अध्यायः 197

कुरुसेनाहरवश्रवणभीतेन युधिष्ठिरेण पलायितसेनाप्रतिनिवर्तकप्रश्ने अर्जुनेन तत्कथनपूर्वकं द्रोणवधोपेक्षणादात्मोपालम्भः ॥ 1 ॥

सञ्जय उवाच ।
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे प्रभो ।
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥
चचाल पृथिवी चापि चुक्षुभे च महोदधिः ।
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ॥
शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत ।
अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे ॥
तमसा तावकीर्यन्त सूर्यश्च कलुषोऽभवत् ।
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ॥
देवदानवगन्धर्वास्त्रस्तास्त्वासन्विशाम्पते ।
कथङ्खथाऽभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ॥
व्यथिताः सर्वराजानस्त्रस्ताश्चासन्विशाम्पते ।
तद्दृष्ट्वा घोररूपं वै द्रौणेरस्त्रं भयावहम् ॥
धृतराष्ट्र उवाच ।
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे ।
भृशं शोकाभितप्तेन पितुर्वधममृष्यता ॥
कुरूनापततो दृष्ट्वा धृष्टद्मुम्नस्य रक्षणे ।
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः ।
पुनश्च तुमुलं शब्दं श्रुत्वाऽर्जुनमथाब्रवीत् ॥
युधिष्ठिर उवाच ।
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे ।
निहते वज्रहस्तेन यथा वृत्रे महासुरे ॥
नाशंसन्तो जयं युद्धे दीनात्मानो धनञ्जय ।
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो रणात् ॥
केचिद्वान्तै रथैस्तूर्णं निहतैः पाष्णियन्तृभिः ।
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ॥
भग्ननीडैराकुलाश्वैः प्रारुह्यान्यान्विचेतसः ।
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथान् ॥
भग्नाक्षयुगचक्रैश्च व्याकृष्यन्त समन्ततः ।
रथान्विशीर्णानुत्सृज्य पद्भिः केचिच्च विद्रुताः ॥
हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः ।
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः ॥
शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ।
विशस्त्रकवचनाश्चान्ये वाहनेभ्यः क्षितिं गताः ॥
सञ्छिन्ना नेमिभिश्चैव मृदिताश्च हयद्विपैः ।
क्रोशन्तस्तात पुत्रेति पलायन्ते परे भयात् ॥
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ।
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् ॥
जलेन क्लेदयन्त्यन्ये विमुच्य कवचनान्यपि ।
`पलायनपराश्चान्ये योधाः शतसहस्रशः' ॥
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् ।
पुनरावर्तितं केन यदि जानासि शंस मे ॥
हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् ।
रथनेमिस्वनैश्चात्र विमिश्रः श्रूयते महान् ॥
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे ।
मुमुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि मामकान् ॥
य एष तुमुलः शब्दः श्रूयते रोमहर्षणः ।
सेन्द्रानप्येष लोकांस्त्रीन्ग्रसेदिति मतिर्मम ॥
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः ।
द्रोणे हते कौरवार्यं व्यक्तमभ्येति वासवः ॥
प्रहृष्टरोमकूपाः स्मः संविग्नरथकुञ्जराः ।
धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ॥
क एष कौरवान्दीर्णानवस्थाप्य महारथः ।
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ॥
अर्जुन उवाच ।
उद्यम्यात्मानमुग्राय कर्मणे वीर्यमास्थिताः ।
धमन्ति कौरवाः शङ्खान्यस्य वीर्यं समाश्रिताः ॥
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते ।
धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि ॥
हीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् ।
`इन्द्रविष्मुसमं वीर्ये कोपेऽन्तकमिव स्थितम् ॥
बृहस्पतिसमं बुद्ध्या नीतिमन्तं महारथम्' ।
