अध्यायः 046
भीमकर्णयोर्युद्धम् ॥ 1 ॥ भीमेन दुर्योधनानुजानां कतिपयानां हननम् ॥ 2 ॥ सङ्कुलयुद्धं च ॥ 3 ॥
धृतराष्ट्र उवाच । 
					सुदुष्करमिदं कर्म कृतं भीमेन सञ्जय ।
						येन कर्णो महाबाहू रथोपस्थे निपातितः ॥
					कर्णो ह्येको रणे हन्ता पाण्डवान्सृञ्जयैः सह ।
						इति दुर्योधनः सूत प्राब्रवीन्मां मुहुर्मुहुः ॥
					पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ।
						ततः परं किमकरोत्पुत्रो दुर्योधनो मम ॥
						सञ्जय उवाच । 
					विमुखं प्रेक्ष्य राधेयं सूतपुत्रं महाहवे ।
						पुत्रस्तव महाराज सोदर्यानिदमब्रवीत् ॥
					शीघ्रं गच्छत भद्रं वो राधेयं परिरक्षत ।
						भीमसेनभयेऽगाधे म़ज्जन्तं व्यसनार्णवे ॥
					ते तु राज्ञा समादिष्टा भीमसेनं जिघांसवः ।
						अभ्यवर्तन्त सङ्क्रुद्धाः पतङ्गाः पावकं यथा ॥
					श्रुतायुर्दुर्धरः क्राथो विवित्सुर्विकटः समः ।
						निषङ्गी कवची पाशी तथा नन्दोपनन्दकौ ॥
					दुष्प्रधर्षः सुबाहुश्च वातवेगसुवर्चसौ ।
						धनुर्ग्राहो दुर्मदश्च जलसन्धः शलः सहः ॥
					एते रथैः परिवृता वीर्यवन्तो महाबलाः ।
						भीमसेनं समासाद्य समन्तात्पर्यवारयन् ॥
					ते व्यमुञ्चञ्छरव्रातान्नानालिङ्गान्समन्ततः ।
						स तैरभ्यर्द्यमानस्तु भीमसेनो महाबलः ॥
					तेषामापततां क्षिप्रं सुतानां ते जनाधिप ।
						रथैः पञ्चशतैः सार्धं पञ्चाशदहनद्रथान् ॥
					विवित्सोस्तु ततः क्रुद्धो भल्लेनापाहरच्छिरः ।
						भीमसेनो महाराज तत्पपात हतं भुवि ॥
					सकुण्डलशिरस्त्राणं पूर्णचन्द्रोपमं तथा ।
						`अशोभत महाराज पूर्णचन्द्र इवाम्बरे' ॥
					तं दृष्ट्वा निहतं शूरं भ्रातरः सर्वतस्तदा ।
						अभ्यद्रवन्त समरे भीमं भीमपराक्रमम् ॥
					ततोऽपराभ्यां भल्लाभ्यां पुत्रयोस्ते महाहवे ।
						जहार समरे प्राणान्भीमो भीमपराक्रमः ॥
					तौ धरामन्वपद्येतां वातरुग्णाविव द्रुमौ ।
						विकटश्च सहश्चोमौ देवपुत्रोपमौ नृप ॥
					ततस्तु त्वरितो भीमः क्राथं निन्ये यमक्षयम् ।
						नाराचेन सुतीक्ष्णेन स हतो न्यपतद्भुवि ॥
					हाहाकारस्ततस्तीव्रः सम्बभूव जनेश्वर ।
						वध्यमानेषु वीरेषु तव पुत्रेषु धन्विषु ॥
					तेषां सुलुलिते सैन्ये पुनर्भीमो महाबलः ।
						नन्दोपनन्दौ समरे प्रैषयद्यमसादनम् ॥
					ततस्ते प्राद्रवन्भीताः पुत्रास्ते विह्वलीकृताः ।
						भीमसेनं रणे दृष्ट्वा कालान्तकयमोपमम् ॥
					पुत्रांस्ते निहतान्दृष्ट्वा सूतपुत्रः सुदुर्मनाः ।
						हंसवर्णान्हयान्भूयः प्रैषयद्यत्र पाण्डवः ॥
					ते प्रेषिता महाराज मद्रराजेन वाजिनः ।
						भीमसेनरथं प्राप्य समसज्जन्त वेगिताः ॥
					स सन्निपातस्तुमुलो घोररूपो विशाम्पते ।
						आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥
					दृष्ट्वा मम महाराज तौ समेतौ महारथौ ।
						आसीद्बुद्विः कथं युद्वमेतदद्य भविष्यति ॥
					ततो भीमो रणश्लाघी छादयामास पत्रिभिः ।
						कर्णं रणे महाराज पुत्राणां तव पश्यताम् ॥
					ततः कर्णो भृशं क्रुद्धो भीमं नवभिरायसैः ।
						विव्याध परमास्त्रज्ञो भल्लैः सन्नतपर्वभिः ॥
					तान्निहत्य महाबाहुर्भीमो भीमपराक्रमः ।
						आकर्णपूर्णैर्विशिखैः कर्णं विव्याध सप्तभिः ॥
					ततः कर्णो महाराज आशीविष इव श्वसन् ।
						शरवर्षेण महता छादयामास पाण्डवम् ॥
					भीमोऽपि ततं शरव्रातैश्छादयित्वा महारथम् ।
						पश्यतां कौरवेयाणां विननर्द महाबलः ॥
					ततः कर्णो भृशं क्रुद्धो दृढमादाय कार्मुकम् ।
							भीमं विव्याध दशभिः कङ्कपत्रैः शिलाशितैः ।
						
