अध्यायः 058

अर्जुनस्य द्रौणिग्रस्तधृष्टद्युम्नरक्षणपूर्वकं द्रौणिं निर्जित्य संशप्तकान्प्रति गमनम् ॥ 1 ॥

सञ्जय उवाच ।
एवमुक्तः प्रत्युवाच धृष्टद्युम्नः प्रतापवान् ।
आशिषं तां प्रवक्तव्यां मामको दास्यते तव ॥
येनैव ते पितुर्दत्ता यतमानस्य संयुगे । एष ते प्रतिवाक्यं वै असिर्दास्यति मामकः ।
येन कृत्तं तव पितुर्यतमानस्य तच्छिरः ॥
यदि तावन्मया द्रोणो निहतो ब्राह्मणब्रुवः ।
त्वामिदानीं कथं युद्धे न हनिष्यामि किल्बिषम् ॥
एवमुक्त्वा महातेजाः सेनापतिररिन्दमः ।
सुतीक्ष्णेनाथ भल्लेन द्रौणिं विव्याध पार्षतः ॥
ततो द्रौणिः सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः ।
आच्छादयद्दिशो राजन्धृष्टद्युम्नस्य संयुगे ॥
नैवान्तरिक्षं न दिशो नापि योधाः सहस्रशः । दृश्यन्ते वै महाराज शरैश्छन्नाः समन्ततः ।
एकः सन्वारयामास प्रेक्षणीयः समन्ततः ॥
तथैव पार्षतो राजन्द्रौणिमाहवशोभिनम् ।
शरैः सञ्छादयामास सूतपुत्रस्य पश्यतः ॥
राधेयोऽपि महाराज पाञ्चालान्सह पाण्डवैः ।
द्रौपदेया युधामन्युमुत्तमौजसमेव च ॥
सात्यकिश्च महाराज योधांश्चान्यान्सहस्रशः ।
एकस्तान्वारयामास प्रेक्षणीयः समन्ततः ॥
धृष्टद्युम्नस्तु समरे द्रौणेश्चिच्छेद कार्मुकम् ।
क्षुरप्रेण सुतीक्ष्णेन पश्यतां सर्वयोधिनाम् ॥
तदपास्य धनुश्छिन्नमन्यदादत्त कार्मुकम् ।
वेगवत्समरे घोरं शरांश्चाशीविषोपमान् ॥
स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां ध्वजम् ।
हयान्सूतं रथं चैव निमेषाद्व्यधमच्छरैः ॥
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
खङ्गमादत्त विपुलं शतचन्द्रं च भानुमत् ॥
द्रौणिस्तदपि राजेन्द्र भल्लैः क्षिप्रं महारथः ।
चिच्छेद समरे वीरः क्षिप्रहस्तो दृढायुधः ॥
रथादनवरूढस्य धन्विनो बाहुशालिनः ।
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥
धृष्टद्युम्नं तु विरथं हताश्वरथसारथिम् । शस्त्रैश्च बहुधा विद्धमस्त्रैश्च शकलीकृतम् ।
नातरद्भरतश्रेष्ठ यदमानो महारथः ॥
तस्यान्तमिषुभी राजन्यदा द्रौणिर्न गच्छति । अथ त्यक्त्वा रथं वीरः पार्षतं त्वरितोऽन्वगात् ।
प्रगृह्य विपुलं खह्गं जातरूपपरिष्कृतम् ॥
तस्य सम्पततो राजन्वपुरासीन्महात्मनः ।
गरुडस्येव ततो जिघृक्षोः पन्नगोत्तमम् ॥
एतस्मिन्नेव काले तु केशवः परवीरहा ।
अब्रवीद्भरतश्रेष्ठमर्जुनं जयतां वरम् ॥
पश्य द्रौणिं पार्षतस्य यतमानं वधं प्रति ।
यत्नं करोति विपुलं हन्याच्चैनं न संशयः ॥
त्रायस्वैनं महाबाहो पार्षतं युद्धदुर्मदम् ।
द्रौणेरास्यगतं वीर मृत्योरास्यगतं यथा ॥
एवमुक्त्वा महाराज वासुदेवः प्रतापवान् ।
प्रैषयत्तुरगान्यत्र द्रौणिर्वीरो व्यवस्थितः ॥
ते हयाश्चन्द्रसङ्काशाः केशवेन प्रचोदिताः ।
पिबन्त इव चाकाशं जग्मुद्रौणेर्महारथम् ॥
दृष्ट्वा द्रौणिर्महाराज वासुदेवधनंजयौ ।
धृष्टद्युम्नवधे राजंश्चक्रे यत्नं महाबलः ॥
विकृष्यमाणं दृष्ट्वै धृष्टद्युम्नं जनेश्वर ।
शरांश्चिक्षेप वै पार्थो द्रौणिं प्रति महारथः ॥
ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम् ।
द्रौणिमासाद्य विविशुर्वल्मीकमिव पन्नगाः ॥
विद्धस्तु तैः शरैर्घोरैद्रोणपुत्रः प्रतापवान् ।
उत्सृज्य समरे राजन्पाञ्चालममितौजसम् ॥
आरुरोह रथं वीरो धनञ्जयशरार्दितः ।
प्रगृह्य च धनुः श्रेष्ठं पार्थं विव्याध सायकैः ॥
एतस्मिन्नन्तरे शूरः सहदेवो जनाधिप ।
अपोवाह रथेनाजौ पार्षतं शत्रुतापनम् ॥
अर्जुनोऽपि महाराज द्रौणिं विव्याध पत्रिभिः ।
तं द्रोणपुत्रः संरब्धो बाह्वोरुरसि चार्पयत् ॥
क्रोधितस्तु रणे पार्थो नाराचं कालसन्निभम् ।
द्रोणपुत्राय चिक्षेप यमदण्डमिवापरम् ॥
स ब्राह्मणस्यांसदेशे निपपात महाद्युतेः । स विह्वलो महाराज शरवेगेन संयुगे ।
निषसाद रथोपस्थे वैक्लव्यं परमं ययौ ॥
तं तु मत्वा हतं वीरं सारथिः शत्रुकर्शनम् ।
अपोवाह रणेनाजौ त्वरमाणो रणाजिरात् ॥
अथोद्धृष्टं महाराज पाञ्चालैर्जितकाशिभिः ।
मोक्षितं पार्षतं दृष्ट्वा द्रोणपुत्रं च पीडितम् ॥
वादित्राणि च दिव्यानि प्रावाद्यन्त सहस्रशः ।
सिंहनादश्च सञ्जज्ञे दृष्ट्वा युद्धं तदद्भुतम् ॥
ततः कर्णो महाराज व्याक्षिपद्विजयं धनुः । दृष्ट्वार्जुनं रणे क्रुद्धः प्रेक्षते च मुहुर्मुहुः ।
द्वैरथं चापि पार्थेन गन्तुकामो महाद्युतिः ॥
एवं कृत्वाऽब्रवीत्पार्थो वासुदेवं धनञ्जयः ।
याहि संशप्तकान्कृष्ण कार्यमेतत्परं मम ॥
ततः प्रयातो गोविन्दः श्रुत्वा पाण्डवभाषितम् ।
रथेनातिपताकेन मनोमारुतरंहसा ॥
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते ।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टपञ्चाशोऽध्यायः ॥ 58 ॥

श्रीः