आख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् ॥
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् ।
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ॥
जातमात्रेण वीरेण येनोच्चैः श्रवसा यथा ।
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ॥
तच्छ्रुत्वान्तर्हितं भूतं नाम तस्याकरोत्तदा ।
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ॥
यो ह्यनाथ इवाक्रम्य पार्षतेन हतस्तथा ।
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ॥
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् ।
तन्न जातुं क्षमेद््द्रौणिर्जानन्पौरुषमात्मनः ॥
`स हि तेनैव नः सर्वान्क्षपयेदिति मे मतिः' ॥
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् ।
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ॥
चिरं स्थास्यति चाकीर्तिस्त्रैलोक्ये सचराचरे ।
रामे वालिवधाद्यद्वदेवं द्रोणे निपातिते ॥
सर्वधर्मोपपन्नोऽयं स मे शिष्यश्च पाण्डवः ।
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ॥
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् ।
आचार्य उक्तो भवता हतः कुञ्जर इत्युत ॥
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः ।
आसीत्सुविह्वलो राजन्यथा दृष्टस्त्वया विभुः ॥
स तु शोकसमाविष्टो विमुखः पुत्रवत्सलः ।
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ॥
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् ।
रक्षत्विदानीं सामात्यो यदि शक्तोसि पार्षतम् ॥
ग्रस्तमाचार्य पुत्रेण क्रुद्धेन हतबन्धुना ।
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ॥
सौहार्दं सर्वभूतेषु यः करोत्यतिमानुषः ।
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ॥
विक्रोशमाने हि मयि भृशमाचार्यगृद्विनि ।
अपाकीर्य स्वयं धर्मं शिप्येण निहतो गुरुः ॥
यदा गतं वयो भूयः शिष्टमल्पतरं च नः ।
तस्येदानीं विरोधोऽयमधर्मोऽयं कृतो महान् ॥
पितेव नित्यं सौहार्दात्पितेव हि च धर्मतः ।
सोऽल्पकालस्य राज्यस्य कारमाद्वातितो गुरुः ॥
धृतराष्ट्रेण भीष्माय द्रोणाय च विशाम्पते ।
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ॥
सम्प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः ।
अब्रवीत्सततं पुत्रान्मामेवाभ्यधिकं गुरुः ॥
अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः ।
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ॥
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः ।
कृतो ह्यनार्यैरस्माभीर राज्यार्थे लुब्धबुद्धिभिः ॥
अहो बत महत्पापं कृतं कर्म सुदारुणम् ।
यद्राज्यसुखलोभेन द्रोणोऽयं साधुघातितः ॥
पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः ।
त्यजेत्सर्वं मम प्रेम्णा जानात्येवं हि मे गुरुः ॥
स मया राज्यकामेन हन्यमानो ह्युपेक्षितः ।
तस्मादर्वाक्शिरा राजन्प्राप्तोऽस्मि नरकं प्रभो ॥
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं महामुनिम् ।
घातयित्वाऽद्य राज्यार्थे मृतं श्रेयो न जीवितम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥

5-197-1 सपृषतः सजलबिन्दुः । अनभ्रे अप्रावृषिकाले ॥ 5-197-5 कथङ्कथा कथं कर्तव्यं कथं कर्तव्यमित्येवंशब्दः ॥ 5-197-8 रक्षणे मन्त्रः क आसीदिति सम्बन्धः ॥ 5-197-30 व्याघ्रास्यमुग्रकर्माणमिति झ.पाठः ॥ 5-197-31 यस्मिन्निति दशशतामेत्यनेन सर्वगोधनं ददाविति ज्ञेयम् । अन्यथा एकधेन्वर्थं द्रुपदं प्रति द्रोणगमनस्यासम्भवः । यद्वा भाविनीं सम्पदमभिलक्ष्यैतद्दानं द्रष्टव्यम् । पुत्रोत्पत्तिकाले तस्य निर्धनत्वोक्तेः ॥ 5-197-39 सत्यकञ्जुकं सत्याभासमनृतम् ॥ 5-197-53 वासविरर्जुनः ॥ 5-197-197 सप्तनवत्यधिकशततमोऽध्यायः ॥

श्रीः