अध्यायः 190

सात्यकिदुर्योधनादीनां सङ्कुलयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
तस्मिंस्तथा वर्तमाने गजाश्वनरसंक्षये ।
दुःशासनो महाराज धृष्टद्युम्नमयोधयत् ॥
स तु रुक्मरथासक्तो दुःशासनशरार्दितः ।
अमर्षात्तव पुत्रस्य शरैर्वाहानवाकिरत् ॥
क्षणेन स रथस्तस्य सध्वजः सहसारथिः ।
नादृश्यत महाराज पार्षतस्य शरैश्चितः ॥
दुःशासनस्तु राजेन्द्र पाञ्चाल्यस्य महात्मनः ।
नाशकत्प्रमुखे स्थातुं शरजालप्रपीडितः ॥
स तु दुःशासनं बाणैर्विमुखीकृत्य पार्षतः ।
किऱञ्छरसहस्राणि द्रोणमेवाभ्ययाद्रणे ॥
अभ्यपद्यत हार्दिक्यः कृतवर्मा त्वनन्तरम् ।
सोदर्याणां त्रयश्चैव त एनं पर्यवारयन् ॥
तं यमौ पृष्ठतोऽन्वैतां रक्षन्तौ पुरुषर्षभौ ।
द्रोणायाभिमुखं यान्तं दीप्यमानमिवानलम् ॥
सम्प्रहारमकुर्वंस्ते सर्वे च सुमहारथाः ।
अमर्षिताः सत्त्ववन्तः कृत्वा मरणमग्रतः ॥
शुद्धात्मानः शुद्धवृत्ता राजन्स्वर्गपुरस्कृताः ।
आर्यं युद्धमकुर्वन्त परस्परजिगीषवः ॥
शुक्लाभिजनकर्माणो मतिमन्तो जनाधिप ।
धर्मयुद्धमयुध्यन्त प्रेप्सन्तो गतिमुत्तमाम् ॥
न तत्रासीदधर्मिष्ठमशस्तं युद्धमेव च ।
नात्र कर्णी न नालीको न लिप्तो न च बस्तिकः ॥
न सूची कपिशो नैव न गवास्थिर्गजास्थिजः । न चूली बलिशस्तत्र न यमी नापि पाचकः ।
इषुरासीन्न संश्लिष्टो न पूतिर्न च जिह्मगः ॥
ऋजून्येव विशुद्धानि सर्वे शस्त्राण्यधारयन् ।
सुयुद्धेन पराँल्लोकानीप्सन्तः कीर्तिमेव च ॥
तदासीत्तुमुलं युद्धं सर्वदोषविवर्जितम् ।
चतुर्णां तव योधानां तैस्त्रिभिः पाण्डवैः सह ॥
धृष्टद्युम्नस्तु तान्दृष्ट्वा तव राजन्रथर्षभान् ।
यमाभ्यां वारितान्वीराञ्छीघ्रास्त्रो द्रोणमभ्ययात् ॥
निवारितास्तु ते वीरास्तयोः पुरुषसिंहयोः ।
समसज्जन्त चत्वारो वाताः पर्वतयोरिव ॥
द्वाभ्यां द्वाभ्यां यमौ सार्धं रथाभ्यां रथपुङ्गवौ ।
समासक्तौ ततो द्रोणं धृष्टद्युम्नोऽभ्यवर्तत ॥
दृष्ट्वा द्रोणाय पाञ्चाल्यं व्रजन्तं युद्धदुर्मदम् ।
यमाभ्यां तांश्च संसक्तांस्तदन्तरमुपाद्रवत् ॥
दुर्योधनो महाराज किरञ्छोणितभोजनान् ।
तं सात्यकिः शीघ्रतरं पुनरेवाभ्यवर्तत ॥
तौ परस्परमासाद्य समीपे कुरुमाधवौ ।
हसमानौ नृशार्दूलावभीतौ समसज्जताम् ॥
बाल्यवृत्तानि सर्वाणि प्रीयमाणौ विचिन्त्य तौ ।
अन्योन्यं प्रेक्षमाणौ च स्मयमानौ पुनःपुनः ॥
अथ दुर्योधनो राजा सात्यकिं समभाषत ।
प्रियं सखायं सततं गर्हयन्वृत्तमात्मनः ॥
धिक् क्रोधं धिक्सखे लोभं धिङ्मोहं धिगमर्षितम् ।
धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ॥
यत्र मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव ।
त्वं हि प्राणैः प्रियतरो ममाहं च सदा तव ॥
