अध्यायः 061

कृष्णेनार्जुनम्प्रति कुरूणां युधिष्ठिरग्रहणोद्यमकथनम् ॥ 1 ॥

सञ्जय उवाच ।
तेषां प्रवृत्ते सङ्ग्रामे विपुले शोणितोदके ।
रराज लोहितेनोर्वी संसिक्ता बहुधा भृशम् ॥
ततो रजसि संशान्ते प्रकाशः सर्वतोऽभवत् । एतस्मिन्नन्तरे पार्थं कृष्णो वचनमब्रवीत् ।
दर्शयन्निव कौन्तेयं धर्मराजं युधिष्ठिरम् ॥
एष पाण्डव ते भ्राता धार्तराष्ट्रैर्महाबलैः ।
जिघांसुभिर्महेष्वासैः शीघ्रं पार्थोऽनुसार्यते ॥
तमन्वगेव पाञ्चालाश्चेदिमात्स्याश्च भारत ।
अनुयान्ति महात्मानं परीप्सन्तो महाजवाः ॥
एष दुर्योधनः पार्थ गजानीकेन दंशितः ।
राजा सर्वस्य लोकस्य राजानमनुधावति ॥
जिघांसुः पुरुषव्याघ्रं भ्रातृभिः सहितो बली ।
आशीविषसमस्पर्शैः सर्वायुधविशारदैः ॥
नदद्भिः सिंहनादांश्च धमद्भिश्चापि वारिजान् ।
बलवद्भिर्महेष्वासैर्विधून्वानैर्धनूंषि च ॥
एते जिघृक्षवो यान्ति द्विपाश्वरथपत्तयः ।
युधिष्ठिरं धार्तराष्ट्रो रत्नोत्तममिवार्थिनः ॥
पश्य सात्वतभीमाभ्यां निरुद्धा विष्ठिताः पुनः ।
जिहीर्षवोऽमृतं दैत्याः शक्राग्निभ्यामिवाहवे ॥
एते बहुत्वात्त्वरिताः पुनर्गच्छन्ति पाण्डवम् ।
समुद्रमिव वार्योघाः प्रावृट््काले महारथाः ॥
मृत्योर्मुखगतं मन्ये कुन्तीपुत्रं युधिष्ठिरम् ।
हुतमग्नौ च कौन्तेयं दुर्योधनवशं गतम् ॥
यथायुक्तमनीकं हि धार्तराष्ट्रस्य पाण्डव ।
नास्य शक्रोऽपि मुच्येत सम्प्राप्तो बाणगोचरम् ॥
दुर्योधनस्य वीरस्य शरौघाञ्शीघ्रमस्यतः ।
सङ्क्रुद्धस्यान्तकस्येव को वेगं संसहेद्रणे ॥
रसतस्तस्य वीरस्य द्रौणेः शारद्वतस्य च ।
कर्णस्य चेषुवेगो वै पर्वतानपि शातयेत् ॥
कर्णेन च कृतो राजा विमुखोऽद्य तु दृश्यते ॥
बलवाँल्लुघुहस्तश्च कृती युद्धविशारदः । राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे ।
सहितो धृतराष्ट्रस्य पुत्रैः शूरैर्महाबलैः ॥
तस्यैभिर्युध्यमानस्य सङ्ग्रामे शंसितात्मनः ।
अन्यैरपि च पार्थस्य कृतं कर्म महारथैः ॥
उपवासकृशो राजा भृशं भरतसत्तमः ।
ब्राह्मो बले स्थितो ह्येष न क्षात्रे हि बले विभुः ॥
कर्णेन चाभियुक्तोऽयं भूपतिः शत्रुतापनः ।
संशयं समनुप्राप्तः पाण्डवो वै युधिष्ठिरः ॥
न जीवति महाराजो मन्ये पार्थ युधिष्ठिरः ।
यद्भीमसेनः सहते सिंहनादममर्षणः ॥
नर्दतां धार्तराष्ट्राणां पुनःपुनररिन्दमः ।
धमतां च महाशङ्खान्सङ्ग्रामे जितकाशिनाम् ॥
युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ ।
सञ्चोदयत्यसौ कर्णो धार्तराष्ट्रान्महाबलान् ॥
स्थूणाकर्णास्त्रजालेन पार्थ पाशुपतेन च ।
प्रच्छादयन्ति राजानमनुयान्ति महारथाः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकषष्टितमोऽध्यायः ॥ 61 ॥

8-61-9 जिहीर्षवो युधिष्ठिरं हर्तुमिच्छन्तः ॥ 8-61-17 तस्य युधिष्ठिरस्य कर्म कर्तव्यं पराजयाख्यम् । एभिर्दुर्योधनादिभिः कृतं निष्पादितम् ॥ 8-61-18 तत्र हेतुः । ब्राह्मे बलं क्षमायाम् क्षात्रे बले निष्ठुरत्वे ॥ 8-61-22 हत नाशयतेति कर्णश्चोदयतीति सम्बन्धः ॥ 8-61-23 स्थूणाकर्णो गन्धर्वः ॥ 8-61-61 एकषष्टितमोऽध्यायः ॥

श्रीः