अध्यायः 203

इतरालक्षितं पुरतः स्वानुकूलं युध्यमानं शूलपाणिं कञ्चन पुरुषप्रवरमवलोकयता पार्थेन स क इति यदृच्छासमागतं व्यासं प्रति प्रश्नः ॥ 1 ॥ तेन तम्प्रति तस्य तस्य पशुपतित्वोक्त्या शतरुद्रीयपठनेन सविस्तरं तद्गुणगणवर्णनम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय ।
मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ॥
सञ्जय उवाच ।
तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै ।
कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः ॥
दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् । मुनिं स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् ।
यदृच्छयाऽऽगतं व्यासं पप्रच्छ भरतर्षभ ॥
अर्जुन उवाच ।
सङ्ग्रामे न्यहनं शत्रूञ्शरौघैर्विमलैरहम् ।
अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ॥
ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते ।
तस्यां दिशि विदीर्यन्ते शत्रवो मे महामुने ॥
तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः ।
तेन भग्नानि सैन्यानि पृष्ठतोऽनुव्रजाम्यहम् ॥
भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः ।
शूलपाणिर्मया दृष्टस्तेजसा सूर्यसन्निभः ॥
न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति ।
शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ॥
व्यास उवाच ।
प्रजापतीनां प्रथमं तैजसं पुरुषं प्रभुम् ।
भुवनं भूर्भुवं देवं तेजसां प्रवरं प्रभुम् ॥
ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् ।
तं गच्छ शरणं देवं वरदं भुवनेश्वरम् ॥
महादेवं महात्मानमीशानं जटिलं विभुम् ।
त्र्यक्षं महाभुजं रुद्रं शिखिनं चीवराससम् ॥
महादेवं हरं स्थाणुं वरदं भुवनेश्वरम् ।
जगत्प्रधानमजितं जगत्प्रीतिमधीश्वरम् ॥
जगद्योनिं जगद्बीजं जयिनं जगतो गतिम् ।
विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥
विश्वेश्वरं विश्वनरं कर्मणामीश्वरं प्रभुम् ।
शंभुं स्वयंभुं भूतेशं भूतभव्यभवोद्भवम् ॥
योगं योगेश्वरं सर्वं सर्वलोकेश्वरेश्वरम् ।
सर्वश्रेष्ठं जगच्छ्रेष्ठं वरिष्ठं परमेष्ठिनम् ॥
लोकत्रयविधातारमेकं लोकत्रयाश्रयम् ।
शुद्धात्मानं भवं भीमं शशाङ्ककृतशेखरम् ॥
शाश्वतं भूधरं देवं सर्ववागीश्वरेश्वरम् ।
सुदुर्जयं जगन्नाथं जन्ममृत्युजरातिगम् ॥
ज्ञानात्मानं ज्ञानगम्यं ज्ञानश्रेष्ठं सुदुर्विदम् ।
दातारं चैव भक्तानां प्रसादविहितान्वरान् ॥
तस्य पारिषदा दिव्या रूपैर्नानाविधैर्विभोः ।
वामना जटिला मुण्डा हस्वग्रीवा महोदराः ॥
महाकाया महोत्साहा महाकर्णास्तथाऽपरे ।
आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ॥
ईदृशैः स महादेवः पूज्यमानो महेश्वरः ।
स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥
तस्मिन्घोरे सदा पार्थ सङ्ग्रामे रोमहर्षणे ।
द्रौणिकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥
कस्तां सेनां तदा पार्थ मनसाऽपि प्रधर्षयेत् ।
ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥
स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते ।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥
गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः ।
विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ॥
तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि ।
ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ॥
ये भक्ता वरदं देव शिवं रुद्रमुमापतिम् ।
अनन्यभावेन सदा सर्वेशं समुपासते ॥
