अध्यायः 018

अर्जुनस्य संशप्तकैः सह युद्धम् ॥ 1 ॥

सञ्जय उवाच ।
ततः संशप्तका राजन्समे देशे व्यवस्थिताः ।
व्यूढानीकै रथैरेव चन्द्रार्धाख्यैर्मुदा युताः ॥
ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष । `अतीव सम्प्रहृष्टास्ते ह्युपलक्ष्य धनञ्जयम्' ।
उदक्रोशन्नरव्याघ्राः शब्देन महता तदा ॥
स दिशः प्रदिशः सर्वा नभश्चैव समावृणोत् ।
आवृतत्वाच लोकस्य नासीत्तत्र प्रतिस्वनः ॥
सोऽतीव संप्रहृष्टांस्तानुपलभ्य धनञ्जयः ।
किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् ॥
देवकीपुत्र पश्येमान्मुमूर्षूनद्य संयुगे ।
भ्रातॄंस्त्रैगर्तकानेतान्रोदितव्ये प्रहर्षितान् ॥
अथवा हर्षकालोऽयं त्रैगर्तानामसंशयम् । कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्ति संयुगे ।
`मया हता हिं सङ्ग्रामे लोकान्प्राप्स्यन्ति पुष्कलान्' एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः । आससाद रणे व्यूढां त्रिगर्तानामनीकिनीम् ॥
स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् ।
दध्मौ वेगेन महता घोषेणापूरयन्दिशः ॥
तेन शब्देन वित्रस्ता संशप्तकवरूथिनी ।
विचेष्टाऽवस्थिता सङ्ख्ये ह्यश्मसारमयी यथा ॥
`सा सेना भरतश्रेष्ठ निश्चेष्टा शुशुभे तदा ।
चित्रे पटे यथा न्यस्ता कुशलैः शिल्पिभिर्नरैः ॥
स्वनेन तेन सैन्यानां दिवमावृण्वता तदा । सस्वना पृथिवी सर्वा तथैव च महोदधिः ।
स्वनेन तेन सैन्यानां कर्णास्तु बधिरीकृताः' ॥
वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः । विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः ।
`ततो व्युपारमच्छब्दः प्रहृष्टास्ते ततोऽभवन्' ॥
उपलभ्य ततः संज्ञामवस्थाप्य च वाहिनीम् ।
युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः ॥
तानर्जुनः सहस्राणि दशपञ्चभिराशुगैः ।
अनागतानेव शरैश्चिच्छेदाशु पराक्रमी ॥
ततो़र्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः ।
प्राविध्यन्त ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः ॥
एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः ।
स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी ॥
भूय एव तु सङ्क्रुद्धास्त्वर्जुनं सहकेशवम् ।
आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः ॥
ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति ।
भ्रमराणामिव व्राताः फुल्लं द्रुमगणं वने ॥
ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैः शरैः ।
अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् ॥
तैः किरीटि किरीटस्थैर्हेमपुङ्खैरजिह्मगैः ।
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥
हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः ।
चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् ॥
ततः सुशर्मा दशभिः सुरथस्तु किरीटिनम् ।
सुधर्मा सुधनुश्चैव सुबाहुश्च समार्पयत् ॥
तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः ।
प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद सायकान् ॥
सुधन्वनो धनुश्छित्त्वा हयांश्चास्यावधीच्छरैः ।
अथास्य सशिरस्त्राणं शिरः कायादपातयत् ॥
`जहार पार्थः सैन्येषु सहस्रे द्वे च योधिनाम्' ।
तस्मिन्निपतिते वीरे त्रस्तास्तस्य पदानुगाः ॥
`भूयिष्ठं प्रतिरुद्धा ये हतैर्योधैर्यशस्विनः' ।
व्यद्रवन्त भयाद्भीता यत्र दौर्योधनं बलम् ॥
ततो जघानं सङ्क्रुद्धो वासविस्तां महाचमूम् ।
शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः ॥
ततो भग्ने बले तस्मिन्विप्रलीने समन्ततः ।
सव्यसाचिनि सङ्क्रुद्वे त्रैगर्तान्भयमाविशत् ॥
ते वध्यमानाः पार्थेन शरैः सन्नतपर्वभिः ।
अमुह्यंस्तत्रतत्रैव त्रस्ता मृगगणा इव ॥
ततस्त्रिगर्तराट् क्रुद्धस्तानुवाच महारथान् ।
अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ ॥
शप्त्वाऽथ शपथान्घोरान्सर्वसैन्यस्य पश्यतः । गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यशः ।
नावहास्याः कथं लोके कर्मणाऽनेन संयुगे ।
भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् ॥
एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः ।
शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् ॥
ततस्ते सन्न्यवर्तन्तं संशप्तकगणाः पुनः ।
नारायणाश्च गोपाला मृत्युं कृत्वाऽनिवर्तनम् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥

5-18-1 व्युह्यानीकं रथैरेव चन्द्राकारं मुदा युताः इति झ पाठः ॥ 5-18-18 अष्टादशोऽध्यायः ॥

श्रीः