अध्यायः 036

अभिमन्युयुद्धवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
सौभद्रस्तद्वचः श्रुत्वा धर्मराजस्य धीमतः ।
अचोदयत यन्तारं द्रोणानीकाय भारत ॥
तेन सञ्चोद्यमानस्तु याहियाहीति सारथिः ।
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः ॥
अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः ।
सम्प्रधार्य क्षणं बुद्ध्या ततस्त्वं योद्धुमर्हसि ॥
आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः ।
त्वं तु बालः स बलवान्सङ्ग्रामाणामकोविदः ॥
ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् ।
सारथे कोन्वयं द्रोणः समग्रं क्षत्रमेव वा ॥
`व्यवसायो हि मे योद्धुं रणोत्सवसमुद्यतः' ।
ऐरावतगतं शक्रं सहामरगणैरहम् ॥
अथवा रुद्रमीशानं सर्वभूतगणार्चितम् ।
योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः ॥
`यच्चैतत्पश्यसे सूत सयोधाश्वरथद्विपम्' ।
तन्ममाद्य द्विषत्सैन्यं कलामर्हति षोडशीम् ॥
अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज ।
पितरं चार्जुनं युद्धे न भीर्मामुपयास्यति ॥
सञ्जय उवाच ।
एवमप्युच्यमानः स सारथिस्तं पुनः पुनः ।
वीर ते तेन मा युद्धमिति सौभद्रमब्रवीत्' ॥
अभिमन्युश्च तां वाचं कदर्थीकृत्य सारथेः ।
याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् ॥
ततः सन्नोदयामास हयानाशु त्रिहायनान् ।
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् ॥
ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः ।
द्रोणमभ्यद्रवन्राजन्महावेगा महाबलाः ॥
तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः ।
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः ॥
सकर्णिकारप्रवरोच्छ्रितध्वजः सुवर्णवर्माऽऽर्जुनिरर्जुनाद्वरः ।
युयुत्सया द्रोणमुखान्महारथान् समासदत्सिंहशिशुर्यथा द्विपान् ॥
ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे ।
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधाविव ॥
शूराणां युध्यमानानां निघ्नतामितरेतरम् ।
सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः ॥
प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे ।
द्रोणस्य मिषतो व्यूहं भित्त्वा व्यचरदार्जुनिः ॥
`तदभेद्यमनाधृष्यं द्रोणानीकं सुदुर्जयम् ।
भित्त्वार्जुनिरसम्भ्रान्तो विवेशाचिन्त्यविक्रमः' ॥
तं प्रविष्टं विनिघ्नन्तं शत्रुसङ्घान्महाबलम् ।
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः ॥
नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः ।
हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निःस्वनैः ॥
घोरैर्हलहलाशब्दैर्मागास्तिष्ठैहि मामिति ।
असावहममित्रेति प्रवदन्तो मुहुर्मुहुः ॥
बृंहितैः शिञ्जितैर्हासैः करनेमिस्वनैरपि ।
सन्नादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् ॥
तेषामापततां वीरः शीघ्रयोधी महाबलः ।
क्षिप्रास्त्रो न्यवधीद्राजन्मर्मज्ञो मर्मभेदिभिः ॥
ते हन्यमाना विवशा नानालिङ्गैः शितैः शरैः ।
अभिपेतुः सुबहुशः शलभा इव पावकम् ॥
ततस्तेषां शरीरैश्च शरीरावयवैश्च सः ।
सन्तंस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे ॥
बद्धगोधाङ्गुलित्राणान्सशरासनसायकान् ।
सासिचर्माङ्कुशाभीषून्सतोमरपरश्वथान् ॥
सगदायोगुडप्रासान्सर्ष्टितोमरपट्टसान् ।
सभिण्डिपालपरिघान्यशक्तिवरकम्पनान् ॥
सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् ।
समुद्गरक्षेपणीयान्सपाशपरिघोपलान् ॥
सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् ।
स़ञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः ॥
तैः स्फुरद्भिर्महाराज शुशुभे भूः सुलोहितैः ।
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष ॥
सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः ।
सन्दष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु ॥
सचारुमुकुटोष्णीषैर्मणिरत्नविभूषितैः ।
विनालनलिनाकारैर्दिवाकरशशिप्रभैः ॥
हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः ।
द्विषच्छिरोभिः पृथिवीं स वै तस्तार फाल्गुनिः ॥
गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।
वीषामुखान्वित्रिवेणून्न्यस्तदण्डकबन्धुरान् ॥
विजङ्घाकूबरांस्तत्र विनेमींश्र व्यरानपि ।
विचक्रोपस्करोपस्थान्भग्नोपकरणानपि ॥
`समास्थितान्योधवरैर्दान्ताश्वान्साधुसारथीन् ।
विपताकाध्वजच्छत्रान्वितूणीरायुधानपि ॥
प्रपातितोपस्तरणान्हतयोधान्सहस्रशः ।
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत ॥
पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् ।
तूणान्वर्माण्यथो कक्ष्या ग्रैवेयांश्च सकम्बलान् ॥
घण्टाः शुण्डाविषाणाग्राञ्छत्रमालाः पदानुगान् ।
शरैर्निशितधाराग्रैः शात्रवाणामशातयत् ॥
वनायुजान्पार्वतीयान्काम्भोजानथ बाह्लिकान् ।
स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः ॥
आरूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः ।
विध्वस्तचामरमुखान्विप्रविद्धप्रकीर्णकान् ॥
निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्धनान् ।
हतारोहांश्छिन्नघण्टान्क्रव्यादगणमोदकान् ॥
निकृत्तचर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् । निपातयन्नश्ववरांस्तावकान्स व्यरोचत । एको विष्णुरिवाचिन्त्यं कृत्वा कर्म सुदुष्करम् ॥
तथा निर्माथितं तेन चतुरङ्गबलं महत् ।
यथाऽसुरबलं घोरं त्र्यम्बकेन महौजसा ॥
कृत्वा कर्म रणेऽसह्यं परैरार्जुनिराहवे ।
अभिनच्च पदात्योघांस्त्वदीयानेव सर्वशः ॥
एवमेकेन तां सेनां सौभद्रेण सितैः शरैः ।
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् ॥
त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश ।
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना रोमहर्षिणः ॥
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ।
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः ॥
हतान्पुत्रान्पितॄन्भ्रातॄन्बन्धून्सम्बन्धिनस्तथा ।
प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान् ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे षट्त्रिंशोऽध्यायः ॥ 36 ॥

5-36-16 विंशतिरिति व्यूहपर्यायः । तदुक्तं । विंशत्यङ्गतया व्यूहो विंशतिर्व्यपदिश्यते इति । विंशतेः पदे रक्षणे । पदं व्यवसितत्राणस्थानलक्ष्माङ्ग्रिवस्तुष्वित्यमरः । तं विशन्तं ततो यत्ता इति क । पाठः । ते विशन्तं मुदा युक्ता इति घ.ङ. पाठः ॥ 5-36-21 क्ष्वेडितं ध्वनिविशेषः । उत्क्रुष्टमाह्वानम् । गार्जितं हन्यन्तां हन्यन्तामिति वचः ॥ 5-36-29 कचग्रहोऽङ्कुशः ॥ 5-36-36 उपस्थो रथक्रोडः ॥ 5-36-43 यकृत्कालखण्डम् ॥ 5-36-45 व्यङ्गं तव वलं महत् इति झ.पाठः ॥ 5-36-36 षट््त्रिंशोऽध्यायः ॥

श्रीः