अध्यायः 050

सङ्कुलयुद्धम् ॥ 1 ॥ अश्वत्थाम्ना युधिष्ठिरपराजयः ॥ 2 ॥

सञ्जय उवाच ।
द्रौणिर्युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम् ।
द्रौपदेयैस्तथा शूरैरभ्यवर्तत हृष्टवत् ॥
किरन्निषुगणान्घोरान्हेमपुङ्खाञ्शिलाशितान् ।
दर्शयन्विविधान्मार्गाञ्शिक्षया लघुहस्तवान् ॥
खं पुरयञ्शरैस्तीक्ष्णैर्वेगवद्भिः समन्ततः ।
युधिष्ठिरस्य समरे दिशः सर्वाः समावृणोत् ॥
भारद्वाजशरैश्छन्नं न प्राज्ञायत किञ्चन ।
बाणभूतमभूत्सर्वमायोधनशिरो महत् ॥
बाणजालं दिविष्ठं तत्स्वर्णपुङ्खविभूषितम् ।
शुशुभे भरतश्रेष्ठ विमानमिव विष्ठितम् ॥
तेन च्छन्ने रणे राजन्बाणजालेन भास्वता ।
अभ्रच्छायेव सजज्ञे हृतरश्मिस्तमोनुदः ॥
तदद्भुतमपश्याम बाणभूते नभस्थले ।
न स्म सम्पतते भूतं द्रौणेर्दृष्ट्वा पराक्रमम् ॥
सात्यकिर्यतमानस्तु धर्मराजस्तु पाण़्डवः ।
तथेतराणि सैन्यानि न स्म चक्रुः पराक्रमम् ॥
लाघवं द्रोणपुत्रस्य दृष्ट्वा तत्र महारथाः ।
व्यस्मयन्त महाराज न चैनं प्रत्युदीक्षितुम् ॥
शेकुस्ते सर्वराजानस्तपन्तमिव भास्करम् ।
वध्यमाने ततः सैन्ये द्रौपदेया महारथाः ॥
सात्यकिर्धर्मराजश्च पाञ्चालाश्चापि सङ्गताः ।
त्यक्त्वा मृत्युभयं घोरं द्रौणायनिभुपाद्रवन् ॥
सात्यकिः सप्तविंशत्या द्रौणिं विद्ध्वा शिलीमुखैः ।
पुनर्विव्याध नाराचैः सप्तभिः स्वर्णभूषितैः ॥
युधिष्ठिरस्त्रिसप्तत्या प्रतिविन्ध्यश्च सप्तभिः । श्रुतकर्मा त्रिभिर्वाणैः श्रुतकीर्तिश्च सप्तभिः ।
सुतसोमस्तु नवभिः शतानीकश्च सप्तभिः ।
अन्ये च वहवः शूरा विव्यधुस्तं समन्ततः ॥
स तु क्रुद्धस्ततो राजन्नाशीविप इव श्वसन् ।
सात्यकिं पञ्चविंशत्या प्राविध्यत शिलीमुखैः ॥
श्रुतकीर्तिं च नवभिः सुतसोमं च पञ्चभिः ।
अष्टभिः श्रुतकर्माणं प्रतिबिन्ध्यं त्रिभिः शरैः ॥
शतानीकं च नवभिर्धर्मपुत्रं च पञ्चभिः । तथेतरांस्ततः शूरान्द्वाभ्यां द्वाभ्यामताडयत् ।
श्रुतकीर्तेस्तथा चापं चिच्छेद निशितैः शरैः ॥
अथान्यद्वनुरादाय श्रुतकीर्तिर्महारथः ।
द्रौणायनिं त्रिभिर्विद्व्वा विव्याधान्यैः शितैः शरैः ॥
ततो द्रौणिर्महाराज शरवर्षेण भारिष ।
छादयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥
ततः पुनरमेयात्मा धर्मराजस्य कार्मुकम् ।
द्रौणिश्चिच्छेद विहसन्विव्याध च शरैस्त्रिभिः ॥
ततो धर्मसुतो राजन्प्रगृह्यान्यन्महद्धनुः ।
द्रोणपुत्रं त्रिपष्टxx ततु बाह्वोरुरसि चार्पययत् ॥
सात्यकिस्तु ततः क्रुद्धो द्रौणेः प्रहरतो रणे ।
