अध्यायः 013
अर्जुनेन द्रोणप्रतिज्ञाभीतस्य युधिष्ठिरस्य समाश्वासनम् ॥ 1 ॥ युद्धारम्भो द्रोणपराक्रमश्च ॥ 2 ॥
सञ्जय उवाच ।
सान्तरे तु प्रतिज्ञाने राज्ञो द्रोणेन निग्रहे ।
ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् ।
सिंहनादरवांश्चक्रुर्बाहुशब्दांश्च कृत्स्नशः ॥
तच्च सर्वं यथान्यायं धर्मराजेन भारत ।
आप्तैश्चारैः परिज्ञातं भारद्वाजचिकीर्षितम् ॥
ततः सर्वान्समानाय्य भ्रातृनन्यांश्च सर्वशः ।
अव्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः ॥
श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् ।
यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् ॥
सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रघातिना ।
तच्चान्तरममोघेषौ त्वयि तेन समाहितम् ॥
तत्त्वमद्य महाबाहो युध्यस्व मदनन्तरम् ।
यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् ॥
अर्जुन उवाच ।
यथा मे न वधः कार्य आचार्यस्य कथञ्चन ।
तथा तव परित्यागो न मे राजंश्चिकीर्षितः ॥
अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि ।
प्रतियाताऽहमाचार्यं त्वां न जह्यां कथञ्चन ॥
त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति ।
न स तं जीवलोकेऽस्मिन्कामं प्राप्ता कथञ्चन ॥
प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकली भवेत् ।
न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् ॥
यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् ।
विष्णुर्वा सहितो देवैर्न त्वां प्राप्स्यत्यसौ मृधे ॥
मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि ।
द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि ॥
अन्यच्च ब्रूयां राजेन्द्र प्रतिज्ञां मम निश्चलाम् ॥
न स्मराम्यनृतं तावन्न स्मरामि पराजयम् ।
न स्मरामि प्रतिश्रुत्य विस्मृत्य मनस्वऽकृतम् ॥
सञ्जय उवाच ।
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह ।
प्रावाद्यन्त महाराज पाण्डवानां निवेशने ॥
सिंहनादश्च संजज्ञे पाण्डवानां महात्मनाम् ॥
धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः ॥
श्रुत्वा शङ्खस्य निर्घोषं पाण्डवस्य महौजसः ।
त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे ॥
ततो व्यूढान्यनीकानि तव तेषां च भारत ।
शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे ॥
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ।
पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि ॥
यतमानाः प्रयतेन द्रोणानीकविशातने ।
न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम् ॥
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः ।
न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटीना ॥
आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् ।
सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते ॥
ततो रुक्मरथो राजन्नर्केणेव विराजता ।
वरूथिना विनिष्पत्य व्यचरत्पृतनामुखे ॥
तमुद्यन्तं रथेनैकमाशुकारिणमाहवे ।
अनेकमिव सन्त्रसान्मेनिरे पाण्डुसृञ्जयाः ॥
तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् ।
त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् ॥
मध्यन्दिनमनुप्राप्तो गभस्तिशतसंवृतः ।
यथा दृश्येत घर्मोशुस्तथा द्रोणोऽप्यदृश्यत ॥
न चैनं पाण्डवेयानां कश्चिच्छक्नोति भारत ।
वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः ॥
मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् ।
धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः ॥
स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः ।
पार्षतो यत्र तत्रैनामभिनत्पाण्डुवाहिनीम् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि एकादशदिवसयुद्धे त्रयोदशोऽध्यायः ॥ 13 ॥
5-13-22 सम्प्रसुप्ते कृतपत्रसङ्कोचे ॥ 5-13-23 वरूथिना रथेन ॥ 5-13-13 त्रयोदशोऽध्यायः ॥
श्रीः