अध्यायः 053

अर्जुनेनाश्वत्थामपराजयः ॥ 1 ॥

सञ्जय उवाच ।
ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः ।
नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ॥
सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः ।
लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ॥
ततोऽविध्यद्धुवोर्मध्ये नाराचैरर्जुनो भृशम् ।
स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ॥
अथ कृष्णौ शरशतैरश्वत्थाम्नाऽर्दितौ भृशम् ।
स्वरश्मिजालविकचौ युगान्तार्काविवासुतः ॥
ततोऽर्जुनः सर्वतोधारमस्त्र-- मवासृजद्वासुदेवेऽभिभूते ।
द्रौणायनिश्चाभ्यहनत्पृषत्कै-- र्वज्राग्निवैवस्वतदण्डकल्पैः ॥
स केशवं चार्जुनं चातितेजा विव्याध मर्मस्वतिरौद्रकर्मा ।
बाणैः सुमुक्तैरतितीव्रवेगै-- र्यैराहतो मृत्युरपि व्यथेत ॥
द्रौणेरिषूनिषुभिः सन्निवार्य व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः ।
तं साश्वसूतध्वजमेकवीर-- मावृत्य संशप्तकसैन्यमार्च्छत् ॥
धनूंषि बाणानिषुधीर्धनुर्ज्याः पाणीन्भुजान्पाणिगतं च शस्त्रम् ।
छत्राणि केतूंस्तुरगान्रथेषां वस्त्राणि माल्यान्यथा भूषणानि ॥
चर्माणि वर्माणि मनोरमाणि प्रसह्य चैषां स शिरांसि चैव ।
स्रिच्छेद पार्थो द्विषतां सुमुक्तै-- र्बाणैः स्थितानामपराङ्मुखानाम् ॥
सुकल्पिताः स्मन्दनवाजिनागाः समास्थिताः कृतयत्नैर्नृवीरैः ।
पार्थेरितैर्बाणशतैर्निरस्ता-- स्तैरेव सार्धं नृवरैर्विनेशुः ॥
पद्मार्कपूर्णेन्दुनिभाननानि किरीटमाल्याभरणोज्ज्वलानि ।
भल्लार्धचन्द्रक्षुरसन्निकृत्ता-- न्यपातयच्छत्रुशिरांस्यजस्रम् ॥
अथ द्विपैर्दैत्यरिपुद्विपाभै-- र्देवारिकल्पा बलमन्युकल्पैः ।
कलिङ्गवङ्गाङ्गनिषादवीरा जिघांसवः पाण्डवमभ्यधावन् ॥
तेषां द्विपानां निचकर्त पार्थो वर्माणि चर्माणि करान्नियन्तॄन् ।
ध्वजाः पताकाश्च ततः प्रपेतु-- र्वज्राहतानीव गिरेः शिरांसि ॥
तेषु प्रभग्नेषु गुरोस्तनूजं बाणैः किरीटि नवसूर्यवर्णैः ।
प्रच्छादयामास महाभ्रजालै-- र्वायुः समुद्यन्तमिवांशुमन्तम् ॥
ततोऽर्जुनेषूनिषुभिर्निरस्य द्रौणिः शितैरर्जुनवासुदेवौ ।
प्रच्छादयित्वा दिवि चन्द्रसूर्यौ ननाद सोऽम्भोद इवातपान्ते ॥
तमर्जुनस्तांश्च पुनस्त्वदीया-- नभ्यर्दितस्तैरभिसृत्य शस्त्रैः ।
वाणान्धकारं सहसैव कृत्त्वा विव्याध पार्थो वरहेमपुङ्खैः ॥
नाप्याददत्सन्दधन्नैव मुञ्च-- न्बाणान्रथेऽदृश्यत सव्यसाची ।
रथांश्च नागांस्तुरगान्पदातीन् संस्यूतदेहान्ददृशुर्हतांश्च ॥
सन्धाय नाराचवरान्दशाशु द्रौणिस्त्वरन्नेकमिवोत्ससर्ज ।
तेषां च पञ्चार्जुनमभ्यविध्य-- न्पञ्चाच्युतं निर्बिभुदुः सुपुङ्खाः ॥
तैराहतौ सर्वमनुष्यमुख्या-- वसृक्स्रवन्तौ धनदेन्द्रकल्पौ ।
समाप्तविद्येन तथाऽभिभूतौ हतौ रणे ताविति मेनिरेऽन्ये ॥
अथार्जुनं प्राह दशार्हनाथः प्रमाद्यसे किं जहि योधमेतम् ।
कुर्याद्धि दोषं समुपेक्षितोऽयं कष्टो भवेद्व्याधिरिवाक्रियावान् ॥
तथेति चोक्त्वाऽच्युतमप्रमादी द्रौणेः प्रहस्याशु किरीटमाली ।
भुजौ वरौ चन्दनसारदिग्धौ वक्षः शिरोऽथाप्रतिमौ तथोरू ॥
गाण्डीवमुक्तैः कुपिताहिकल्पै-- द्रौणिं शरैः संयति निर्बिभेद ।
छित्त्वा तु रश्मींस्तुरगानविध्य-- त्ते तं रणादूहुरतीव दूरम् ॥
स तैर्हृतो वातजवैस्तुरङ्गै- र्द्रौणिर्दृढं पार्थशराभिभूतः ।
आवृत्य नैव व्यषहत्स योद्धुं पार्थेन सार्धं मतिमान्विमृश्य ।
जानञ्जयं नियतं वृष्णिवीरे धनञ्जये चाङ्गिरसां वरिष्ठः ॥
विवेश कर्णस्य बलं तरस्वी भग्नोत्साहः क्षीणवाणास्त्रयोगः ॥
प्रतीपकामे तु रणादश्वत्थाम्नि हृते हयैः ।
मन्त्रौषधिक्रियायोगैर्व्याधौ देहादिवाहृते ॥
संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ ।
वातोद्वूतपताकेन स्यन्दनेनौघनादिना ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिपञ्चाशोऽध्यायः ॥ 53 ॥