स्मरामि तानि सर्वाणि बाल्यवृत्तानि यानि नौ । तानि सर्वाणि जीर्णानि साम्प्रतं नो रणाजिरे ।
किमन्यत्क्रोधलोभाभ्यां युद्धमेवाद्य सात्वत ॥
तं तथावादिनं तत्र सात्यकिः प्रत्यभाषत ।
प्रहसन्विशिखांस्तीक्ष्णानुद्यम्य परमास्त्रवित् ॥
नेयं सभा राजपुत्र नाचार्यस्य निवेशनम् ।
यत्र क्रीडितमस्माभिस्तदा राजन्समागतैः ॥
दुर्योधन उवाच ।
क्व सा क्रीडा गताऽस्माकं बाल्ये वै शिनिपुङ्गव ।
क्व च युद्धमिदं भूयः कालो हि दुरतिक्रमः ॥
किन्तु नो विद्यते कृत्यं धनेन धनलिप्सया ।
यत्र युध्यामहे सर्वे धनलोभात्समागताः ॥
सञ्जय उवाय ।
तं तथावादिनं तत्र राजानं माधवोऽब्रवीत् ।
एवं वृत्तं सदा क्षात्रं युध्यन्तीह गुरूनपि ॥
यदि तेऽहं प्रियो राजञ्जहि मां मा चिरं कृथाः ।
त्वत्कृते सुकृतांल्लोकान्गच्छेयं भरतर्षभ ॥
या ते शक्तिर्बलं यच्च तत्क्षिप्रं मयि दर्शय ।
नेच्छामि तदहं द्रष्टुं मित्राणां व्यसनं महत् ॥
इत्येवं व्यक्तमाभाष्य प्रतिभाष्य च सात्यकिः ।
अभ्ययात्तूर्णमव्यग्रो दयां नाकुरुतात्मनि ॥
तमायान्तं महाबाहुं प्रत्यगृह्णात्तवात्मजः ।
शरैश्चावाकिरद्राजञ्शैनेयं तनयस्तव ॥
ततः प्रववृते युद्धं कुरुमाधवसिंहयोः ।
अन्योन्यं क्रुद्धयोर्घोरं यथा द्विरदसिंहयोः ॥
ततः पूर्णायतोत्सृष्टैः सात्वतं युद्धदुर्मदम् ।
दुर्योधनः प्रत्यविध्यत्कुपितो दशभिः शरैः ॥
तं सात्यकिः प्रत्यविध्यत्तथैवावाकिरच्छरैः ।
पञ्चाशता पुनश्चाजौ त्रिंशता दशभिश्च ह ॥
सात्यकिं तु रणे राजन्प्रहसंस्तनयस्तव ।
आकर्णपूर्णैर्निशितैर्विव्याध त्रिंशता शरैः ॥
ततोऽस्य सशरं चापं क्षुरप्रेण द्विधाऽच्छिनत् ॥
सोऽन्यत्कार्मुकमादाय लघुहस्तस्ततो दृढम् ।
सात्यकिर्व्यसृजच्चापि शरश्रेणीं सुतस्य ते ॥
तामापतन्तीं सहसा शरश्रेणीं जिघांसया ।
चिच्छेद बहुधा राजा तत उच्चुक्रुशुर्जनाः ॥
सात्यकिं च त्रिसप्तत्या पीडयामास वेगितः ।
स्वर्णपुङ्खैः शिलाधौतैराकर्णापूर्णनिःसृतैः ॥
तस्य सन्दधतश्चेषु संहितेषु च कार्मुकम् ।
आच्छिनत्सात्यकिस्तूर्णं शरैश्चैवाप्यवीविधत् ॥
स गाढविद्धो व्यथितः प्रत्यपायाद्रथान्तरे ।
दुर्योधनो महाराज दाशार्हशरपीडितः ॥
समाश्वस्य तु पुत्रस्ते सात्यकिं पुनरभ्ययात् ।
विसृजन्निषुजालानि युयुधानरथं प्रति ॥
तथैव सात्यकिर्बाणान्दुर्योधनरथं प्रति ।
सततं विसृजन्राजंस्तत्सङ्कुलमवर्तत ॥
तत्रेषुभिः क्षिप्यमाणैः पतद्भिश्च शरीरिषु ।
अग्नेरिव महाकक्षैः शब्दः समभवन्महान् ॥
तयोः शरसहस्रैश्च सञ्छन्नं वसुधातलम् ।
अगम्यरूपं च शरैराकाशं समपद्यत ॥
तत्राप्यधिकमालक्ष्य माधवं रथसत्तमम् ।
क्षिप्रमभ्यपतत्कर्णः परीप्संस्तनयं तव ॥
न तु तं मर्षयामास भीमसेनो महाबलः ।