						कार्मुकं चास्य चिच्छेद भल्लेन निशितेन च ॥
						
					ततो भीमो महाबाहुर्हेमपट्टविभूषितम् ।
							परिघं घोरमादाय मृतत्युदण्डमिवापरम् ।
						
						कर्णस्य निधनाकाङ्क्षी चिक्षेपातिबलो नदन् ॥
						
					तमापतन्तं परिघं वज्राशनिसमस्वनम् ।
						चिच्छेद बहुधा कर्णः शरैराशीविषोपमैः ॥
					ततः कार्मुकमादाय भीमो दृढतरं तदा ।
						छादयामास विशिखैः कर्णं परबलार्दनम् ॥
					ततो युद्धमभूद्धोरं कर्णपाण्डवयोर्मृधे ।
						बलीन्द्रयोरिव मुहुः परस्परवधैषिणोः ॥
					ततः कर्णो महाराज भीमसेनं त्रिभिः शरैः ।
						आकर्णपूर्णैर्विव्याध दृढमानम्य कार्मुकम् ॥
					सोऽतिविद्धो महेष्वासः कर्णेन बलिनां वरः ।
						घोरमादत्त विशिखं कर्णकायावदारणम् ॥
					तस्य भित्त्वा तनुत्राणं भित्त्वा कायं च सायकः ।
						प्राविशद्वरणीं राजन्वल्मीकमिव पन्नगः ॥
					स तेनातिप्रहारेण व्यथितो विह्वलन्निव ॥
						सञ्चचाल रथे कर्णः क्षितिकम्पे यथाऽचलः ॥
					ततः कर्णो महाराज रोषामर्षसमन्वितः ।
						भीमं तं पञ्चविंशत्या नाराचानां समार्पयत् ॥
					चिच्छेद कार्मुकं तूर्णं पाण्डवस्याशु पत्रिणा ॥
						
					तततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्वसन्निव ।
						विरथं भीमकर्माणं भीमं कर्णश्चकार ह ॥
					विरथो भरतश्रेष्ठ प्रहसन्ननिलोपमः ।
						गदां गृह्य महाबाहुरपतत्स्यन्दनोत्तमात् ॥
					गदया च महाराज कर्णस्य रथकूबरम् ।
						पोथयामास सङ्क्रुद्धः समरे शत्रुतापनः ॥
					स क्रोधवशमापन्नः पाण्डुपुत्रः प्रतापवान् ।
						विद्राव्य गदया वीरस्तव पुत्रान्महाहवे ॥
					नागान्सप्तशतान्राजन्नीषादन्तान्प्रहारिणः ।
						व्यधमत्सहसा भीमः क्रुद्धरूपः परन्तपः ॥
					दन्तवेष्टेषु नेत्रेषु कुम्भेषु च कटेषु च ।
						मर्मस्वपि च मर्मज्ञस्तान्नागानवधीद्बली ॥
					`अर्दिता भीमसेनेन विनदन्तो भृशातुराः' ।
							ततस्ते प्राद्रवन्भीताः प्रहताश्च पुनःपुनः ।
						
