अध्यायः 056
					 अश्वत्थाम्ना पाण्ड्यवधः ॥ 1 ॥ 
					
					
						प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः ।
						न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम् ॥
					 
					
						तस्य विस्तरशो ब्रूहि प्रवीरस्याद्य विक्रमम् ।
						शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ॥
						सञ्जय उवाच । 
					 
					
						भीष्मद्रोणकृपद्रौणिकर्णार्जुनजनार्दनान् ।
						समाप्तविद्यान्धनुषि श्रेष्ठान्यान्सप्त मन्यसे ॥
					 
					
						यो ह्याक्षिपति वीर्येण सर्वानेतान्महारथान् ।
						न मेने चात्मना तुल्यं कञ्चिदेव नरेश्वरम् ॥
					 
					
						तुल्यतांद्रोणभीष्माभ्यामात्मनो यो न मृष्यते ।
						वासुदेवार्जुनाभ्यां च न्यूनतां नैच्छतात्मनि ॥
					 
					
						स पाण्ड्योऽर्थपतिश्रेष्ठः सर्वशस्त्रभृतां वरः ।
						कर्णस्यानीकमहनत्पाशहस्त इवान्तकः ॥
					 
					
						तदुदीर्णरथाश्वेभं पत्तिप्रवरसङ्कुलम् ।
						कुलालचक्रवद्धान्तं पाण्ड्येनाभ्याहतं बलात् ॥
					 
					
						व्यश्वसूतध्वजरथान्विप्रयुक्तयुगान्रथान् ।
						सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥
					 
					
						द्विरदान्प्रवरारोहान्विपताकायुधध्वजान् ।
						स पादरक्षानहनद्वज्रेणाद्रीनिवाद्रिहा ॥
					 
					
						स शक्तिप्रासतूणीरानश्वारोहान्हयानपि ।
						पुलिन्दखसबाह्लीकनिषादान्ध्रककुन्तलान् ॥
					 
					
						दाक्षिणात्यांश्च भोजांश्च शूरान्सङ्ग्रामकर्कशान् ।
						विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ॥
					 
					
						चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्डयमाहवे ।
						दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्तस्ततोऽभ्ययात् ॥
					 
					
						आभाष्य चैनं मधुरमभीतं तमभीतवत् ।
						प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयत् ॥
					 
					
						राजन्कमलपत्राक्ष प्रधानायुधवाहन ।
						वज्रसंहननप्रख्य प्रख्यातबलपौरुष ॥
					 
					
						मुष्टिक्लिष्टाङ्गुलिभ्यां च व्यायताभ्यां महद्धनुः ।
						दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ॥
					 
					
						शरवर्षैर्महावेगैरमित्रानभिवर्षतः ।
						मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ॥
					 
					
						रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् ।
						मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः ॥
					 
					
						महता रथघोषेण दिवं भूमिं च नादयन् ।
						वर्षान्ते सस्यां सूर्यो भाभिरादीपयन्निव ॥
					 
					
						संस्पृशानः शरैः पूर्णौ तूणी चाशीविषोपमैः ।
						मयैवैकेन युध्यस्व त्र्यम्बकेनान्धको यथा ॥
					 
					
						एवमुक्तस्तथेत्युक्त्वा प्रमथ्यैनं स पार्थिवः ।
						कर्णिना द्रोणतनयं विव्याध मलयध्वजः ॥
					 
					
						मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः ।
						मर्मस्वभ्यहनद्द्रौणिः पाण्ड्यमाचार्यनन्दनः ॥
					 
					
						ततोऽपरान्नवांस्तूर्णं नाराचान्कङ्कवाससः ।
						गत्या दशम्या संयुक्तानश्वत्थामाऽप्यवासृजत् ॥
					 
					
						तानच्छिनत्तदा पाण्ड्यश्चतुर्भिरपरैः शरैः ।
						चतुरोऽभ्याहनच्चाश्वानाशु ते व्यसवोऽभवन् ॥
					 
					
						अथ द्रोणसुतस्येषूंस्ताञ्छित्त्वा निशितैः शरैः ।
						धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यतेजसः ॥
					 
