अध्यायः 001
शिबिराद्धास्तिनपुरमुपगतवता सञ्जयेन धृतराष्ट्रंप्रति
कर्णादिनिधनकथनम् ॥ 1 ॥ तच्छ्रवणेन मूर्च्छामुपगतवतो धृतराष्ट्रस्य
सञ्जयादिभिराश्वासनम् ॥ 2 ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
`वैशम्पायन उवाच ।
शिबिराद्धास्तिनपुरं प्राप्य भारत सञ्जयः ।
प्रविवेश महाबाहुर्धृतराष्ट्रनिवेशनम् ॥
शोकेनापहतः सूतो विलपन्भृशदुःखितः ।
चिन्तयन्निधनं घोरं सूतपुत्रस्य पाण्डवैः ॥
अन्तःपुरं प्रविश्यैव सञ्जयो राजसत्तमम् ।
अश्रुपूर्णो भृशं त्रस्तो राजानमुपजग्मिवान् ॥
उपस्थाय च राजानं विनिश्वस्य च सूतजः ।
नातिहृष्टमना राजन्निदं वचनमब्रवीत् ॥
सञ्जय उवाच ।
सञ्चयोऽहं महाराज नमस्ते भरतर्षभ ।
हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम् ॥
चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह ।
कृत्वाऽसौ कदनं शेते वातनुन्न इव द्रुमः ॥
गोष्ठमध्येव ऋषभो गोव्रजैः परिवारितः ।
व्यालेन निहतो यद्वत्तथाऽसौ निहतः परैः ॥
निराशान्पाण्डवान्कृत्वा दृढं राजन्ससात्यकान् ।
पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः ॥
जित्वा शूरान्महेष्वासान्विद्राव्य च दिशोदश ।
हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना ॥
वैरस्य गत आनृण्यं दुर्गमस्य दुरात्मभिः ।
हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत् ॥
शोषणं सागराणां वा पतनं वा विवस्वतः ।
विशीर्णत्वं यथा मेरोस्तथा कर्णस्य पातनम् ॥
योधाश्च बहवो राजन्हतास्तत्र जयैषिणः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥
रथौघाश्च नरौघाश्च हता राजन्सहस्रशः ।
वारणा निहतास्तत्र वाजिनश्च महाहवे ॥
क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः ।
परस्परं वै वीक्ष्यात्र परस्परकृतागसः ॥
किञ्चिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम् ।
पार्थवेलां समासाद्य हतो वैकर्तनो वृषा ॥
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप ।
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥
प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः ।
तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम् ॥
पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा ।
चरितान्यहितान्येव तेषां ते फलमागतम् ॥
हतो दुःशासनो राजन्यथोक्तं पाण्डवेन तु ।
प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे ॥
पीतं च क्षतजं तस्य धार्तराष्ट्रस्य संयुगे ।
पाण्डवेन महाराज कर्म कृत्वा सुदुष्करम्*' ॥
वैशम्पायन उवाच ।
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।
शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् ।
विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ॥
तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे ।
आर्तनादो महानासीत्स्त्रीणां भरतसत्तम ॥
श शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वशः ॥
शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः ।
रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः ॥
राजानं च समासाद्य गान्धारी भरतर्षभ ।
निःसंज्ञा पतिता भूमौ सर्वाण्यन्तः पुराणि च ॥
ततस्ताः स़ञ्जयो राजन्समाश्वासयदातुराः ।
मुह्यामानाः सुबहुशो मुञ्चन्तीर्वारि नेत्रजम् ॥
समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः ।
कदल्य इव वातेन धूयमानाः समन्ततः ॥
राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् ।
आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् ॥
स लब्ध्वा सनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः ।
उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते ॥
ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनःपुनः ।
स्वान्पुत्रान्गर्हयामास बहुमेने च पाण्डवान् ॥
गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च ।
ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः ॥
संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः ।
पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् ॥
न त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया ॥
कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् ।
जये निराशः पुत्रो मे सततं जयकामुकः ।
ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् ॥
वैशम्पायन उवाच ।
एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय ।
हतो वैकर्तनो राजन्सहपुत्रैर्महारथः ।
भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ॥
दुःशासनश्च निहतः पाण्डवेन यशस्विना ।
पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ॥
`वैशम्पायन उवाच ।
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः ।
दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ सञ्जय ।
व्याकुलं मे मनस्तात मा तावत्किंचिदुच्यताम् ॥
राजापि नाब्रवीत्किञ्चित्सञ्जयो विदुरस्तथा ।
तूष्णीम्भूतस्तदा सोऽथ बभूव जगतीपतिः' ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि प्रथमोऽध्यायः ॥ 1 ॥
2
अध्यायः 001
दुर्योधनादिभिः कर्णस्य सैनापत्येऽभिषेचनपूर्वकं युद्धाय
निर्याणम् ॥ 1 ॥ जनमेजयेन वैशम्पायनम्प्रति कर्णमरणश्राविणो धृतराष्ट्रस्य
प्रवृत्तिप्रश्नः ॥ 2 ॥
[नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
वैशम्पायन उवाच ।
ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः ।
भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ॥
ते द्रोणमनुशोचन्तः कश्मलाभिहतौजसः ।
पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ॥
ते मुहूर्तं समाश्वस्य हेतुभिः शास्त्रसम्मितैः ।
रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ॥
ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् ।
चिन्तयन्तः क्षयं तीव्रं दुःखशोकसमन्विताः ॥
विशेषतः सूतपुत्रो राजा चैव सुयोधनः ।
दुःशासनश्च शकुनिः सौबलश्च महाबलः ॥
उषितास्ते निशां तां तु दुर्योधननिवेशने ।
चिन्तयन्तः परिक्लेशान्पाण्डवानां महात्मनाम् ॥
यत्तद्द्यूते परिक्लिष्टा कृष्णा चानायिता सभाम् ।
तत्स्मरन्तोऽनुशोचन्तो भृशमुद्विग्नचतेतसः ॥
तथा तु सञ्चिन्तयतां तान्क्लेशान्द्यूतकारितान् ।
दुःखेन क्षणदा राजञ्जगामाब्दशतोपमा ॥
ततः प्रभाते विमले स्थिता दिष्टस्य शासने ।
चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा ॥
ते कृत्वाऽवश्यकार्याणि समाश्वस्य च भारत ।
योगमाज्ञापयामासुर्युद्वाय च विनिर्ययुः ॥
कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः ।
पूजयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः ॥
गोभिरश्वैश्च निष्कैश्च वासोभिश्च महाधनैः ।
वन्द्यमाना जयाशीर्भिः सूतमागधबन्दिभिः ॥
तथैव पाण्डवा राजन्कृतपूर्वाह्णिकक्रियाः ।
शिबिरान्निर्ययुस्तूर्णं युद्वाय कृतनिश्चयाः ॥
ततः प्रववृते युद्वं तुमुलं रोमहर्षणम् ।
कुरूणां पाण्डवानां च परस्परजयैषिणाम् ॥
तयोर्द्वौ दिवसौ युद्वं कुरुपाण्डवसेनयोः ।
कर्णे सेनापतौ राजन्बभूवाद्भुतदर्शनम् ॥
ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः ।
पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः ॥
