अध्यायः 021

युधिष्ठिरं जिघृक्षतो द्रोणस्य सत्यजिता निराधः ॥ 1 ॥ द्रोणेन सत्यजिति निहते भयाद्युधिष्ठिरस्यापयानम् ॥ 2 ॥ पुनर्युधिष्ठिरं जिघृक्षुणा द्रोणेन पाञ्चाल्यादीनां हननम् ॥ 3 ॥

सञ्जय उवाच ।
ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् ।
महता शरवर्षेण प्रत्यगृह्णादभीतवत् ॥
ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले ।
जिघृक्षति महासिंहे गजानामिव यूथपम् ॥
दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः ।
युधिष्ठिरमभिप्रेप्सुराचार्यं समुपाद्रवत् ॥
तत आचार्यपाञ्चाल्यौ युयुधाते महाबलौ ।
विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव ॥
ततो द्रोणं महेष्वासः सत्यजित्सत्यविक्रमः ।
अविध्यन्निशिताग्रेण परमास्त्रं विदर्शयन् ॥
तथास्य सारथेः पञ्च शरान्सर्पविषोपमान् ।
अमुञ्चदन्तकप्रख्यान्संमुमोहास्य सारथिः ॥
अथास्य सहसाऽविध्यद्धयान्दशभिराशुगैः ।
दशभिर्दशभिः क्रुद्ध उभौ च पार्ष्णिसारथी ॥
मण्डलं तु समावृत्य विचरन्पृतनामुखे ।
ध्वजं चिच्छेद च क्रुद्धो द्रोणस्यामित्रकर्षणः ॥
द्रोणस्तु तत्समालोक्य चरितं तस्य संयुगे ।
मनसा चिन्तयामास प्राप्तकालमरिन्दमः ॥
ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदभिः ।
अविध्यच्छीघ्रमाचार्यश्छित्त्वाऽस्य सशरं धनुः ॥
स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् ।
द्रोणमब्यहनद्राजंस्त्रिंशता कङ्कपत्रिभिः ॥
दृष्ट्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे ।
वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमार्दयत् ॥
सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् ।
चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह ॥
वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे ।
विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् ॥
द्रोणस्तु शरवर्षेण च्छाद्यमानो महारथः ।
वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी ॥
ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च ।
षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् ॥
अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् ।
साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् ॥
स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दितो मृधे ।
ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् ॥
हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी ।
अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः ॥
तथा सञ्छिद्यमानेषु कार्मुकेषु पुनःपुनः ।
पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् ॥
स सत्यजितमालोक्य तथोदीर्णं महाहवे ।
अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः ॥
तस्मिन्हते महामात्रे पाञ्चालानां महारथे ।
अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः ॥
पाञ्चालाः केकया मात्स्याश्चेदिकारूशकोसलाः ।
युधिष्ठिरमभीप्सन्तो दृष्ट्वा द्रोणमुपाद्रवन् ॥
ततो युधिष्ठिरं प्रेप्सुराचार्यः शत्रुपूगहा ।
व्यधमत्तान्यनीकानि तूलराशिमिवानलः ॥
निर्दहन्तमनीकानि तानि तानि पुनःपुनः ।
द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत ॥
सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः ।
षड्भिः ससूतं सहयं द्रोणं विद्ध्वाऽनदद्भृशम् ॥
क्रूराय कर्मणे युक्तश्चिकीर्षुः कर्म दुष्करम् ।
अवाकिरच्छरशतैर्भारद्वाजं महारथम् ॥
तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् ।
क्षुरेणापाहरत्तुर्णं ततो मत्स्याः प्रदुद्रुवुः ॥
मत्स्याञ्जित्वाऽजयच्चेदीन्करूशान्केकयानपि ।
पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनःपुनः ॥
तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् ।
दृष्ट्वा रुक्मरथं वीरं समकम्पन्त सृञ्जयाः ॥
उभाभ्यां सन्दधानस्य धनुरस्याशुकारिणः ।
ज्याघोषो निघ्नतोऽमित्रान्दिक्षुसर्वासु शुश्रुवे ॥
नागानश्वान्पदातींश्च रथिनो गजसादिनः ।
रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः ॥
नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये ।
अश्मवर्षमिवावर्षन्परेषां भयमादधत् ॥
सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव ।