`सङ्ग्रामेषु जयं प्राप्य पालयन्ति महीमिमाम्' ।
इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ॥
नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा ।
रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ॥
कपर्दिने करालाय हर्यक्षवरदाय च ।
याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ॥
काम्याय हरिनेत्राय स्थाणवे पुरुषाय च ॥
`नमो वृक्षाय सेनान्ये मध्यमाय नमोनमः' । हरिकेशाय मुण्डाय कृशायोत्तारणाय च ।
भास्कारय सुतीर्थाय देवदेवाय रंहसे ॥
बहुरूपाय सर्वाय प्रियाय प्रियवाससे ।
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥
गिरिशाय प्रशान्ताय पतये चीरवाससे ।
हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥
पर्जन्यपतये चैव भूतानां पतये नमः ।
वृक्षाणां पतये चैव गवां च पतये नमः ॥
वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ।
स्रुवहस्ताय देवाय धन्विने भार्गवाय च ॥
बहुरूपाय विश्वस्य पतये मुञ्चवाससे । सहस्रशिरसे चैव सहस्रचरणाय च ।
सहस्रबाहवे चैव सहस्रवदनाय च ॥
शरणं गच्छ कौन्तेय वरदं भुवनेश्वरम् ।
उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ॥
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ।
कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥
वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ।
वृषाङ्गं वृषभोदारं वृषभं वृषभेक्षणम् ॥
वृषायुधं वृषशरं वृषभूतं वृषेश्वरम् ।
महोदरं महाकायं द्वीपिचर्मनिवासिनम् ॥
लोकेशं वरदं पुण्यं ब्रह्मण्यं ब्राह्मणप्रियम् ।
त्रिशूलपाणिं वरदं खङ्गचर्मधरं प्रभुम् ॥
पिनाकिनं खङ्घधरं लोकानां पतिमीश्वरम् ।
प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ॥
नमस्तस्मै सुरेशाय गणानां पतये नमः ।
सुवाससे नमस्तुभ्यं सुव्रताय सुधन्विने ॥
धनुर्धराय देवाय प्रियधन्वाय धन्विने ।
धन्वन्तराय धनुषे धन्वाचार्याय ते नमः ॥
उग्रायुधाय देवाय नमः सुरवराय च ।
नमोस्तु बहुरूपाय नमोस्तु बहुधन्विने ॥
नमोस्तु स्थाणवे नित्यं नमस्तस्मै तपस्विने । नमोस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ।
वनस्पतीनां पतये नराणां पतये नमः ।
मातॄणां पतये चैव गणानां पतये नमः ॥
गवां च पतये नित्यं यज्ञानां पतये नमः ।
अपां च पतये नित्यं देवानां पतये नमः ॥
पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च ।
नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ॥
कर्माणि यानि दिव्यानि महादेवस्य धीमतः ।
तानि ते कीर्तयिष्यामि तथाप्रज्ञं यथाश्रुतम् ॥
न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः ।
सुखमेधन्ति कुपिते तस्मिन्नपि गुरागताः ॥
दक्षस्य यजमानस्य विधिवत्संभृतं पुरा । विव्याध कुपितो यज्ञं निर्दयस्त्वभवत्तदा ।
धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥
तेन शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा । विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ॥
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः ।
बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ॥
आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा ।
पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ॥
अन्धेन तमसा लोका न प्राकाशन्त संवृताः ।
जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ॥
चुक्षुभुर्भयभीताश्च शान्तिं चक्रुस्तथैव च ।
ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ॥
पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव ।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥
ततो निश्चक्रमुर्देवा वेपमाना भयार्दिताः ॥
पुनश्च सन्दधे दीप्तान्देवानां निशिताञ्शरान् ।
सधूमान्सस्फुलिङ्गांश्च विद्युत्तोयदसन्निभान् ॥
तं दृष्ट्वा तु सुराः सर्वे प्रणिपत्य महेश्वरम् ।
रुद्रस्य यज्ञभागं च विशिष्टं ते त्वकल्पयन् ॥
भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे । तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा ।
भग्नाश्चापि सुरा आसन्भीताश्चाद्यापि तं प्रति ॥
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि ।
आयसं राजतं चैव सौवर्णं परमं महत् ॥
सौवर्णं कमलाक्षस्य तारकाक्षस्य राजतम् । तृतीयं तु पुरं तेषां विद्युन्मालिन आयसम् ।
न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि ॥
अथ सर्वे सुरा रुद्रं जग्मुः शरणमर्दिताः ।
ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः ॥
ब्रह्मदत्तवरा ह्येते घोरास्त्रिपुरवासिनः ।
पीडयन्त्यधिकं लोकं यस्मात्ते वरदर्पिताः ॥
त्वदृते देवदेवेश नान्यः शक्तः कथञ्चन ।
हन्तुं दैत्यान्महादेव जहि तांस्त्वं सुरद्विपः ॥
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ।
निपातयिष्यसे चैतानसुरान्भुवनेश्वर ॥
स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया ।
गन्धमादनविन्ध्यौ च कृत्वा वंशध्वजौ हरः ॥
पृथ्वीं ससागरवनां रथं कृत्वा तु शङ्करः ।
अक्षं कृत्वा तु नागेन्द्रं शेषं नाम त्रिलोचनः ॥
चक्रे कृत्वा तु चन्द्रार्कौ देवदेवः पिनाकधृत् ।
अणी कृत्वैलपत्रं च पुष्पदन्तं च त्र्यम्बकः ॥
यूपं कृत्वा तु मलयमवनाहं च तक्षकम् ॥
योक्त्राङ्गानि च सत्वानि कृत्वा शर्वः प्रतापवान् ।
वेदान्कृत्वाऽथ चतुरश्चतुरश्वान्महेश्वरः ॥
उपदेवान्खलीनांश्च कृत्वा लोकत्रयेश्वरः ।
गायत्रीं प्रग्रहं कृत्वा सावित्रीं च महेश्वरः ॥
कृत्वोंकारं प्रतोदं च ब्रह्माणं चैव सारथिम् ।
गाण्डीवं मन्दरं कृत्वा गुणं कृत्वा तु वासुकिम् ॥
विष्णुं शरोत्तमं कृत्वा शल्यमग्निं तथैव च ।
वायुं कृत्वाऽथ वाजाभ्यां पुङ्खे वैवस्वतं यमम् ॥
विद्युत्कृत्वाऽथ निश्राणं मेरुं कृत्वाऽथ वै ध्वजम् ।
आरुह्य स रथं दिव्यं सर्वदेवमयं शिवः ॥
त्रिपुरस्य वधार्थाय स्थाणुः प्रहरतां वरः ।
असुराणामन्तकरः श्रीमानतुलविक्रमः ॥
स्तूयमानः सुरैः पार्थ ऋषिभिश्च तपोधनैः । स्थानं माहेश्वरं कृत्वा दिव्यमप्रतिमं प्रभुः ।
अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ॥
यदा त्रीणि समेतानि अन्तरिक्षे पुराणि च ।
त्रिपर्वणा त्रिशल्येन तदा तानि बिभेद सः ॥
पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् ।
शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ॥
पुराणि दग्धवन्तं तं देवी याता प्रवीक्षितुम् ।
`देव्याः स्वयंवरे वृत्तं शृणुष्वान्यद्धनञ्जय' ॥
बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः ।
उमा जिज्ञासमाना वै कोयमित्यब्रवीत्सुरान् ॥
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः । बाहुं सवज्रं तं तस्य क्रुद्धस्यास्तम्भयत्प्रभुः ।
[प्रहस्य* भगवांस्तूर्णं सर्वलोकेश्वरो विभुः ॥
ततः स स्तम्भितभुजः शक्रो देवगणैर्वृतः ।
जगाम ससुरस्तूर्णं ब्रह्माणं प्रभुमव्ययम् ॥
ते तं प्रणम्य शिरसा प्रोचुः प्राञ्जलयस्तदा ॥
किमप्यङ्कगतं ब्रह्मन्पार्वत्या भूतमद्भुतम् ।
बालरूपधरं दृष्ट्वा नास्माभिरभिलक्षितः ॥
तस्मात्त्वां प्रष्टुमिच्छामो निर्जिता येन वै वयम् ।
अयुध्यता हि बालेन लीलया सपुरंदराः ॥
