अध्यायः 054

अर्जुनेन दण्डदण्डधारयोर्वधः ॥ 1 ॥

सञ्जय उवाच ।
अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः ।
रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ॥
निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् ।
वाहयन्नेव तुरगान्गरुडानिलरंहसः ॥
मागधोऽसावतिक्रान्तो द्विरदेन प्रमाथिना ।
भगदत्तादनवमः शिक्षया च बलेन च ॥
एनं हत्वा निहन्ताऽसि पुनः संशप्तकानिति ।
वाक्यान्ते प्रापयत्पार्थं दण्डधारगजं प्रति ॥
स मागधानां प्रवरो महाबलोऽ-- शुभग्रहो योधगणैः समन्वितः ।
सपत्नसेनां प्रममाथ दारुणो भीमं समग्रां बलवानिव ग्रहम् ॥
सुकल्पितं दानवनागसन्निभं महाभ्रनिर्हादसमस्वनं रणे ।
समास्थितो नागवरं नरेश्वरो रथाश्वमातङ्गनरप्रमाथिनम् ॥
स नागयन्तॄन्समरे महारथा-- न्सपत्तिसङ्घांस्तुरगान्ससादिनः ।
द्विपांश्च बाणैर्निजघान वीर्यवा-- न्समन्ततो घ्नन्निव कालचक्रवत् ॥
नरांस्तु कांस्यायसवर्मभूषणा-- न्निपात्य साश्वानपि पत्तिभिः सह ।
व्यपोथयद्दन्तिवरेण शुष्मिणा सशब्दवत्स्थूलनलं यथा तथा ॥
अथार्जुनो ज्यातलनेमिनिःस्वने मृदङ्गभेरीबहुशङ्खनादिते ।
रथाश्वमातङ्गसहस्रनादिते रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ॥
ततोऽर्जुनं द्वादशभिः शरोत्तमै-- र्जनार्दनं षोडशभिः समार्पयत् ।
स दण़्डधारस्तुरगांस्त्रिभिस्त्रिभि--- स्ततो ननाद प्रजहास चासकृत् ॥
ततोऽस्य पार्थः सगुणेषुकार्मुकं चकर्त भल्लैर्ध्वजमप्यलङ्कृतम् ।
पुनर्नियन्तॄन्सहपादगोप्तृभि-- स्ततः स चुक्रोध गिरिव्रजेश्वरः ॥
ततोऽर्जुनं भिन्नकटेन दन्तिना घनाघनेनानिलतुल्यरंहसा ।
अतीव चुक्रोधयिषुर्जनार्दनं घनञ्जयं चाभिजघान तोमरैः ॥
अथास्य बाहू द्विपहस्तसन्निभौ शिरश्च पूर्णेन्दुनिभाननं त्रिभिः ।
क्षुरैः प्रचिच्छेद सहैव पाण्डव-- स्ततो द्विपं बाणशतैः समर्पयत् ॥
स पार्थबाणैस्तपनीयभूषणैः समावृतः काञ्चनवर्मभृद्द्विपः ।
भृशं चकाशे निशि पर्वतो यथा दावाग्निना प्रज्वलितौषधिद्रुमः ॥
स वेदनार्तोऽम्बुदनिस्वनो नदं-- श्चरन्भ्रमन्प्रस्स्वलितान्तरोऽद्रवत् ।
पपात रुग्णः सनियन्तृकस्तथा ॥ यथा गिरिर्वज्रविदारितस्तथा ॥
हिमावदानेन सुवर्णमालिना हिमाद्रिकूटप्रतिमेन दन्तिना ।
हते रणे भ्रातरि दण्ड आव्रज-- ज्जिघांसुरिन्द्रावरजं धनञ्जयम् ॥
सतोमरैरर्करप्रभैस्त्रिभि-- र्जनार्दनं पञ्चभिरर्जुनं शितैः ।
समर्पयित्वा विननाद चार्दयं-- स्ततोऽस्य बाहू निचकर्त पाण्डवः ॥
क्षुरप्रकृत्तौ विपुलौ सतोमरौ शुभाङ्गदौ चन्दनरूषितौ भुजौ ।
गजात्पतन्तौ युगपद्विरेजतु-- र्यथोरगौ पर्वतशृङ्गवन्महीम् ॥
अथाऽर्धचन्द्रेण हतं किरीटिना पपात दण्डस्य शिरः क्षितिं द्विपात् ।
स शोणितार्द्रो निपतन्विरेजे दिवाकरोऽस्तादिव पश्चिमां दिशम् ॥
अथ द्विपं श्वेतनगाग्रसन्निभं दिवाकरांशुप्रतिमैः शरोत्तमैः ।
बिभेद पार्थः स पपात नादयन् हिमाद्रिकूटं कुलिशाहतं यथा ॥
ततोऽपरं तत्प्रतिमा गजोत्तमा जिगीषवः संयति सव्यसाचिना ।
तथा कृतास्तेऽपि यथैव तौ द्विपौ ततः प्रभग्नं सुमहद्रिपोर्बलम् ॥
गजा रथाश्वाः पुरुषाश्च सङ्घशः परस्परघ्नाः परिपेतुराहवे ।
परस्परं प्रस्खलिताः समाहता भृशं च तत्तद्बहुभाषिणो हताः ॥
अथार्जुनं स्वे परिवार्य सैनिकाः पुरन्दरं देवगणा इवाब्रुवन् ।
अभैष्म यस्मान्मरणादिव प्रजाः स वीर दिष्ट्या निहतस्त्वया रिपुः ॥
न चेत्परित्रास्यदिमाञ्जनान्भया-- द्द्विषद्भिरेवं बलिभिः प्रपीडितान् ।
तथाऽभविष्यद्द्विषतां प्रमोदनं यथा हतेष्वेष्विह नोऽरिसूदन ॥
इतीव भूयश्च सुहृद्भिरीडिता निशम्य वाचः सुमनास्तदाऽर्जुनः ।
यथाऽनुरूपं प्रतिपूज्य तं जनं जगाम संशप्तकसङ्घहा पुनः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुःपञ्चाशोऽध्यायः ॥ 54 ॥