बली शूरो महेष्वासो मित्राणामभयङ्करः ॥
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।
दिक्षु सर्वासु पश्यामो द्रोणस्यामिततेजसः ॥
शोभमानां ध्वजे चास्य वेदीमद्राक्ष्य भारत ।
हिमवच्छिखराकारं चरतः संयुगे भृशम् ॥
द्रोणस्तु पाण्डवानीके चकार कदनं महत् ।
यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः ॥
स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः ।
महानुभावः कल्पान्ते रौद्रां भीरुविभीषणाम् ॥
कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् ॥
गजवाजिमहाग्राहामसिमीनां दुरासदाम् ॥
वीरास्यिशर्करां रौद्रां भेरीमुरजकच्छपाम् ।
चर्मवर्मप्लवां घोरां केशशैवलशाद्वलाम् ॥
शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम् ।
रणभूमिवहां तीव्रां कुरुसृञ्जयवाहिनीम् ॥
मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् ।
उष्णीषफेनवसनां विकीर्णान्त्रसरीसृपाम् ॥
वीरापहारिणीमुग्रां मांसशोमितकर्दमाम् ।
हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् ॥
क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम् ।
द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् ॥
क्रव्यादगणसञ्जुष्टां श्वशृगालगणायुताम् ।
निषेवितां महारौद्रैः पिशिताशैः समन्ततः ॥
तं दहन्तमनीकानि रथोदारं कृतान्तवत् ।
सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः ॥
ते द्रोणं सहिताः शूराः सर्वतः प्रत्यवारयन् ।
गभस्तिभिरिवादित्यं तपन्तं भुवनं यथा ॥
तं तु शूरं महेष्वासं तावकाऽभ्युद्यतायुधाः ।
राजानो राजपुत्राश्च समन्तात्पर्यवारयन् ॥
शिखण्डी तु ततो द्रोणं पञ्चभिर्नतपर्वभिः ।
क्षत्रवर्मा च विंशत्या वसुदानश्च पञ्चभिः ॥
उत्तमौजास्त्रिभिर्बाणैः क्षत्रदेवश्च सप्तभिः ।
सात्यकिश्च शतेनाजौ युधामन्युस्तथाऽष्टभिः ॥
युधिष्ठिरो द्वादशभिर्द्रोणं विव्याध सायकैः ।
धृष्टद्युम्नश्च दशभिश्चेकितानस्त्रिभिः शरैः ॥
ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः ।
अभ्यतीत्य स्थानीकं दृढसेनमपातयत् ॥
ततो राजानमासाद्य प्रहरन्तमभीतवत् ।
अविध्यन्नवभिः क्षेमं स हतःप्रापतद्रथात् ॥
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः ।
त्राता ह्यभवदन्येषां न त्रातव्यः कथंचन ॥
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।
वसुदानं च भल्लेन प्रैषयद्यमसादनम् ॥
अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् ।
क्षत्रदेवं तु भल्लेन रथनीडाडपातयत् ॥
युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् ।
विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् ॥
ततो युधिष्ठिरः क्षिप्रं गुरुतो राजसत्तमः ।
अपायाञ्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् ॥
तं द्रोणः सधनुष्कं तु साश्वयन्तारमाक्षिणोत् । स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् ।
`हत्वा तं विबभौ द्रोणः कुरुभिः परिवारितः ॥
वार्धक्षेमिस्तु वार्ष्णेयो द्रोणं विद्ध्वा शरोत्तमैः ।
नवभिश्च महीपालः पुनर्विव्याध पञ्चभिः ॥
स सात्यकिश्चतुष्षष्ट्या राजन्विव्याध सायकैः ।
सुचित्रो दशभिर्बाणैर्द्रोणं विद्व्वाऽनदद्बली ॥
तं द्रोणः समरे राजञ्शरवर्षैरवाकिरत् ।
अपातयत्तयो द्रोणः सुचित्रं सहसारथिम् ॥
साश्वं च समरे राजन्हतो वै प्रापतत्क्षितौ ।
पात्यमानो महाराज बभौ ज्योतिरिवाम्बरात् ॥
तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे ।
हत द्रोणं हत द्रोणमित्यासीन्निःस्वनो महान् ॥
तांस्तथा भृशसंरब्धान्पाञ्चालान्मत्स्यकेकयान् ।
सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली ॥
सात्यकिं चेकितानं च धृष्टद्युम्नशिखण़्डिनौ ।
वार्धक्षेमिं चैत्रसेनिं सेनाबिन्दुं सुवर्चसम् ॥
एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् ।
सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः ॥
तावकाश्च महाराज जयं लब्ध्वा महाहवे ।
पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः ॥
ते दानवा इवेन्द्रेण वध्यमाना महात्मना ।
पाञ्चालाः केकया मात्स्याः समकम्पन्त भारत ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे एकविंशोऽध्यायः ॥ 21 ॥

5-21-55 उभयत्र विद्व्वेति शेषः ॥ 5-21-58 पाञ्चाल्यो नाम्ना ॥ 5-21-21 एकविंशोऽध्यायः ॥

श्रीः