ततस्तु सञ्जयः सर्वं गत्वा नागपुरं द्रुतम् ।
आचष्ट धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ॥
जनमयेजय उवाच ।
आपगेयं हतं श्रुत्वा द्रोणं चापि महारथम् ।
आजगाम परामार्तिं वृद्वो राजाऽम्बिकासुतः ॥
स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् ।
कथं द्विजवर प्राणानधारयत दुःखितः ॥
यस्मिञ्जयाशां पुत्राणां सममन्यत पार्थिवः ।
तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् ॥
दुर्मरं तदहं मन्ये नृणां कृच्छ्रेऽपि वर्तताम् ।
यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः ॥
तथा शान्तनवं वृद्वं ब्रह्मन्बाह्लीकमेव च ।
द्रोणं च सोमदत्तं च भूरिश्रवसमेव च ॥
तथैव चान्यान्सुहृदः पुत्रान्पौत्रांश्च पातितान् ।
श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज ॥
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धारम्भे प्रथमोऽध्यायः ॥ 1 ॥
अध्यायः 002
धृतराष्ट्रेण भीष्मद्रोणौ प्रत्यनुशोचनपूर्वकं सञ्जयम्प्रति
दुर्योधनादिप्रवृत्तिप्रश्नः ॥ 1 ॥
हते कर्णे महाराज निशि गावल्गणिस्तदा ।
दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे ॥
स हास्तिनपुरं गत्वा भृशमुद्विग्नचेतनः ।
जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् ॥
स तमुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् ।
ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह ॥
सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् ।
हा कष्टमिति चोक्त्वा स ततो वचनमाददे ॥
सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् ।
स्वदोषैरापदं प्राप्य कच्चिन्नाद्य विमुह्यति ॥
हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः ।
अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥
रामनारदकण्वाद्यैर्हितमुक्तं सभातले ।
न गृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥
सुहृदस्त्वद्विते युक्तान्भीष्मद्रोणमुखान्परैः ।
निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् ॥
तमेवंवादिनं राजा सूतपुत्रं कृताजलिम् ।
सुदीर्घमथ निःश्वस्य दुःखार्त इदमब्रवीत् ॥
धृतराष्ट्र उवाच ।
आपगेये हते शूरे दिव्यास्त्रवति सञ्जय ।
द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः ॥
यो रथानां सहस्राणि दंशितानां दशैव तु ।
अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः ॥
तं हतं यज्ञसेनस्य पुत्रेणेह शिखण्डिना ।
पाण्डवेयाभिगुप्तेन श्रुत्वा मे व्यथितं मनः ॥
भार्गवः प्रददौ यस्मै परमास्त्रं महाहवे ।
साक्षाद्रामणे यो बाल्ये धनुर्वेद उपाकृतः ॥
यस्य प्रसादात्कौन्तेया राजपुत्रा महारथाः ।
महारथत्वं सम्प्राप्तास्तथाऽन्ये वसुधाधिपाः ॥
तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे ।
सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः ॥
ययोर्लोके पुमानस्त्रे न समोऽस्ति चतुर्विधे ।
तौ द्रोणभीष्मौ श्रुत्वा तु हतौ मे व्यथितं मनः ॥
त्रैलोक्ये यस्य चास्त्रेषु न पुमान्विद्यते समः ।
तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः ॥
संशप्तकानां च बले पाण्डवेन महात्मना ।
धनञ्जयेन विक्रम्य गमिते यमसादनम् ॥
नारायणास्त्रे च हते द्रोणपुत्रस्य धीमतः ।
विप्रद्रुतानहं मन्येनिमग्नाञ्शोकसागरे ।
प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे ॥
दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः ।
मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ॥
मत्पुत्रस्य च शेषस्य तथाऽन्येषां च सञ्जय ।
विप्रद्रुतेष्वनीकेषु मुखवर्णोऽभवत्कथम् ॥
