अध्यायः 196

अश्वत्थाम्ना सक्रोधं युधिष्ठिराद्युपालभ्यः ॥ 1 ॥ तथा द्रोणस्य नारायणास्त्रलाभप्रकारादिकथनपूर्वकं तेन पाण्डवादिवध प्रतिज्ञानम् ॥ 2 ॥

सञ्जय उवाच ।
छद्मना निहतं श्रुत्वा पितरं पापकर्मणा ।
बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ ॥
तस्य क्रुद्धस्य राजेन्द्र वपुर्दीप्तमदृश्यत ।
अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ॥
अश्रूपुर्णे ततो नेत्रे व्यपमृज्य पुनः पुनः ।
उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ॥
पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः । धर्मध्वजवता पापं कृतं तद्विदितं मम ।
अनार्यं सुनृशंसं च धर्मपुत्रस्य मे श्रुतम् ॥
युद्धेष्वपि प्रवृत्तानां ध्रुवं जयपराजयौ ।
द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ॥
न्यायवृत्तो वधो यस्तु संङ्ग्रामे युध्यतो भवेत् ।
न स दुःखाय भवति तथा दृष्टो हि स द्विजैः ॥
गतः स वीरलोकाय पिता मम न संशयः ।
न शोच्यः पुरुषव्याघ्र यस्तदा निधनं गतः ॥
यत्तु धर्मप्रवृतः सन्केशग्रहणमाप्तवान् ।
पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ॥
मयि जीवति यत्तातः केशग्रहमवाप्तवान् ।
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ॥
कामात्क्रोधादविज्ञानाद्वर्षाद्बाल्येन वा पुनः ।
विधर्मकाणि कुर्वन्ति तथा परिभवन्ति च ॥
तदिदं पार्षतेनेह महदाधर्मिकं कृतम् ।
अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ॥
तस्यानुबन्धं द्रष्टाऽसौ धृष्टद्युम्नः सुदारुणम् ।
अकार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ॥
यो ह्यसौ छद्मनाऽऽचार्यं शस्त्रं सन्न्यासयत्तदा ।
तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ॥
शपे सत्येन कौरव्य इष्टापूर्तेन चैव ह ।
अहत्वा सर्वपाञ्चालाञ्जीवेयं न कथञ्चन ॥
सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे ।
धृष्टद्युम्नं च समरे हन्ताऽहं पापकारिणम् ॥
कर्मणा येन तेनेह मृदुना दारुणेन च ।
पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ॥
यदर्थं पुरुषव्याघ्र पुत्रानिच्छन्ति मानवाः ।
प्रेत्य चेह च सम्प्राप्तात्त्रायन्ते महतो भयात् ॥
पित्रा तु मम साऽवस्था प्राप्ता निर्बन्धुना यथा ।
मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ॥
धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् ।
यं स्म द्रोणः सुतं प्राप्य केशग्रहमवाप्तवान् ॥
स तथाहं करिष्यासि यथा भरतसत्तम ।
परलोकगतस्यापि भविष्याम्यनृणः पितुः ॥
आर्येण हि न वक्तव्या कदाचित्स्तुतिरात्मनः ।
पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ॥
अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः ।
मृद्गतः सर्वसैन्यानि युगान्तमिव कुर्वतः ॥
न हि देवा न गन्धर्वा नासुरा न च राक्षसाः ।
अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभाः ॥
मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वाऽस्त्रवित्क्वचित् । अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् ।
प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः ॥
भृशमिष्वसनादद्य मत्प्रयुक्ता महाहवे ।
दर्शयन्तः शरा वीर्यं प्रमथिष्यन्ति पाण्डवान् ॥
अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः ।
आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह ॥
विकिरञ्छरजालानि सर्वतो भैरवस्वनान् ।
शत्रून्निपातयिष्यामि महावात इव द्रुमान् ॥
न हि जानाति बीभत्सुस्तदस्त्रं न जनार्दनः ।
न भीमसेनो न यमौ न च राजा युधिष्ठिरः ॥
न पार्षतो दुरात्माऽसौ न शिखण्डी न सात्यकिः ।
यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् ॥
नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् ।
उपहारः पुरा दत्तो ब्रह्मरूप उपस्थितः ॥
तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ ।
वव्रे पिता मे परममस्त्रं नारायणं ततः ॥
अथैनमब्रवीद्राजन्भागवान्देवसत्तमः ।
भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ॥
न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन ।
न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ॥
न चैतच्छक्यते जेतुं को न वध्येत वै प्रभो ।
अवध्यमपि हन्याद्वि तस्मान्नैतत्प्रयोजयेत् ॥
अथ सङ्ख्ये रथस्यैव शस्त्राणां च विसर्जनम् ।
प्रयाचनं च शत्रूणां गमनं शरणस्य च ॥
एते प्रशमने योगा महास्त्रस्य परन्तप ।
सर्वथा पीडितो हिंस्यादवध्यान्पीडयन्रणे ॥
तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः । त्वं वधिष्यसि सर्वाणि शस्त्रवर्षाण्यनेकशः ।
अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि ॥
एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः ।
एतन्नारायणादस्त्रं तत्प्राप्तं पितृबन्धुना ॥
तेनाहं पाण्डवांश्चैव पाञ्चालान्मात्स्यकेकयान् ।
विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ॥
यथायथाऽहमिच्छेयं तथा भूत्वा शरा मम ।
निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत ॥
यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः ।
अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ॥
परश्वथांश्च निशितानुत्स्रक्ष्येऽहमसंशयम् ॥
सोऽहं नारायणास्त्रेण महता शत्रुतापनः ।
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ॥
मित्रब्रह्मगुरुद्रोही जाल्मकः सुविगर्हितः ।
पाञ्चालापशदश्चाद्य न मे जीवन्विमोक्ष्यते ॥
तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी । ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः ।
भेरीश्चाभ्यहनन्हृष्टा डिण्डिभांश्च सहस्रशः ॥
तथा ननाद वसुधा खुरनेमिप्रपीडिता ।
स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ॥
तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् ।
समेत्य रथिनां श्रेष्ठाः सहिताश्चाप्यमन्त्रयन् ॥
तथोक्त्वा द्रोणपुत्रस्तु वार्युपस्पृश्य भारत ।
प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे षण्णवत्यधिकशततमोऽध्यायः ॥ 196 ॥