8-53-1 नक्षत्रमभितः नक्षत्रं लक्षीकृत्य ॥ 8-53-2 विमार्गस्थौ वक्रातिचारगौ ॥ 8-53-4 कृष्णौ कृष्णार्जुनौ आसतुः दीपयाञ्चक्रतुः ॥ 8-53-5 सर्वतोधारं सर्वतोऽस्त्रधारावर्षकं । सर्वतोवारमिति घ.ङ.पाठः । वज्रकल्पैः अमोधैः । अग्निकल्पैः दाहकैः । वैवस्वतदण्डकल्पैः प्राणहरैः ॥ 8-53-7 ध्यायच्छतो यतमानस्य । आर्च्छतगतवान् ॥ 8-53-10 सुकल्पिताः सुसन्नद्धाः ॥ 8-53-13 करान् शुण्डाः ॥ 8-53-16 तं अश्वत्थामानम् । तान् तदन्यान् । तैः कृतं न्नाणान्धकारं कृत्त्वा छित्त्वा । कृती छेदन ॥ 8-53-17 संस्यूताः अन्योन्यं सन्धट्टवन्तः ॥ 8-53-19 समाप्तविद्येन समग्रधनुर्वेदविदा ॥ 8-53-20 अक्रियावान् प्रतिकाररहितः ॥ 8-53-22 अविकर्णैः अविकर्णतुत्याग्रैः ॥ 8-53-23 अङ्गिरसां अङ्गिरोगोत्राणां मध्ये ॥ 8-53-26 ओघनादिना जलौघवन्नादवता ॥ 8-53-53 त्रिपञ्चाशोऽध्यायः ॥

श्रीः