एतत्सर्वं यथावृत्तं तथा गावल्गणे मम ।
आचक्ष्व पाण्डवेयानां मामकानां च विक्रमम् ॥
सञ्जय उवाच ।
तवापराधाद्यद्वृत्तं कौरवेयेषु मारिष ।
तच्छ्रुत्वा मा व्यथां कार्षीर्दिष्टे न व्यथते बुधः ॥
यस्मादभावी भावी वा भवेदर्थो नरं प्रति ।
अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्यथते बुधः ॥
धृतराष्ट्र उवाच ।
न व्यथाऽभ्यधिका काचिद्विद्यते मम सञ्जय ।
दिष्टमेतत्पुरा मन्ये कथयस्य यथेच्छकम् ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
दुर्योधनेन द्रोणमरणनिर्विण्णानां सैनिकानां कर्णगुणानुवर्णनेन
प्रोत्साहनम् ॥ 1 ॥ सञ्जयेन धृतराष्ट्रम्प्रति कर्णपराक मप्रशंसनपूर्वकं
तन्निधनकथनम् ॥ 2 ॥
अध्यायः 003
हते द्रोणे महेष्वासे तव पुत्रा महारथाः ।
बभूवुरस्वस्थमुखा विषण्णा गतचेतसः ॥
अवाङ्मुखाः शस्त्रभृतः सर्व एव विशाम्पते ।
अवेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् ॥
तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत ।
ऊर्ध्वमेव निरैक्षन्त दुःखत्रस्तान्यनेकशः ॥
शस्त्राण्येषां तु राजेन्द्र शोणिताक्तानि सर्वशः ।
प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं हतं युधि ॥
तानि बद्वान्यरिष्टानि लम्बमानानि भारत ।
अदृश्यन्त महाराज नक्षत्राणि यथा दिवि ॥
तथा तु स्तिमितं दृष्ट्वा गतसत्वमवस्थितम् ।
बलं तव महाराज राजा दुर्योधनोऽब्रवीत् ॥
भवतां बाहुवीर्यं हि समाश्रित्य मया युधि ।
पाण्डवेयाः समाहूता युद्वं चेदं प्रवर्तितम् ॥
तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते ।
युध्यमानाश्च समरे योधा वध्यन्ति सर्वशः ॥
जयो वाऽपि वधो वाऽपि युध्यमानस्य संयुगे ।
भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः ॥
पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि ।
प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् ॥
यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः ।
निवर्तते सदा मन्दः सिंहात्क्षुद्रमृगो यथा ॥
येन नागायुतप्राणो भीमसेनो महाबलः ।
मानुषेणैव युद्धेन तामवस्थां प्रवेशितः ॥
येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः ।
अमोघया रणे शक्त्या निहतो भैरवं नदन् ॥
तस्य दुर्वारवीर्यस्य सत्यसन्धस्य धीमतः ।
बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे ॥
द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः ।
पश्यन्तु पाण्डुपुत्रास्ते विष्णुवासवयोरिव ॥
सर्व एव भवन्तश्च शक्ताः प्रत्येकशोऽपि वा ।
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किसु संहताः ।
वीर्यवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् ॥
सञ्जय उवाच ।
एवमुक्त्वा ततः कर्णं चक्रे सेनापतिं तदा ।
तव पुत्रो महावीर्यो भ्रातृभिः सहितोऽनघ ॥
सैनापत्यमथावाप्य कर्णो राजन्महारथः ।
सिंहनादं विनद्योच्चैः प्रायुध्यत रणोत्कटः ॥
ससृञ्जयानां सर्वेषां पाञ्चालानां च मारिष ।
केकयानां विदेहानां चकार कदनं महत् ॥
तस्येषुधाराः शतशः प्रादुरासञ्छरासनात् ।
अग्रे पुङ्खेषु संसक्ता यथा भ्रमरपङ्क्तयः ॥
स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः ।
हत्वा सहस्रशो योधानर्जुनेन निपातितः ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि तृतीयोऽध्यायः ॥ 3 ॥
8-1-21 विह्वलः चलनासमर्थः काष्ठवत्पतितः ॥ 8-1-25
अन्तःपुराणि स्त्रियः ॥ 8-1-27 कदल्यइव वेपमाना आसन्निति शेषः ॥ 8-1-29
दृष्ट्वा मनसैवात्मप्रत्ययेन दुःखवतीर्ज्ञत्वा ॥ 8-1-34 इष्टवियोगमात्रेण
दशरथादिर्मृतः । अस्यतु जये नैराश्यमधिकं मरणकारणमस्तीति भावः ॥ 8-1-1
प्रथमोऽध्यायः ॥
श्रीः