						महामात्रास्तमावव्रुर्मेघा इव दिवाकरम् ॥
						
					तान्स सप्तशतान्नागान्सारोहायुधकेतनान् ।
						भूमिष्ठो गदया जघ्ने वज्रेणेन्द्र इवाचलान् ॥
					ततः सुबलपुत्रस्य नागानतिबलान्पुनः ।
						पोथयामास कौन्तेयो द्विपञ्चाशदरिन्दमः ॥
					तथा रथशततं साग्रं पत्तींश्च शतशोऽपरान् ।
						न्यहनत्पाण्डवो युद्धे तापयंस्तव वाहिनीम् ॥
					प्रताप्यमानं सूर्येण भीमेन च महात्मना ।
						तव सैन्यं सञ्चुकोच चर्माग्नावाहितं यथा ॥
					ते भीमभयसन्त्रस्तास्तावका भरतर्षभ ।
						विहाय समरे कर्णं दुद्रुवुर्वै दिशो दश ॥
					रथाः पञ्चशताश्चान्ये हादिनः शरवर्षिणः ।
						भीममभ्यद्रवन्घ्नन्तः शरपूगैः समन्ततः ॥
					तान्स पञ्चशतान्वीरान्सपताकध्वजायुधान् ।
						पोथयामास गदया भीमो विष्णुरिवासुरान् ॥
					ततः शकुनिनिर्दिष्टाः सादिनः शूरसम्मताः ।
						त्रिसाहस्राण्यभिययुः शरशक्त्यृष्टिपाणयः ॥
					तान्प्रत्युद्गम्य यवनान्साश्वारोहांस्तदाऽरिहा ।
						विविधान्विचरन्मार्गान्गदया समपोथयत् ॥
					तेषामासीन्महाञ्छब्दस्ताडितानां च सर्वशः ।
						अग्निभिर्दह्यमानानां नलानामिव भारत ॥
					एवं सुबलपुत्रस्य त्रिसाहस्रान्हयोत्तमान् ।
						हत्वाऽन्यं रथमास्थाय क्रुद्धो राधेयमभ्ययात् ॥
					कर्णोऽपि समरे राजन्धर्मपुत्रमरिन्दमम् ।
						स शरैश्छादयामास सारथिं चाप्यपातयत् ॥
					ततः स प्रद्रुतं सैन्यं दृष्ट्वा कर्णो महारथः ।
						अन्वधावत्किरन्बाणैः कङ्कपत्रैरजिह्मगैः ॥
					राजानमभिधावन्तं शरैरावृत्य रोदसी ।
						क्रुद्धः प्रच्छादयामास शरजालेन मारुतिः ॥
					सन्निवृत्तस्ततस्तूर्णं राधेयः शत्रुकर्शनः ।
						भीमं प्रच्छादयामास समन्तान्निशितैः शरैः ॥
					भीमसेनरथप्रेप्सुं कर्णं भारत सात्यकिः ।
						अभ्यर्दयदमेयात्मा पार्ष्णिग्रहणकारणात् ॥
					भीमसेनरथप्रेप्सुं कर्णो भारत सात्यकिम् ।
						अभ्यवर्तत शैनेयमर्दयञ्छरवृष्टिभिः ॥
					तावन्योन्यं समासाद्य वृषभौ सर्वधन्विनाम् ।
						विसृजन्तौ शरान्दीप्तान्विभ्राजेतां मनस्विनौ ॥
					ताभ्यां वियति राजेन्द्र विततततं भीमदर्शनम् ।
						कौञ्चपृष्ठारुणं रौद्रं बाणजालं व्यदृश्यत ॥
					नैव सूर्यप्रभा राजन्न दिशः प्रदिशस्तथा ।
						प्राज्ञासिष्म वयं ते वा शरैर्मुक्तैः सहस्रशः ॥
					मध्याह्ने तपतो राजन्भास्करस्य महाप्रभाः ।
						हृताः सर्वाः शरौघैस्तैः कर्णमाधवयोस्तदा ॥
					सौबलं कृतवर्माणं द्रौणिमाधिरथिं कृपम् ।
						संसक्तान्पाण्डवैर्दृष्ट्वा निवृत्ताः कुरवः पुनः ॥
					तेषामापततां शब्दस्तीत्र आसीद्विशाम्पते ।
						उद्वृत्तानां यथा वृष्ट्या सागराणां भयावहः ॥
					ते सेने भृशसंसक्ते दृष्ट्वाऽन्योन्यं महाहवे ।
						हर्षेण महता युक्ते परिगृह्य परस्परम् ॥
					ततः प्रववृते युद्धं मध्यं प्राप्ते दिवाकरे ।
						यादृशं नैवमस्माभिर्दृष्टपूर्वं न च श्रुतम् ॥
					बलौघस्तु समासाद्य बलौघं सहसा रणे ।
						उपसर्पत वेगेन वार्योघ इव सागरम् ॥
					आसीन्निनादः सुमहान्बाणौघानां परस्परम् ।
						गर्जतां सागरौघाणां यथा स्यान्निःस्वनो महान् ॥
					ते तु सेने समासाद्य वेगवत्यौ परस्परम् ।
						एकीभावमनुप्राप्ते नद्याविव समागमे ॥
					ततः प्रववृते युद्धं घोररूपं विशाम्पते ।
						कुरूणां पाण्डवानां च लिप्सतां सुमहद्यशः ॥
					शूराणां गर्जतां तत्र ह्यविच्छेदकृता गिरः ।
						श्रुयन्ते विविधा राजन्नामान्युद्दिश्य भारत ॥
					यस्य यद्धि रणे व्यङ्गं पितृतो मातृतोऽपि वा ।
						कर्मतः शीलतो वाऽपि स तच्छ्रावयते युधि ॥
					तान्दृष्ट्वा समरे शूशांस्तर्जमानान्परस्परम् ।
						अभवन्मे मती राजन्नैषामस्तीति जीवितम् ॥
					तेषां दृष्ट्वा तु क्रुद्धानां वपूंष्यमिततेजसाम् ।
						अभवन्मे भयं तीव्रं कथमेतद्भविष्यति ॥
					ततस्ते पाण्डवा राजन्कौरवाश्च महारथाः ।
						ततक्षुः सायकैस्तूर्णमन्योन्यं विजयैषिणः ॥ ॥
					इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट््चत्वारिंशोऽध्यायः ॥ 46 ॥
श्रीः