तेषां तद्वचनं श्रुत्वा ब्रह्मा ब्रह्मविदां वरः । ध्यात्वा स शंभुं भगवान्बालं चामिततेजसम् ।
उवाच भगवान्ब्रह्मा शक्रादींश्च सुरोत्तमान् ॥
चराचरस्य जगतः प्रभुः स भगवान्हरः ।
तस्मात्परतरं नान्यत्किञ्चिदस्ति महेश्वरात् ॥
यो दृष्टो ह्युमया सार्धं युष्माभिरमितद्युतिः ।
स पार्वत्याः कृते शर्वः कृतवान्बालरूपताम् ॥
ते मया सहिता यूयं प्रापद्यध्वं तमेव हि] ।
स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ॥
न सम्बबुधिरे चैनं देवास्तं भुवनेश्वरम् ।
सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ॥
अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा स च महेश्वरम् ।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ॥
[ब्रह्मोवाच ।
त्वं यज्ञो भुनस्यास्य त्वं गतिस्त्वं परायणम् ।
त्वं भवस्त्वं महादेवस्त्वं धाम परमं पदम् ॥
त्वया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम् ॥
भगवन्भूतभव्येश लोकनाथ जगत्पते ।
प्रसादं कुरु शक्रस्य त्वया क्रोधार्दितस्य वै ॥
व्यास उवाच ।
पद्मयोनिवचः श्रुत्वा ततः प्रीतो महेश्वरः प्रसादाभिमुखो भूत्वा अट्टहासमथाकरोत् ॥]
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः ।
अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ॥
तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः ।
देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ॥
स वै रुद्रः स च शिवः सोऽग्निः सर्वश्च सर्ववित् ।
स चेन्द्रश्चैव वायुश्च सोऽश्विनौ च स विद्युतः ॥
स भवः स च पर्जन्यो महादेवः सनातनः ।
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ॥
स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि तु ।
मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ॥
धाता च स विधाता च विश्वात्मा विश्वकर्मकृत् ।
सर्वामां देवतानां च धारयत्यवपुर्वपुः ॥
सर्वदेवैः स्तुतो देवः सैकधा बहुधा च सः ।
शतधा सहस्रधा चैव भूयः शतसहस्रधाः ॥
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः ।
घोरा चान्या शिवा चान्या ते तनू बहुधा पुनः ॥
घोरा तु यातुधानस्य सोऽग्निर्विष्णुः स भास्करः ।
सौम्यातु पुनरेवास्य आपो ज्योतींषि चन्द्रमाः ॥
वेदाः साङ्गोपनिषदः पुराणाध्यात्मनिश्चयाः । यदत्र परमं गुह्यं स वै देवो महेश्वरः ॥
ईदृशश्च महादेवो भूयांश्च भगवानजः ।
न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ॥
1
अपि वर्षसहस्रेण सततं पाण़्डुनन्दन ।
सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् ॥
स मोचयति सुप्रीतः शरण्यः शरणागतान् ।
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ॥
स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ।
सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते ॥
स चैव वेत्ति लोकेषु मनुष्याणां शुभाशुभे ।
ऐश्वर्याच्चैव कामानामीश्वरश्च स उच्यते ॥
महेश्वरश्च महतां भूतानामीश्वरश्च सः ।
बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् ॥
तस्य देवस्य यद्वक्त्रं समुद्रे तदधिष्ठितम् ।
ब़डबामुखेति विख्यातं पिबत्तोयमयं हविः ॥
एष चैव श्मशानेषु देवो वसति नित्यशः ।
यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ॥
अस्य दीप्तानि रूपाणि घोराणि च बहूनि च ।
लोके यान्यस्य पूज्यन्ते मनुष्याः प्रवदन्ति च ॥
नामधेयानि लोकेषु बहून्यस्य यथार्थवत् ।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मणस्तथा ॥
वेदे चास्य समाम्नातं शतरुद्रियमुत्तमम् ।
