अध्यायः 188

पञ्चदशदिवसयुद्धारम्भः ॥ 1 ॥ सङ्कुलयुद्धम् । नकुलेन दुर्योधनपराजयः ॥ 2 ॥

सञ्जय उवाच ।
ते तथैव महाराज दंशिता रणमूर्धनि ।
सन्ध्यागतं सहस्रांशुमादित्यमुपतस्थिरे ॥
उदिते तु सहस्रांशौ तप्तकाञ्चनसप्रभे ।
प्रकाशितेषु लोकेषु पुनर्युद्धमवर्तत ॥
द्वन्द्वानि तत्र यान्यासन्संसक्तानि पुरोदयात् ।
तान्येवाभ्युदिते सूर्ये समसज्जन्त भारत ॥
रथैर्हया हयैर्नागाः पादातैश्चापि कुञ्जराः ।
हयैर्हयाः समाजग्मुः पादाताश्च पदातिभिः ॥
रथा रथैरिभैर्नागास्तथैव भरतर्षभ ।
संसक्ताश्च वियुक्ताश्च योधाः सन्न्यपतन्रणे ॥
ते रात्रौ कृतकर्माणः श्रान्ताः सूर्यस्य तेजसा ।
क्षुत्पिपासापरीताङ्गा विसंज्ञा बहवोऽभवन् ॥
शङ्खबेरीमृदङ्गानां कुञ्जराणां च गर्जताम् ।
विष्फारितविकृष्टानां कार्मुकाणां च कूजताम् ॥
शब्दः समभवद्राजन्दिविस्पृग्भरतर्षभ ।
द्रवतां च पदातीनां शस्त्राणां पततामपि ॥
हयानां हेषतां चापि रथानां च निवर्तताम् ।
क्रोशतां गर्जतां चैव तदासीत्तुमुलं महत् ॥
विवृद्धस्तुमुलः शब्दो द्यामगच्छन्महांस्तदा ।
नानायुधनिकृत्तानां चेष्टतामातुरः स्वनः ॥
भूमावश्रूयत महांस्तदाऽऽसीत्कृपणं महत् ।
पततां पात्यमानानां पत्त्यश्वरथदन्तिनाम् ॥
तेषु सर्वेष्वनीकेषु व्यतिषक्तेष्वनेकशः । स्वे स्वाञ्जघ्नुः परे स्वांश्च स्वान्परेषां परे परान् ।
वीरबाहुविसृष्टाश्च योधेषु च गजेषु च ।
राशयः प्रत्यदृश्यन्त वाससां नेजनेष्विव ॥
उद्यतप्रतिपिष्टानां खङ्गानां वीरबाहुभिः ।
स एव शब्दस्तद्रूपो वाससां निज्यतामिव ॥
अर्धासिभिस्तथा खङ्गैस्तोमरैः सपरश्वथैः ।
निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम् ॥
गजाश्वकायप्रभवां नरदेहप्रवाहिनीम् ।
शस्त्रमत्स्यसुसम्पूर्णां मांसशोणितकर्दमाम् ॥
आर्तनादस्वनवतीं पताकाशस्त्रफेनिलाम् ।
नदीं प्रावर्तयन्वीराः परलोकौघगामिनीम् ॥
शरशक्त्यर्दिता क्लान्ता रात्रिमूढात्पचेतसः ।
विष्टभ्य सर्वगात्राणि व्यतिष्ठन्गजवाजिनः ॥
संशुष्कवदना वीराः शिरोभिश्चारुकुण्डलैः ।
युद्धोपकरणैश्चान्यैस्तत्रतत्र चकाशिरे ॥
क्रव्यादसङ्घैराकीर्णं मृतैरर्धमृतैरपि ।
नासीद्रथपथस्तत्र सर्वमायोधनं प्रति ॥
मञ्जत्सु चक्रेषु रथान्सत्वमास्थाय वाजिनः । कथञ्चिदवहन्श्रान्ता वेपमानाः शरार्दिताः ।
कुलसत्वबलोपेता वाजिनो वारणोपमाः ॥