5-196-4 धर्मध्वजवता दाम्भिकेन । तत् अनृतवचनरूपं पापम् । अनार्यं नीचयोग्यं कर्म ॥ 5-196-10 बाल्येन चापकेन । विधर्मकाणि धर्मविरुद्धानि ॥ 5-196-12 अनुबन्धं फलम् । पाण्डवश्च अनुबन्धं द्रष्टेत्यनुषज्यते ॥ 5-196-24 मयूखानां मयूखवताम् ॥ 5-196-29 कल्यः प्रयोगः । निवर्तनमुपसंहारः ॥ 5-196-30 ब्रह्मरूपो वेदरूपः । वैदिकैर्मन्त्रैः स्तुतवानित्यर्थः ॥ 5-196-34 शक्यते ज्ञातुं केन वध्येदिति प्रभो इति झ. पाठः । तत्र केन प्रत्यस्त्रेण वध्येत् वध्येत इति ज्ञातुमित्यर्थः ॥ 5-196-35 रथस्यैव विसर्जनम् । शस्त्राणामपि विसर्जनं च । प्रयाचनं मावधीरिति याचनं । शरणस्य गमनं त्वमेव शरणं न इति कीर्तनं च ॥ 5-196-36 पीडितः पीडितं शस्त्रान्तरेण बाधितम् । पुंस्त्वमार्षम् ॥ 5-196-38 पितृबन्धुना मया ॥ 5-196-44 जाल्मको मूर्ख ॥ 5-196-196 षण्णवत्यधिकशततमोऽध्यायः ॥

श्रीः