8-54-1 उत्तरेण उत्तरतः । वध्यतां वध्यमानानाम् ॥ 8-54-3 अनवमः अहीनः ॥ 8-54-5 स मागधानां प्रवरोऽङ्कुशग्रहे ग्रहेऽप्रसह्यो विकचो यथा ग्रहः । सपत्नसेनां प्रममाथ दारुणो महीं समग्रां विकचो यथा ग्रहः । इति झ.पाठः । तत्र इत्यर्थः । अङ्कुशग्रहे अङ्कुशधारमे हङ्कियुद्धे इत्यर्थः । ग्रहे आदित्यादिग्रहसमूहे युद्धपरिग्रहे च अप्रसह्यः । विकचः कचोपलक्षितशिरोरहितः केतुरूपी ग्रह इव । विकचो विस्तीर्णो ग्रहो धूमकेतुरूपी उत्पातग्रहः ॥ 8-54-8 शुष्मिणा बलवता । स्थूलसुषिरं नलं तृणविशेषम् ॥ 8-54-11 सगुणेषुकार्मुकं मौर्वीबाणसहितं धनुः । नियन्तॄन् नियन्तारम् ॥ 8-54-12 धनाधनो घतुकमत्तदन्तिनोरिति विश्वः ॥ 8-54-13 सहैव युगपत् ॥ 8-54-15 स्खलितान्तरः मध्येस्खलतित्यर्थः ॥ 8-54-16 इन्द्रावरजं कृष्णम् ॥ 8-54-19 अस्तात् अत्वाचलात् ॥ 8-54-21 तौ दण्डधारतद्भ्रात्रोर्द्विपौ यथा साध्यक्षौ कृत्तौ छिन्नौ तथा तेपि कृताः ॥ 8-54-54 चतुःपञ्चाशोऽध्यायः ॥

श्रीः