विह्वलं तूर्णमुद्धान्तं सभयं भारतातुरम् ।
बलमासीत्तदा सर्वमृते द्रोणार्जुनावुभौ ॥
तावेवास्तां निलयनं तावार्तायनमेव च ।
तावेवान्ये समासाद्य जग्मुर्वैवस्वतक्षयम् ॥
आविग्नमभवत्सर्वं कौरवाणां महद्बलम् ।
पाञ्चालानां च संसक्तं न प्राज्ञायत किञ्चन ॥
अन्तकाक्रीडसदृशं भीरूणां भयवर्धनम् ।
पृथिव्यां राजवंश्यानामुत्थिते महति क्षये ॥
न तत्र कर्णं द्रोणं वा नार्जुनं न युधिष्ठिरम् ।
न भीमसेनं न यमौ न पाञ्चाल्यं न सात्यकिम् ॥
न च दुःशासनं द्रौणिं न दुर्योधनसौबलौ ।
न कृपं मद्रराजं च कृतवर्माणमेव च ॥
न चान्यान्नैव चात्मानं न क्षितिं न दिशस्तथा ।
पश्याम राजन्संसक्तान्सैन्येन रजसा धृतान् ॥
सम्भ्रान्ते तुमुले घोरे रजोमेघे समुत्थिते ।
त्रियामामिव संप्राप्ताममन्यन्त निशाचराः ॥
न ज्ञायन्ते कौरवेया न पाञ्चाला न पाण्डवाः ।
न दिशो द्यौर्न चोर्वी च न समं विषमं तथा ॥
हस्तसंस्पर्शमापन्नान्परानप्यथवा स्वकान् ।
न्यपातयंस्तदा युद्धे नराः स्म विजयैषिणः ॥
उद्धूतत्वात्तु रजसः प्रसेकाच्छोणितस्य च ।
प्राशाम्यत रजो भौमं शीघ्रत्वादनिलस्य च ॥
तत्र नागा हया योधा रथिनोऽथ पदातयः ।
पारिजातवनानीव व्यरोचन्रुधिरोक्षिताः ॥
ततो दुर्योधनः कर्णो द्रोणो दुःशासनस्तथा ।
पाण्डवैः समसज्जन्त चतुर्भिश्चतुरो रथाः ॥
दुर्योधनः सह भ्रात्रा यमाभ्यां समसज्जत ।
वृकोदरेण राधेयो भारद्वाजेन चार्जुनः ॥
तद्धोरं महदाश्चर्यं युद्धं दैवासुरोपमम् ।
रथर्षभाणामुग्राणां सन्निपातममानुषम् ॥
रथमार्गैर्विचित्रैस्तैर्विचित्ररथसङ्कुलम् ।
अपश्यन्रथिनो युद्धं विचित्रं चित्रयोधिनाम् ॥
यतमानाः पराक्रान्ताः परस्परजिगीषवः ।
जीमूता इव घर्मान्ते शरवर्षैरवाकिरन् ॥
ते रथान्सूर्यसङ्काशानास्थिताः पुरुषर्षभाः ।
अशोभन्त यथा मेघाः शारदाश्चलविद्युतः ॥
योधास्ते तु महाराज क्रोधामर्षसमन्विताः । स्पर्धिनश्च महेष्वासाः कृतयत्ना धनुर्धराः ।
अभ्यगच्छंस्तथाऽन्योन्यं मत्ता गजवृषा इव ॥
न नूनं देहभेदोऽस्ति काले राजन्ननागते ।
यत्र सर्वे न युगपद्व्यशीर्यन्त महारथाः ॥
बाहुभिश्चपरणैश्चिन्नैः शिरोभिश्च सकुण्डलैः ।
कार्मुकैर्विशिखैः प्रासैः खङ्गैः परशुपट्टसैः ॥
नालीकैः क्षुद्रनाराचैर्नखरैः शक्तितोमरैः ।
अन्यैश्च विविधाकारैर्धौतैः प्रहरणोत्तमैः ॥
विचित्रैर्विविधाकारैः शरीरावरणैरपि ।
