अध्यायः 017

संशप्तकैराहूतस्यार्जुनस्य युधिष्ठिररक्षणे सत्यजितं नियोज्य तान्प्रति युद्धाय गमनम् ॥ 1 ॥

सञ्जय उवाच ।
ते सेने शिबिरं गत्वा न्यविशेतां विशाम्पते ।
यथाभागं यथान्यायं यथागुल्मं च सर्वशः ॥
कृत्वाऽवहारं सैन्यानां द्रोणः परमदुर्मनाः ।
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् ॥
उक्तमेतन्मया पूर्वं न तिष्ठति धन्जये ।
शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः ॥
इति तद्वः प्रयततां कृतं पार्थेन संयुगे ।
मा विशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ ॥
अपनीते तु योगेन केनचिच्छ्वेतवाहने ।
तत एष्यति ते राजन्वशमेष युधिष्ठिरः ॥
कश्चिदाहूय तं सङ्ख्ये देशमन्यं प्रकर्षतु ।
तमजित्वा न कौन्तेयो निवर्तेत कथञ्चन ॥
एतस्मिन्नन्तरे शून्येधर्मराजमहं नृप ।
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः ॥
अर्जुनेन परित्यक्तो न चेत्त्रासात्पलायते ।
मामुपायान्तमालोक्य गृहीतं विद्धि पाण्डवम् ॥
एवं तेऽहं महाराज धर्मपुत्रं युधिष्ठिरम् ।
समानेष्यामि सगणं वशमद्य न संशयः ॥
यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः ।
अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते ॥
सञ्जय उवाच ।
द्रोणस्य तद्वचः श्रुत्वा त्रिगर्ताधिपतिस्तदा ।
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् ॥
वयं विनिकृता राजन्सदा गाण्डीवधन्वना ।
अनागःस्वपि चागस्तत्कृतमस्मासु तेन वै ॥
ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् ।
क्रोधाग्निना दह्यमाना ह्यशेमहि सदा निशि ॥
स नो दिष्ट्याऽस्त्रसम्पन्नश्चक्षुर्विषयमागतः ।
कर्तारः स्मरयं कर्म यच्चिकीर्षाम हृद्गतम् ॥
भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् ।
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः ॥
अद्यास्त्वनर्जुना भूमिरत्रिगर्ताऽवा पुनः ।
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति ॥
एवं सत्यरथश्चोक्त्वा सत्यवर्मा च भारत ।
सत्यव्रतश्च सत्येषुः सत्यकर्मा तथैव च ॥
सहिता भ्रातरः पञ्च रथानामयुतेन च ।
न्यवर्तन्त महाराज कृत्वा शपथमाहवे ॥
मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः ।
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः ॥
मावेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि ।
रथानामयुतेनैव सोऽगमद्धातृभिः सह ॥
नानाजनपदेभ्यश्च रथानामयुतं पुनः ।
समुत्थितं विशिष्टानां शपथार्थमुपागमत् ॥
ततो ज्वलनमानर्च्य हुत्वा सर्वे पृथक्पृथक् ।
जगृहुः कुशचीराणि चित्राणि कवचानि च ॥
ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः ।
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः ॥
यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः ।
योक्ष्यमाणास्तदाऽऽत्मानं यशसा विजयेन च ॥
ब्रह्मचर्युश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः ।
प्राप्याँल्लोकान्सुयुद्धेन क्षिप्रमेव यियासवः ॥
ब्राह्ममांस्तर्पयित्वा च निष्कान्दत्वा पृथक्पृथक् ।
गाश्च वासांसि च पुनः समाभाष्य परस्परम् ॥
`द्विजमुख्यैः समुदितैः कृतस्वस्त्ययनाशिषः ।
मुदिताश्च प्रहृष्टाश्च जलं संस्पृश्य निर्मलम्' ॥
प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणव्रतम् ।
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः ॥
शृण्वतां सर्वभूतानामुच्चैर्वाचो बभाषिरे । सर्वे धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे ।
ये वै लोकाश्चाव्रतिनां ये चैव ब्रह्मघातिनाम् ।
मद्यपस्य च ये लोका गुरुदाररतस्य च ॥
ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः ।
शरणागतं च त्यजतो याचमानं तथा घ्नतः ॥
अगारदाहिनां चैव ये च गां निघ्नतामपि ।
अपकारिणां च ये लोका ये च ब्रह्मद्विषामपि ॥
स्वभार्यामृतुकालेषु मोहाद्वै नाभिगच्छताम् ।
श्राद्धमैथुनिकानां च ये चाप्यात्मापहारिणाम् ॥
न्यासापहारिणां ये च श्रुतं नाशयतां च ये ।
क्लीबने युध्यमानानां ये च नीचानुसारिणाम् ॥
नास्तिकानां च ये लोका येऽग्निमातृपितृत्यजाम् ।
तानाप्नुयामहे लोकान्ये च पापकृतामपि ॥
यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम् ।
तेन चाभ्यर्दितास्त्रासाद्भवेमहि पराङ्मुखाः ॥
यदि त्वसुकरं लोके कर्म कुर्याम संयुगे ।
इष्टाँल्लोकान्प्राप्नुयामो वयमद्य न संशयः ॥
एवमुक्त्वा तदा राजंस्तेऽभ्यवर्तन्त संयुगे ।
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति ॥
आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्चयः ।
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् ॥
आहूतो न निवर्तेयमिति मे व्रतमाहितम् ।
संशप्तकाश्च मां राजन्नाह्वयन्ति महामृधे ॥
एष च भ्रातृभिः सार्धं सुशर्माऽऽह्वयते रणे ।
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि ॥
नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ ।
सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि ॥
युधिष्ठिर उवाच ।
श्रुतं ते तत्त्वतस्तात यद्द्रोणस्य चिकीर्षितम् ।
यथा तदनृतं तस्य भवेतत्त्वं समाचर ॥
द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः ।
प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ ॥
अर्जुन उवाच ।
अयं वै सत्यजिद्राजन्नद्य त्वां रक्षिता युधि ।
ध्रियमाणे च पाञ्चाल्ये नाचार्यः काममाप्स्यति ॥
हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो ।
सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन ॥
सञ्जय उवाच ।
अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः ।
प्रेम्णा दृष्टश्च बहुधा ह्याशिषश्चास्य योजिताः ॥
विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली ।
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव ॥
ततो दौर्योधनं सैन्यं मुदा परमया युतम् ।
ऋतेऽर्जुनं भृशं क्रुद्धं धर्मराजस्य निग्रहे ॥
ततोऽन्योन्येन ते सैन्ये समाजग्मतुरोजसा ।
गङ्गासरय्वौ वेगेन प्रावृषीवोल्बणोदके ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

5-17-5 योगेन उपायेन ॥ 5-17-24 लोक्याः पुण्यलोकार्हाः ॥ 5-17-25 ब्रह्मचर्यं वेदव्रताचरणम् । श्रुतिर्वेदाध्ययनं ते एव मुखं प्रधानं येषु तैः । कर्मभिरिति शेषः ॥ 5-17-33 आत्मापहारिणां स्वजातिगोपकानाम् ॥ 5-17-34 श्रुतं प्रतिज्ञातम् ॥ 5-17-39 अपदान्तरमव्यवहितम् ॥ 5-17-17 सप्तदशोऽध्यायः ॥

श्रीः