अर्धचन्द्रेणतीक्ष्णेन धनुश्छित्त्वाऽनदद्भृशम् ॥
छिन्नधन्वा ततो द्रौणिः शक्त्या शक्तिमतां वरः ।
सारथिं पातयामास शैनेयस्य रथाद्रुतम् ॥
अथान्यद्वनुरादाय द्रोणपुत्रः प्रतापवान् ।
शैनेयं शरवर्षेण च्छादयामास भारत ॥
तस्याश्वाः प्रद्रुताः सङ्ख्ये पतिते रथसारथौ ।
तत्रतत्रैव धावन्तः समदृश्यन्त भारत ॥
युधिष्ठिरपुरोगास्तु द्रौणिं शस्त्रभृतां वरम् ।
अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ्छरान् ॥
सहसा पततस्तान्वै क्रुद्वरूपान्परन्तपः ।
प्रहसन्प्रतिजग्राह द्रोणपुत्रो महारणे ॥
ततः शरशतज्वालः सेनाकक्षं महारणे ।
द्रौणिर्ददाह समरे कक्षमग्निरिवोत्थितः ॥
तद्बलं पाण्डुपुत्रस्य द्रोणपुत्रप्रतापितम् ।
चुक्षुभे भरतश्रेष्ठ तस्मिन्नेव चमूमुखे ॥
तद्बलं पाण्डवेयस्य द्रोणपुत्रः शरार्चिषा ।
तापयन्भरतश्रेष्ठ गभस्तिभिरिवांशुमान् ॥
तत्पच्यमानं मर्षेण ब्राह्मणस्य च सायकैः ।
क्षुभ्यते पाण्डवं सैन्यं तिमिनेव नदीमुखम् ॥
दृष्ट्वा चैव महाराज द्रोणपुत्रपराक्रमम् ।
सर्वान्दुर्योधनः पार्थान्हतान्युद्वेऽभ्यमन्यत ॥
युधिष्ठिरस्तु त्वरितो द्रौणिं पीड्य महारथम् ।
अब्रवीद्द्रोणपुत्रं स रोषामर्षसमन्वितः ॥
`जानामि त्वां युधि श्रेष्ठ वीर्यवन्तं बलान्वितम् ।
कृतास्त्रं कृतिनं चैव तथा लघुपराक्रमम् ॥
बलमेतद्भवान्सर्वं पार्षते यदि दर्सयेत् ।
ततस्त्वां बलवन्तं च कृतविद्यं च विद्महे ॥
न हि वै पार्पतं दृष्ट्वा समरे शत्रुसूदनम् ।
भवेत्तव बलं किञ्चिद्ब्रवीमि त्वां न तु द्विजम्' ॥
नैव नाम तव प्रीतिर्नैव नाम कृतज्ञता ।
यतस्त्वं पुरुषव्याघ्र मामेवाद्य जिघांससि ॥
ब्राह्मणेन तपः कार्यं शमश्च दमएव च ।
क्षत्रियेण धनुर्नाभ्यं स भवान्ब्राह्मणब्रुवः ॥
मिषतस्ते महावाहो युधि जेष्यामि कौरवान् ।
कुरुष्व समरे कर्म ब्रह्मबन्धे यथेष्टतः ॥
एवमुक्तो महाराज द्रोणपुत्रः सयन्निव ।
युक्त तत्त्वं च सञ्चिन्त्य नोत्तरं किञ्चिदब्रवीत् ॥
अनुक्त्वा च ततः किञ्चिच्छरवर्षेण पाण्डवम् ।
छादयामास समरे क्रुद्धोऽन्तक इव प्रजाः ॥
स च्छाद्यमानस्तु तदा द्रोणपुत्रेण मारिष ।
पार्थोऽपयातः शीघ्रं वै प्रगृह्य महतीं चमूम् ॥
अपयाते ततस्तस्मिन्धर्मपुत्रे युधिष्ठिरे ।
द्रोणपुत्रः स्थितो राजन्प्रत्यादेशान्महात्मनः ॥
ततो युधिष्ठिरो राजंस्त्यक्त्वा द्रौणिं महाहवे ।
प्रययौ तावकं सैन्यं युक्तः क्रुराय कर्मणे ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चाशोऽध्यायः ॥ 50 ॥

श्रीः