अध्यायः 192

अश्वत्थामवधश्रवणनिर्विण्णद्रोणमारणाय धृष्टद्युम्नसमुद्यमः ॥ 1 ॥ द्रोणग्रस्तस्य धृष्टद्युम्नस्य सात्यकिना विमोचनम् ॥ 2 ॥

सञ्जय उवाच ।
तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् ।
पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ॥
य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे ।
लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् ॥
स धनुर्जैत्रमादाय घोरं जलदनिःस्वनम् ।
दृढज्यमजरं दिव्यं शरं चाशीविषोपमम् ॥
सन्दधे कार्मुके तस्मिंस्ततस्तमनलोपमम् ।
द्रोणं जिघांस्तुः पाञ्चाल्यो महाज्वालमिवानलम् ॥
तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे ।
द्योततो भास्करस्येव घनान्ते परिवेषिणः ॥
पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः ।
अन्तकालमनुप्राप्तं मेनिरे वीक्ष्य सैनिकाः ॥
तमिषुं संहतं तेन भारद्वाजः प्रतापवान् ।
दृष्ट्वाऽमन्यत देहस्य कालपर्यायमागतम् ॥
ततः प्रयत्नमातिष्ठदाचार्यस्तस्य वारमे ।
न चास्यास्त्राणि राजेन्द्र पादुरासन्महात्मनः ॥
तस्य त्वहानि चत्वारि क्षपा चैकाऽस्यतो गता ।
तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः ॥
स शरक्षयमासाद्य पुत्रशोकेन चार्दितः ।
विविधानां च दिव्यामानमस्त्राणामप्रसादतः ॥
उत्स्रष्टुकामः शस्त्राणि ऋषिवाक्यप्रचोदितः ।
तेजसा पूर्यमाणश्च युयुधे न यथा पुरा ॥
भूयश्चान्यत्समादाय दिव्यमाङ्गिरसं धनुः ।
शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् ॥
ततस्तं शरवर्षेण महता समवाकिरत् ।
व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणम् ॥
शरांश्च शतधा तस्य द्रोणश्चिच्छेद सायकैः ।
ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् ॥
धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् ।
शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे ॥
सोऽतिविद्धो महेष्वासोऽसम्भ्रान्त इव संयुगे ।
भल्लेन शितधारेण चिच्छेदास्य पुनर्धनुः ॥
यच्चास्य बाणविकृतं धनूंषि च विशाम्पते ।
सर्वं चिच्छेद दुर्धर्षो गदां खङ्गं च वर्जयन् ॥
धृष्टद्युम्नं च विव्याध नवभिर्निशितैः शरैः ।
जीवितान्तकरैः क्रुद्धः शिलाधौतैः परन्तपः ॥
धृष्टद्युम्नोऽथ तस्याश्वान्खरथाश्वैर्महारथः ।
व्यामिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् ॥
ते मिश्रा बह्वशोभन्त जवना वातरंहसः ।
पारावतसवर्णाश्च शोणाश्च भरतर्षभ ॥
यथा सविद्युतो मेघा नदन्तो जलदागमे ।
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ॥
ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च ।
प्राणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः ॥
स च्छिन्नधन्वा पाञ्चाल्यो निकृत्तध्वजसारथिः ।
उत्तमामापदं प्राप्य गदां वीरः परामृशत् ॥
तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः ।
निजघानः शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ॥
तां तु दृष्ट्वा नरव्याघ्रो द्रोणेन निहतां शरैः ।
विमलं खङ्गमादत्त शतचन्द्रं च भानुमत् ॥
असंशयं तथाभूतः पाञ्चाल्यः साध्वमन्यत ।
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः ॥
ततः स रथनीडस्थं स्वरथस्य रथेपया ।
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ॥
चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः ।
इयेष वक्षो भेत्तुं स भारद्वाजस्य संयुगे ॥
सोऽतिष्ठद्युगमध्ये वै युगसन्नहनेषु च ।
जघनार्धेषु चाश्वानां तत्सैन्याः समपूजयन् ॥
तिष्ठतो युगपालीपु शोणानप्यधितिष्ठतः ।
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ॥
क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः ।
तद्वदासीदभीसारो द्रोमपार्षतयो रणे ॥
तस्य पारावतानश्वान्रथशक्त्या पराभिनत् ।
सर्वानेकैकशो द्रोणो रक्तानश्वान्विवर्जयन् ॥
ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः ।
शोणास्तु पर्यमुच्यन्त रथबन्धाद्विशाम्पते ॥
तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः ।
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ॥
विरथः स गृहीत्वा तु खङ्गं खङ्गभृतां वरः ।
द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् ॥
तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः ।
यथा रूपं पुरा विष्णोर्हिरण्यकशिपोर्वधे ॥
स तदा विविधान्मर्गान्प्रवरांश्चैकविंशतिम् ।
दर्शयामास कौरव्य पार्षतो विचरन्रणे ॥
भ्रान्तुमुद्धान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ।
परिवृत्तं निवृत्तं च खङ्गं चर्म च धारयन् ॥
सम्पातं समुदीर्णं च दर्शयामास पार्षतः । भारतं कौशिकं चैव सात्वतं चैव शिक्षया ।
दर्शयन्व्यचरद्युद्धे द्रोणस्यान्तचिकीर्षया ॥ चरतस्तस्य तान्मर्गान्विचित्रान्खङ्गचर्मिणः ।
व्यस्मयन्त रणे योधा देवताश्च समागताः ॥
ततः शरसहस्रेण शतचन्द्रमपातयत् ।
चर्म खङ्गं च सम्बाधे धृष्टद्युम्नस्य स द्विजः ॥
ये तु वैतस्तिका नाम शरा आसन्नयोधिनः ।
निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ॥
ऋते शारद्वतात्पर्थाद्द्रौणेर्वैकर्तनात्तथा ।
प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च भारत ॥
अथास्येषु समाधत्त दृढं परमसम्मतम् ।
अन्तेवासिनमाचार्यो जिघांसुः पुत्रसम्मितम् ॥
तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः । पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः ।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥
चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् । द्रोणकर्मान्तरगतं कृपस्यापि च भारत ।
अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ ॥
अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधुसाध्विति ।
दिव्यान्यस्त्राणि सर्वेषां युधि निघ्न्तमच्युतम् ॥
धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव ।
आचार्यरथमुख्यानां मध्ये क्रीडन्मधूद्वहः ॥
आनन्दयति मां भूयः सात्यकिः परवीरहा ।
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् ॥
यच्छिक्षयाऽनुद्धतः सन्रणे चरति सात्यकिः ।
महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः ॥
तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः । अजय्यं समरे दृष्ट्वा साधुसाध्विति सात्यकिम् ।
योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि पञ्चदशदिवसयुद्धे द्विनवत्यधिकशततमोऽध्यायः ॥ 192 ॥

5-192-38 खङ्घं चर्म च धारयन्भ्रान्तादित्रयोदशविधं सञ्चरणं दर्शयामासेति सम्बन्धः ॥ 5-192-41 सम्बाधे रणसङ्कटे ॥ 5-192-42 वैतस्तिकाः वितस्तिप्रमाणाः ॥ 5-192-192 द्विनवत्यधिकशततमोऽध्यायः ॥

श्रीः