					
						दिव्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा ।
						प्रेक्ष्य चाशु रथे युक्तान्नरैरन्यान्हयोत्तमान् ॥
					 
					
						ततः शरसहस्राणि प्रेषयामास वै द्विजः ।
						इषुसम्बाधमाकाशमकरोद्दिश एव च ॥
					 
					
						ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः ।
						जानानोप्यक्षयान्पाण्ड्यो शातयत्पुरुषर्षभः ॥
					 
					
						प्रयुक्तांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः ।
						चक्ररक्षौ रणे तस्य प्राणुदन्निशितैः शरैः ॥
					 
					
						अथ तल्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः ।
						प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ॥
					 
					
						अष्टावष्टगवान्यूहुः शकटानि यदायुधम् ।
						अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ॥
					 
					
						तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् ।
						ये ये ददृशिरे रूपं विसंज्ञाः प्रायशोऽभवन् ॥
					 
					
						आचार्यपुत्रस्तां सेनां बाणवृष्ट्या व्यवीवृषत् ।
						पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महिम् ॥
					 
					
						द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् ।
						वायव्यास्त्रेण स क्षिप्रं विद्ध्वा पाण्ड्यातिलोऽनदत् ॥
					 
					
						तस्य नानदतः केतुं चन्दनागुरुरूषितम् ।
						मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ॥
					 
					
						सूतमेकेषुणा हत्वा महाजलदनिःस्वनम् ।
						धनुश्छित्त्वाऽर्धचन्द्रेण तिलशो व्यधमद्रथम् ॥
					 
					
						अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च ।
						प्राप्तमप्यहितं द्रौणिर्नाहनद्युद्धतृष्णया ॥
					 
					
						हतेश्वरो दन्तिवरः सुकल्पित--
							सत्वराभिसृष्टः प्रतिशब्दगो बली ।
						
						तमाद्रवद्द्रौणिशराहतस्त्वरन्
							जवेन कृत्वा प्रतिहस्तिगर्जितम् ॥
						
					 
					
						तं वारणं वारणयुद्धकोविदो
							द्विपोत्तमं पर्वतसानुसन्निभम् ।
						
						सम्भ्यतिष्ठन्मलयध्वजस्त्वर--
							न्यथाऽद्रिशृङ्गं हरिरुन्नदंस्तथा ॥
						
					 
					
						स तोमरं भास्कररश्मिवर्चसं
							बलास्त्रसर्गोत्तमयत्नमन्युभिः ।
						
						ससर्ज शीघ्रं परिपीडयन्गजं
							गुरोः सुताय द्रविडेश्वरो नदन् ॥
						
					 
					
						मणिप्रवेकोत्तमवज्रहाटकै--
							रलङ्कृतं चांशुकमाल्यमौक्तिकैः ।
						
						हतो मयासीत्यसकृन्मुदा नद--
							न्पराभिनद्द्रौणिवराङ्गभूषणम् ॥
						
					 
					
						तदर्कचन्द्रग्रहपावकत्विषं
							भृशाभिघातात्पतितं विघूर्णितम् ।
						
						महेन्द्रवज्राभिहतं महास्वनं
							यथाऽद्रिशृङ्गं भरणीतले तथा ॥
						
					 
					
						ततः प्रजज्वाल परेण मन्युना'
							पादाहतो नागपतिर्यथा तथा ।
						
						समाददे चान्तकदण्डसन्निभा--
							निषूनमित्रान्तकरांश्चतुर्दश ॥
						
					 
					
						द्विपस्य पादाग्रकरान्स पञ्चभि--
							र्नृपस्य बाहू च शिरोऽथ च त्रिभिः ।
						
						जघान पड्भिः पडृतूपमत्विषः
							स पाण्ड्यराजानुचरान्महारथान् ॥
						
					 
					
						सुदीर्घवृत्तौ वरचन्दनोक्षितौ
							सुवर्णमुक्तामणिवज्रभूषणौ ।
						
						भुजौ धरायां पतितौ नृपस्य तौ
							विचेष्टतुस्तार्क्ष्यहताविवोरगौ ॥
						
					 
					