सोऽभ्ययात्त्वरितः कर्णं विसृजन्सायकान्बहून् ॥
तस्य कर्णः शितान्बाणान्प्रतिहन्य हसन्निव ।
धनुः शरांश्च चिच्छेद सूतं चाभ्यहनच्छरैः ॥
भीमसेनस्तु सङ्क्रुद्धो गदामादाय पाण्डवः ।
ध्वजं धनुश्च सूतं च सम्ममर्दाहवे रिपोः ॥
रथचक्रं च कर्णस्य बभञ्ज स महाबलः ।
भग्नयक्रे रथेऽतिष्ठदकम्पः शैलराडिव ॥
एकचक्रं रथं तस्य तमूहुः सुचिरं हयाः ।
एकचक्रमिवार्कस्य रथं सप्त हया यथा ॥
अमृष्यमाणः कर्णस्तु भीमसेनमयुध्यत ।
विविधैरिषुजालैश्च नानाशस्त्रैश्च संयुगे ॥
भीमसेनस्तु सङ्क्रुद्धः सूतपुत्रमयोधयत् । तस्मिंस्तथा वर्तमाने क्रुद्धो धर्मसुतोऽब्रवीत् ।
पाञ्चालानां नरव्याघ्रान्मात्स्यांश्च पुरुषर्षभान् ॥
ये नः प्राणाः शिरो ये च ये नो योधा महारथाः ।
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभान् ॥
ये नः प्राणाः शिरो ये च ये नो योधा महारथाः ।
त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः ॥
किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः ।
तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः ॥
क्षत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः ।
जयन्तो वध्यमानाश्च गतिमिष्टां गमिष्यथ ॥
ते राज्ञा चोदिता वीरा योत्स्यमाना महारथाः ।
चतुर्धा वाहिनीं कृत्वा त्वरिता द्रोणमभ्ययुः ॥
पाञ्चालास्त्वेकतो द्रोणमभ्यघ्नन्निशितैः शरैः ।
भीमसेनपुरोगाश्चाप्येकतः पर्यवारयन् ॥
आसंस्तु पाण्डुपुत्राणां त्रयो जिह्मा महारथाः ।
यमौ च भीमसेनश्च प्राक्रोशंस्ते धनञ्जयम् ॥
अभिद्रवार्जुन क्षिप्रं कुरून्द्रोणादपानुद ।
तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम् ॥
कौरवेयांस्ततः पार्थः ससा समुपाद्रवत् । पाञ्चालानेव तु द्रोणो धृष्टद्युम्नपुरोगमान् ।
ममर्दुस्तरसा वीराः पञ्चमेऽहनि भारत ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि पञ्चदशदिवसयुद्धे नवत्यधिकशततमोऽध्यायः ॥ 190 ॥

5-190-6 त्रयो धृष्टद्युम्नोऽन्यौ द्वौ च ॥ 5-190-10 शुक्लः शुद्धोऽभिजनो वंशो येषां ते स्वयं शोधितकर्माणश्च ॥ 5-190-11 अशस्तमप्रशस्यम् । प्रशस्यत्वमाह नात्रेति । कर्णी विलोमकण्टकद्वययुक्तः । सहि उद्द्रियमाणोऽन्त्राण्युद्धरति । नालीकः अल्पत्वाद्देहमग्रः सन् दुरुद्धरः । न लिप्तो विषेणेति शेषः । बस्तिकः शल्यदण्डसन्धौ शिथिलस्तस्योद्धरणे शल्यं बस्तिमध्ये मज्जति दण्डमात्रं निः--सरति । (अन्ये बस्तक इति पठित्वा शृङ्गघटित इति व्याचख्युः)॥ 5-190-20 हिंसमानाविति क.ख.पाठः ॥ 5-190-33 अभ्ययात्तूर्णमव्यग्रो निरपेक्षो विशाम्पते क.ख.पाठः ॥ 5-190-190 नवत्यधिकशततमोऽध्यायः ॥

श्रीः