नाम्ना चानन्तरुद्रेति ह्युपस्थानं महात्मनः ॥
स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः ।
स विभुः स प्रभुर्देवोविश्वं व्याप्नोति वै महत् ॥
ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मनुयस्तथा ।
प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः ।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥
दिव्यं च ब्रह्मचर्येण लिङ्गमस्य यथास्थितम् ।
महयत्येष लोकांश्च महेश्वर इति स्मृतः ॥
ऋषयश्चैव देवाश्च गन्धर्वाप्यरसस्तथा ।
लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ॥
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः ।
सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ॥
यदस्य बहुधा रूपं भूतभव्यभवस्थितम् ।
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ॥
एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा ।
क्रोधाद्यश्चाविशल्लोकांस्तस्मात्सर्व इति स्मृतः ॥
धूम्ररूपं च यत्तस्य धूर्जटिस्तेन चोच्यते ।
विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ॥
तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः ।
द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥
समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु ।
शिवमिच्छन्मनुष्याणां तस्मादेष शिवः स्मृतः ॥
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा ।
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥
महत्पूर्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् ।
स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ॥
[सूर्याचन्द्रमसोर्लोके प्रकाशन्ते रुचश्च याः ।
ताः केशसंज्ञितास्त्र्यक्षे व्योमकेशस्ततः स्मृतः ॥
भूतं भव्यं भविष्यं च सर्वं जगदशेषतः ।
भव एव ततो यस्माद्भूतभव्यभवोद्भवः ॥
कपिः श्रेष्ठ इति प्रोक्तो धर्मश्च वृष उच्यते ।
स देवदेवो भगवान्कीर्त्यतेऽतो वृषाकपिः ॥
ब्रह्माणमिन्द्रं वरुणं यमं धनदमेव च ।
निगृह्य हरते यस्मात्तस्माद्वर इति स्मृतः ॥
निमीलिताभ्यां नेत्राभ्यां बलाद्देवो महेश्वरः । ललाटे नेत्रमसृजत्तेन त्र्यक्षः स उच्यते ॥]
विषमस्थः शरीरेषु समश्च प्राणिनामिह ।
स वायुर्विषमस्थेषु प्राणोऽपानः शरीरिषु ॥
पूजयेद्विग्रहं यस्तु लिङ्गं चापि महात्मनः ।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥
ऊरुभ्यामर्धमाग्नेयं सोमोऽर्धं च शिवा तनुः ।
आत्मनोऽर्धं तथा चाग्निः सोमोर्धं पुनरुच्यते ॥
तैजसी महती दीप्ता देवेभ्योऽस्य शिवा तनुः ।
भास्वती मानुषेष्वस्य तनुर्घोराऽग्निरुच्यते ॥
ब्रह्मचर्यं चरत्येष शिवा याऽस्य तनुस्तया ।
याऽस्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥
एष देवो महादेवो योऽसौ पार्थ तवाग्रतः ।
सङ्ग्रामे शास्त्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृत ॥
सिन्धुराजवधार्थाय प्रतिज्ञाते त्वयाऽनघ ।
कृष्णेन दर्शितः स्वप्ने यस्तु शैलेन्द्रमूर्धनि ॥
एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः ।
येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ॥
धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् । देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ।
सर्वार्थसाधनं पुण्यं सर्वकिल्बिषनाशनम् ।
सर्वपापप्रशमनं सर्वदुःखभयापहम् ॥
चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा ।
विजित्य शत्रून्सर्वान्स रुद्रलोके महीयते ॥
चरितं महात्मनो नित्यं साङ्ग्रामिकमिदं स्मृतम् ।
पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ॥
भक्तो विश्वेश्वरं देवं मानुषेषु च यः सदा ।
वरान्कामान्स लभते प्रसन्ने त्र्यम्बके नरः ॥
गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः ।
गस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जनार्दनः ॥
सञ्जय उवाच ।
एवमुक्त्वाऽर्जुनं सङ्ख्ये पराशरसुतस्तदा ।
जगाम भरतश्रेष्ठ यथागतमरिन्दम ॥
`वेशंपायन उवाच ।
एतदाख्याय वै सूतो राज्ञः सर्वं तु सञ्जयः ।
प्रयातः शिबिरायैव द्रष्टुं कर्णस्य वैशसम् ॥
युद्धं कृत्वा महद्धोरं पञ्चाहानि महाबलः ।
ब्राह्मणो निहतो राजन्ब्रह्मलोकमवाप्तवान् ॥
स्वधीते यत्फलं वेदे तदस्मिन्नपि पर्वणि ।
क्षत्रियाणामभीरूणां युक्तमत्र महद्यशः ॥
य इदं पठते पर्व शृणुयाद्वाऽपि नित्यशः ।
स मुच्यते महापापैः कृतैर्घोरैश्च कर्मभिः ॥
यज्ञावाप्तिर्ब्राह्मणस्येह नित्यं घोरे युद्धे क्षत्रियाणां यशश्च ।
शेषौ वर्णौ काममिष्टं लभेते पुत्रान्पौत्रान्नित्यमिष्टांस्तथैव ॥ ॥

इति श्रीमन्महाभारते शतसाहस्यां संहितायां वैयासिक्यां द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि त्र्यधिकद्विशततमोऽध्यायः ॥ 203 ॥ समाप्तं नारायणास्त्रमोक्षपर्व ॥ 8 ॥ द्रोणपर्व च समाप्तम् ॥ 7 ॥

7-203-3 यदृच्छया ॥ 7-203-11 जटिलं शिखिनमिति रुपभेदाभिप्रायेण विशेषणद्वयं योज्यम् ॥ 7-203-12 जगत्प्रीतिं जगदानन्दकरम् ॥ 7-203-13 जगद्योनिं जगद्बीजमिति जगतां मातापितृरूपम् ॥ 7-203-14 विश्वनरं विश्वस्य नेतारम् । भूतस्य भव्यस्य भवस्य वर्तमानस्य चोद्भवम् ॥ 7-203-15 योगेश्वरं योगिनामीशम् । योगानां फलप्रदं वा ॥ 7-203-17 सुदुर्जयमत्यन्तं दुष्प्रापमनधिकारिभिः ॥ 7-203-51 कर्माणि चैव घोराणि महादेवस्य धन्विनः इति क.ख.पाठः ॥ 7-203-52 गुहागताः पातालगता अपीत्यर्थः ॥ 7-203-57 तमसा संवृता न प्राकाशन्त न प्राज्ञायन्त ॥ 7-203-58 चक्रुर्ऋषय इति सम्बन्धः ॥ 7-203-59 पूषाणं पूषणम् ॥ 7-203-60 नताः स्म ते इति पाठे नता लीनाः सन्तो निश्चक्रमुर्यज्ञदेशादपक्रान्ताः ॥ 7-203-61 देवानां लीनानामपि वधायेति शेषः ॥ 7-203-63 अतिकोपेन अतिक्रान्तकोपेन शान्तेनेत्यर्थः । ततः प्रभृति पूर्वं भग्नाः सन्तोऽद्यापि भीताः सन्तीत्यर्थः ॥ 7-203-70 वंशध्वजौ अल्पौ ध्वजौ पार्श्वद्वयस्थौ । महाध्वजस्तु मेरुरिति वक्ष्यते ॥ 7-203-72 अणी युगान्तबन्धने द्वौ नागौ ॥ 7-203-73 यूपं युगम् । अवनाहं त्रिवेणुयुगबन्धनरज्जुम् ॥ 7-203-74 योक्त्राणि । अङ्गानि चाकर्षादीनि । सत्वानि सरीसृपपर्वतादीनि च ॥ 7-203-75 उपवेदान् आयुर्वेदधनुर्वेदगान्धर्ववेदपश्चिमाम्नायान् । खलीनान् खडियाळीति प्रसिद्धान् । गायत्रीसावित्र्यौ प्रग्रहं रश्मीन् ॥ 7-203-77 वाजाभ्यां पक्षाभ्यां पक्षयोरित्यर्थः ॥ 7-203-78 विद्युत् विद्युतम् । निश्राणं निशितम् ॥ 7-203-80 स्थानं स्थीयतेस्मिन्निति योगाद्व्यूहम् । स्थाणुरचलः ॥ 7-203-81 समेतानि समसूत्रगतानि । त्रिपर्वणा त्रीणि विष्णुवायुवैवस्वताख्यानि शरपक्षपुङ्खरूपाणि पर्वाणि यस्य तेन । त्रिशल्येन गार्हपत्यदक्षिणाग्न्याहवनीयरूपाऽग्नित्रयशल्येन ॥ 7-203-96 गतिः पालकः । परायणं लयस्थानम् । भव उत्पत्तिकारणम् ॥ 7-203-98 ईशः शिक्षकः । नाथः नायकः । पतिः पालकः ॥ 7-203-120 शतरुद्रियं नमस्ते रुद्र मन्यव इति याजुषः प्रपाठकः । उपस्थानं रुद्रोपस्थानमन्त्रभूतम् ॥ 7-203-121 कामानां दिव्यानां मानुषाणां च स प्रभुर्दाता । विभुर्व्यापकः ॥ 7-203-203 त्र्यधिकद्विशततमोऽध्यायः ॥

  1. Numbering changed here, check in edition.