विचित्रैश्च रथैर्भग्नैर्हतैश्च गजवाजिभिः ॥
शून्यैश्चैव नगाकारैर्हतयोधध्वजै रथैः ।
अमनुष्यैर्हयैस्त्रस्तैः कृष्यमाणैस्ततस्ततः ॥
वातायमानैरसकृद्धतवीरैरलंकृतैः ।
व्यजनैः कङ्कटैश्चैव ध्वजैश्च विनिपातितैः ॥
छत्रैराभरणैर्वस्त्रैर्माल्यैश्च ससुगन्धिभिः ।
हारैः किरीटैर्मुकुटैरुष्णीषैः किङ्किणीगणैः ॥
उरस्थैर्मणिभिर्निष्कैश्चूडामणिभिरेव च ।
आसीदायोधनं तत्र नभस्तारागणैरिव ॥
ततो दुर्योधनस्यासीन्नकुलेन समागमः ।
अमर्षितेन क्रुद्धस्य क्रुद्धेनामर्षितस्य च ॥
अपसव्यं चकाराथ माद्रीपुत्रस्तवात्मजम् ।
किरञ्छरशतैर्हृष्टस्तत्र नादो महानभूत् ॥
अपसव्यं कृतं सङ्ख्ये भ्रातृव्येनात्यमर्षिणा । नामृष्यत तमप्याजौ प्रतिचक्रे परन्तपः ।
पुत्रस्तव महाराज राजा दुर्योधनो द्रुतम् ॥
ततः प्रतिचिकीर्षन्तमपसव्यं तु ते सुतम् ।
न्यवारयत तेजस्वी नकुलश्चित्रमार्गवित् ॥
स सर्वतो निवार्यैनं शरजालेन पीडयन् ।
विमुखं नकुलश्चक्रे तत्सैन्याः समपूजयन् ॥
तिष्ठतिष्ठेति नकुलो बभाषे तनयं तव ।
संस्मृत्य सर्वदुःखानि तव दुर्मन्त्रितं च तत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

5-188-12 स्वे कौरवाः स्वान् स्वभृत्यान्परे पाण्डवाः स्वान् स्वभृत्यान् । स्वे इत्यनुवर्तते । परेषां पाण्डवानां स्वान् स्वे कौरवाः परेषां पाण्डवानां परान् कौरवान् परे पाण्डवा जघ्नुरित्यन्वयः । परेषामित्युभयत्र सम्बध्यते । स्वपरविभागो वक्तुः सञ्जयस्यानुरोधात् ॥ 5-188-13 निज्यन्ते प्रक्षाल्यन्ते वासांसि येषु ते प्रदेशा नेजनानि तेषु यथा वाससां राशयो भवन्त्येवमुद्यतानां प्रतिकूलं पिष्टानां च खङ्गानां राशयः प्रत्यदृश्यन्त । निज्यतां क्षालनैः उद्यम्योद्यम्य शिलायां स्फाल्यमानानाम् । स्लोकद्वयम् ॥ 5-188-14 निज्यन्ते प्रक्षाल्यन्ते वासांसि येषु ते प्रदेशा नेजनानि तेषु यथा वाससां राशयो भवन्त्येवमुद्यतानां प्रतिकूलं पिष्टानां च खङ्गानां राशयः प्रत्यदृश्यन्त । निज्यतां क्षालनैः उद्यम्योद्यम्य शिलायां स्फाल्यमानानाम् । स्लोकद्वयम् ॥ 5-188-15 अर्धासिभिरेकधारैः ॥ 5-188-23 निलयनमाश्रयः । आर्तायनं आर्तानां भयवारणं स्वीयानाम् । शत्रूणां तु तावेव मृत्युकरावित्यर्थः ॥ 5-188-34 चतुरश्चत्वारः ॥ 5-188-35 भ्रात्रा दुःशासनेन ॥ 5-188-188 अष्टाशीत्यधिकशततमोऽध्यायः ॥

श्रीः