अध्यायः 019
अर्जुनस्य संशप्तकैः सह युद्धम् ॥ 1 ॥
सञ्च उवाच ।
दृष्टा तु सन्निवृत्तांस्तान्संशप्तकगणान्पुनः ।
वासुदेवं महात्मानमर्जुनः समभाषत ॥
चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति ।
नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः ॥
पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च ।
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥
सञ्जय उवाच ।
ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम् ।
प्रावेशयत दुर्धर्षो यत्रयत्रैच्छदर्जुनः ॥
स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा ।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥
मण्डलानि ततश्चक्रे गतप्रत्यागतानि चे ।
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥
अथ नारायणाः क्रुद्धा विविधायुधपाणयः ।
छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम् ॥
अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ ।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम् ॥
क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः ।
गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे ॥
बद्ध्वा च भ्रुकुटिं वक्त्रे क्रोधस्य प्रतिलक्षणम् ।
देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥
अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ।
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥
अर्जुनप्रतिरूपैस्तैर्नानारूपैर्विमोहिताः ।
अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥
अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ ।
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ॥
`अन्योन्यं समरे जघ्नुस्तावका भरतर्षभ' ।
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् ॥
`रुधिरोक्षितगात्रास्ते प्रेक्षमाणः परस्परम्' ।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥
`रुधिरोत्पीडनास्ते तु रुधिरेण समुक्षिताः ।
चन्दनस्य रसेनेव व्यभ्राजन्त रणाजिरे ॥
ततः प्रसह्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः ।
न्यहनत्ताञ्छरैस्तीक्ष्णैस्तमः सूर्य इवांशुभिः ॥
हतावशिष्टास्ते भूयः परिवार्य धनञ्जयम् ।
साश्वध्वजरथं चक्रुरदृश्यं शरवृष्टिभिः' ॥
ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् ।
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥
अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि ।
मावेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥
ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः ।
व्यसृजञ्छरजालानि पार्थे नानाविधानि च ॥
न ध्वजो नार्जुनस्तत्र न रथो न च केशवः ।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥
ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः ।
हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा ॥
भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः ।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥
ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् ।
क्वासि पार्थ न पश्यामि कच्चिज्जीवसि शत्रुहन् ॥
तस्य तद्भाषितं श्रुत्वा त्वरमाणो धनञ्जयः ।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥
ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् ।
उवाह भगवान्वायुः शुष्कपर्मचयानिव ॥
उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना ।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥
तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः ।
जघान निशितैर्बाणैः सहस्राणि शतानि च ॥
शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् ।
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥
पृष्ठच्छिन्नान्विचरणान्विमस्तकदृगङ्गुलीन् ।
नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः ॥
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥
मुण्डतालवनानीव तत्रतत्र चकाशिरे ।
छिन्ना रथध्वजव्राताः केचित्तत्र क्वचित्क्वचित् ॥
सोत्तरायुधिनो नागाः सपताकाङ्कुशध्वजाः ।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥
चामरापीडकवचाः स्रस्तान्त्रनयनास्तथा ।
सारोहास्तुरगाः पेतुः पार्तबाणहताः क्षितौ ॥
विप्रविद्धासिनाराचाश्छिन्नवर्मर्ष्टिशक्तयः ।
पत्तयश्चिन्नवर्माणः कृपणाः शेरते हताः ॥
तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि ।
भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ ॥
रजश्च चाप्यभवद्दुर्गा कबन्धशतसङ्कुला ॥
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे ।
आक्रीडमिव रुद्रस्य घ्नतः कालात्यये पशून् ॥
कते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः ।
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ॥
सा भूमीर्भरतश्रेष्ठ निहतैस्तैर्महारथैः ।
आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः ॥
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि ।
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ॥
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः ।
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ॥ ॥
इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकोनविंशोऽध्यायः ॥ 19 ॥
5-19-34 सोत्तरायुधिनः उपरिगतैर्योधैः सहिताः ॥ 5-19-19 एकोनविंशोऽध्यायः ॥
श्रीः