिन्दमम् ॥
द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक् ।
जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत् ॥
सा तु भूमिं गता पार्थ हता ससुतबान्दवा ।
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी ॥
विनाभूतः स गदया जरासन्धो महामृधे ।
निहतो भीमसेनेन पश्यतस्ते धनञ्जय ॥
यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान् ।
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम ॥
त्वद्धितार्थं च नैषादिरङ्गुष्ठेन वियोजितः ।
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः ॥
स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः ।
अतिमानी वचनरो बभौ राम इवापरः ॥
एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः ।
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित् ॥
किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम् ।
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम् ॥
त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि ॥
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव ।
स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वसुरासुरैः ॥
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम् ।
त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया ॥
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः ।
रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः ॥
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः ।
हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः ॥
यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे । मयां वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः ।
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया ॥
एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः । धर्मस्य लोप्ता पापात्मा तस्मादेव निपातितः ।
व्यंसिता चाप्यूपायेन शक्रदत्ता मयाऽनघ ॥
येहि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव ।
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया ॥
ब्रह्म सत्यं दमः शौचं धर्मो हीः श्रीर्धृतिः क्षमा ।
यत्र तत्र रमे नित्यमहं सत्येन ते शपे ॥
न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति ।
उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि ॥
सुयोधनं चापि रणे हनिष्यति वृकोदरः ।
तस्यापि च वधोपायं वक्ष्यामि तव पाण्डव ॥
वर्धते तुमुलस्त्वेष शब्दः पचरमूं प्रति ।
विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश ॥
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव ।
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे द्व्यशीत्यधिकथततमोऽध्यायः ॥ 182 ॥

5-182-1 योगैरुपायैः ॥ 5-182- रौक्मिणेयप्रधर्षितः इति क.ङ.पाठः ॥ 5-182- व्यंसिता व्यर्थीकृता शक्तिरिति शेषः ॥ 5-182-द्व्यशीत्यधिकशततमोऽध्यायः ॥ 182 ॥

श्रीः