अध्यायः 027

अर्जुनेन संशप्तकानां हननम् ॥ 1 ॥

सञ्जय उवाच ।
यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि ।
तृच्छृणुष्व महाबाहो पार्थो यदकरोद्रणे ॥
रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिःस्वनम् ।
भगदत्ते विकुर्वाणे कौन्तेयः कृष्णमब्रवीत् ॥
यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन ।
त्वरमाणोऽभिनिष्क्रान्तो ध्रुवं तस्यैष निःस्वनः ॥
इन्द्रादनवरः सङ्ख्ये गजयानविशारदः ।
प्रथमो गजघोधानां पृथिव्यामिति मे मतिः ॥
स चापि द्विरदश्रेष्ठः सदाऽप्रतिगजो युधि ।
सर्वशस्त्रातिगः सङ्ख्ये कृतकर्मा जितक्लमः ॥
सहः सस्त्रनिपातानामग्निस्पर्शस्य चानघ ।
स पाण़्डवबलं सर्वमद्यैको नाशयिष्यति ॥
`सिंहनादं महत्कृत्वा धनुर्बाणरवैः सह । विद्राव्यमाणं सम्पश्य हतभूयिष्ठनायकम् ।
दृष्ट्वा विनद्य सहसा मम सेनां प्रमृद्गति' ॥
न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् ।
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः ॥
दृप्तं सङ्ख्ये द्विपबलाद्वयसा चापि विस्मितम् ।
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् ॥
वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः ।
दीर्यते भगदत्तेन यत्र पाण्डववाहिनी ॥
तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः ।
संशप्तकाः समारोहन्सहस्राणि चतुर्दश ॥
दशैव तु सहस्राणि त्रिगर्तानां महारथाः ।
चत्वारि च सहस्राणि वासुदेवस्य चानुगाः ॥
दीर्यमाणां चमूं दृष्ट्वा भगदत्तेन मानिष ।
आहूयमानस्य च तैरभवद्धृदयं द्विधा ॥
किन्नु श्रेयस्करं कर्म भवेदद्येत्यचिन्तयत् ।
इह वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् ॥
तस्य बुद्ध्या विचार्यैवमर्जुनस्य कुरूद्वह ।
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा ॥
स सन्निवृत्तः सहसा कपिप्रवरकेतनः ।
एको रथसहस्राणि निहन्तुं वासवी रणे ॥
सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः ।
अर्जुनस्य वधोपाये या वै द्वैधमकल्पयत् ॥
स तु दोलायमानोऽबूद्द्वैधीभावेन पाण्डवः ।
वधेन तु नराग्र्याणामकरोत्तां मृषा तदा ॥
ततः शतसहस्राणि शराणां नतपर्वणाम् ।
असृजन्नर्जुने राजन्संशप्तकमहारथाः ॥
नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः ।
न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः ॥
तदा मोहमनुप्राप्तः सिष्विदे हि जनार्दनः ।
ततस्तान्प्रायशः पार्थो ब्रह्मास्त्रेण निजघ्निवान् ॥
शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः ।
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ ॥
द्रुमाचलाग्राम्बुधरैः समकायाः सुकल्पिताः ।
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः ॥
विप्रविद्धकुथा नागाश्छिन्नभाण्डाः परासवः ।
सारोहास्तु रणे पेतुर्मथिता मार्गणैर्भृशम् ॥
सर्ष्टिप्रासासिनखराः समुद्गरपरश्वथाः ।
विच्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना ॥
बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष ।
संच्छिन्नान्यर्जुनशरैः शिरांस्युर्वी प्रपेदिरे ॥
जज्वालालङ्कृता सेना पत्रिभिः प्राणिभोजनैः ।
नानारूपैस्तदाऽमित्रान्क्रुद्धेनिघ्नति फल्गुने ॥
क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव ।
धनञ्जयं भूतगणाः साधुसाध्वित्यपूजयन् ॥
दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः ।
विस्मयं परमं गत्वा प्राञ्जलिस्तमुवाच ह ॥
कर्मैतत्पार्थ शक्रेण यमेन धनदेन च ।
दुष्करं समरे यत्ते कृतमद्येति मे मतिः ॥
युगपच्चैव सङ्ग्रामे शतशोऽथ सहस्रशः ।
पतिता एव मे दृष्टाः संशप्तकमहारथाः ॥
संशप्तकांस्ततो हत्वा भूयिष्ठा ये व्यवस्थिताः ।
भगदत्ताय याहीति कृष्णं पार्थोऽभ्यनोदयत् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि संशप्तकवधपर्वणि द्वादशदिवसयुद्धे सप्तविंशोऽध्यायः ॥ 27 ॥

5-27-2 विकुर्वाणे विविधाः क्रियाः कुर्वाणे ॥ 5-27-6 सहः सोढा । पचाद्यच ॥ 5-27-9 विस्मितं रूढाहङ्कारम् ॥ 5-27-11 समारोहन्संवृतवन्तः ॥ 5-27-27 सप्तविंशोऽध्यायः ॥

श्रीः