						शिरश्च तत्पूर्णशशिप्रभाननं
							सरोषताम्रायतनेत्रमुन्नसम् ।
						
						क्षितावपि भ्राजति तत्सकुण्डलं
							विशाखयोर्मध्यगतः शशी यथा ॥
						
					 
					
						[स तु द्विपः पञ्चभिरुत्तमेषुभिः
							कृतः षडंशश्चतुरो नृपस्त्रिभिः ।
						
						कृतो दशांशः कुशलेन युध्यता
							यथा हविस्तद्दश दैवतं तथा ॥
						
					 
					
						स पादशो राक्षसभोजनान्बहून्
							प्रदाय पाण्ड्योऽश्वमनुष्यकुञ्जरान् ।
						
						स्वधामिवाप्य ज्वलनः पितृप्रिय--
							स्ततः प्रशान्तः सलिलप्रवाहतः] ॥
						
					 
					
						समाप्तविद्यं तु गुरोः सुतं नृपः
							समाप्तकर्माणमुपेत्य ते सुतः ।
						
						सुहृद्वृतोऽत्यर्थमपूजयन्मुदा
							जिते बलौ विष्णुमिवामरेश्वरः ॥ ॥
					 
					 इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट््पञ्चाशोऽध्यायः ॥ 56 ॥ 
					 8-56-10 पाण्ड्यः व्यसूनकरोदिति द्वयोः सम्बन्धः ॥ 8-56-13
						अनुस्मृत्य ह्याभीतवत् इति ख.पाठः । अनुसृत्य हि भीतवत् इति क.ङ.पाठः ॥ 8-56-16
						वर्षतः मत् मत्तः ॥ 8-56-17 प्रमथसे प्रमथ्नासि ॥ 8-56-20 मलयवत् कृत्रिमो
						ध्वजो यस्य । मलयध्वज इति प्रवीरस्यैव नामान्तरं वा ॥ 8-56-22 गत्या दशम्या ।
						उन्मुख्यभिमुखी तिर्यङ् मन्दा गोमूत्रिका ध्रुवा । स्खलित यमकाक्रान्ता
						क्रुष्टेतीषुगतीर्विदुः । दशमीगतिस्तु शिरसा सह दूरपातिनी अतिकुष्टानाम । तया
						गत्या ॥ 8-56-29 पूषानुजः पर्जन्यः ॥ 8-56-30 अष्टवृषभवाह्यानि अष्टौ शकटानि
						यादयुधसम्भारं ऊहुः वहन्ति तत्सर्वं अह्नोऽष्टमभागेन यामार्धेन
						क्षीणगित्यर्थः ॥ 8-56-37 हतेश्वरो यः कश्चित् तं पाण्ड्यम् ॥ 8-56-38 मलयध्वजः
						पाप्डस्तं यदृच्छयागतं वारणं समभ्यतिष्ठत् ॥ 8-56-39 बलेन अस्त्रसर्गे य उत्तमो
						यत्नस्तेन मन्युना च तैः । परिपीडयन् अङ्कुशेन कोपयन् ॥ 8-56-40 द्रौणेः
						वराङ्गभूष किरिटम् ॥ 8-56-42 इषून् समाददे द्रौणिरिति शेषः ॥ 8-56-46 चतुरः
						चतुरंशः । एवं स गजो दशधाभक्तो यथा दशहविष्कायामिष्टौ पिष्टपिण्डो दशधा क्रियते
						तथेत्यर्थः ॥ 8-56-47 पाण्ड्योऽश्वादीन् पादशः प्रदाय खण्डयित्वा प्रशान्तः
						द्रौणिबाणैरिति शेषः । यथा स्वधां प्रेतशरीररूपं हविः प्राप्य पितृप्रियो ज्वलनः
						श्मशानाग्निः जलेन शाम्यति तद्वदित्यर्थः ॥ 8-56-48 समाप्तविद्यं
						सम्यगाप्तविद्यम् । समाप्तकर्माणं कृतकृत्यम् ॥ 8-56-56 षट््पञ्चाशोऽध्यायः ॥ 
					
					
					
					
					श्रीः