अध्यायः 063

रणाय राज्ञां द्वन्द्वीभावः ॥ 1 ॥ कर्णेन शिखण्डिपराजयः ॥ 2 ॥ धृष्टद्युम्नदुःशासनयोर्युद्धम् ॥ 3 ॥

धृतराष्ट्र उवाच ।
निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे ।
वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः ॥
द्रवमाणे बलौघे च निराक्रन्दे मुहुर्मुहुः ।
`अवशेषं न पश्यामि मम सैन्येषु सञ्जय ॥
अहो बत दशां प्राप्तो न हि शक्ष्यामि जीवितुम् ।
जयकाङ्क्षी कथं सूत पुत्राणामनिवर्तिनाम् ॥
कथं जीवामि निहताञ्श्रुत्वा च मम सैनिकान् ।
बहुनाऽद्य किमुक्तेन दैवं तेषां परायणम्' ॥
मामकाः किमकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥
सञ्जय उवाच ।
दृष्ट्वा भीमं महाबाहुं तव पुत्रः प्रतापवान् ।
क्रोधरक्तेक्षणो राजन्भीमसेनमभिद्रवत् ॥
`तिष्ठतिष्ठ पृथापुत्र पश्य मेऽद्य पराक्रमम् । अद्य त्वां प्रेषायष्यामि यमस्य सदनं प्राते ।
इत्युक्त्वा प्रययौ कर्णो यत्र भीमो व्यवस्थितः' ॥
तावकं तु बलं दृष्ट्वा भीमसेनात्पराङ्मुखम् ।
यत्नेन महता कर्णः पर्यवस्थापयद्बली ॥
व्यवस्थाप्य महाबाहुस्तव पुत्रस्य वाहिनीम् ।
प्रत्युद्ययौ तदा कर्णः पाण्डवान्युद्धदुर्मदान् ॥
प्रत्युद्ययुश्च राधेयं पाण्डवानां महारथाः ।
धुन्वानाः कार्मुकाण्याजौ विक्षिपन्तश्च सायकान् ॥
भीमसेनः शिनेर्नप्ता शिखण्डी जनमेजयः ।
धृष्टद्युम्नश्च बलवान्सर्वे चापि प्रभद्रकाः ॥
पाञ्चालानां नरव्याघ्राः समन्तात्त्व वाहिनीम् ।
अभ्यद्रवन्त सङ्क्रुद्धाः समरे जितकाशिनः ॥
तथैव तावका राजन्पाण्डवानामनीकिनीम् ।
अभ्यद्रवन्त त्वरिता जिघांसन्तो महारथान् ॥
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
बभूव पुरुषव्याघ्र सैन्यमद्भुतदर्शनम् ॥
शिखण्डी तु ययौ कर्णं धृष्टद्युम्नः सुतं तव ।
दुःशासनं महाराज महासेनः समभ्ययात् ॥
नकुलो वृषसेनं तु चित्रसेनं युधिष्ठिरः ।
उलूकं समरे राजन्सहदेवः समभ्ययात् ॥
सात्यकिः शकुनिं चापि द्रौपदेयाश्च कौरवान् ।
अर्जुनं च रणे यत्तो द्रोणपुत्रो महारथः ॥
युधामन्युं महेष्वासं गौतमोऽभ्यपतद्रणे ।
कृतवर्मा च बलवानुत्तमौजसमाद्रवत् ॥
भीमसेनः कुरून्सर्वान्पुत्रांश्च तव मारिष ।
सहानीकान्महाबाहुरेक एव न्यवारयत् ॥
शिखण्डी तु ततः कर्णं विचरन्तमभीतवत् ।
भीष्महन्ता महाराज वारयामास पत्रिभिः ॥
प्रतिरुद्धस्ततः कर्णो रोपात्प्रस्फुरिताधरः ।
शिखण्डिनं त्रिभिर्बाणैर्भ्रुवोर्मध्येऽभ्यताडयत् ॥
धारयंस्तु स तान्वाणाञ्शिखण्डी बह्वशोभत ।
राजतः पर्वतो यद्वत्त्रिभिः शृङ्गैः समन्वितः ॥
सोऽतिविद्धो महेष्वासः सूतपुत्रेण संयुगे ।
कर्णं विव्याध समरे नवत्या निशितैः शरैः ॥
तस्य कर्णो हयान्हत्वा सारथिं च शरैः ।
उन्ममाथ ध्वजं चास्य क्षुरप्रेण महारथः ॥
हताश्वात्तु ततो यानादवप्लुत्य महारथः ।
शक्तिं चिक्षेप कर्णाय सङ्क्रुद्धः शत्रुतापनः ॥
तां छित्त्वा समरे कर्णस्त्रिभिर्भारत सायकैः ।
शिखण्डिनमथाविध्यन्नवभिर्निशितैः शरैः ॥
कर्णचापच्युतान्बाणान्वर्जयंस्तु नरोत्तमः ।
अपयातस्ततस्तूर्णं शिखण्डी भृशविक्षतः ॥
ततः कर्णो महाराज पाण्डुसैन्यान्यशातयत् ।
तूलराशिं समासाद्य यथा वायुर्महाबलः ॥
धृष्टद्युम्नो महाराज तव पुत्रेण पीडितः ।
दुःशासनं त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥
तस्य दुःशासनो बाहुं सव्यं विव्याध मारिष ।
स तेन रुक्मपुङ्खेन भल्लेन नतपर्वणा ॥
धृष्टद्युम्नस्तु निर्विद्धः शरं घोरममर्षणः ।
दुःशासनाय सङ्क्रुद्धः प्रेषयामास भारत ॥
आपतन्तं महावेगं धृष्टद्युम्नसमीरितम् ।
शरैश्चिच्छेद पुत्रस्ते त्रिभिरेव विशाम्पते ॥
अथापरैः षोडशभिर्भल्लैः कनकभूषणैः ।
धृष्टद्युम्नं समासाद्य बाह्वोरुरसि चार्पयत् ॥
ततः स पार्षतः क्रुद्धो धनुश्चिच्छेद मारिष ।
क्षुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर्जनाः ॥
अथान्यद्धनुरादाय पुत्रस्ते प्रहसन्निव ।
धृष्टद्युम्नं शरव्रातैः समन्तात्पर्यवारयत् ॥
तव पुत्रस्य ते दृष्ट्वा विक्रमं सुमहात्मनः ।
व्यस्मयन्त रणे योधाः सिद्धाश्चाप्सरसस्तथा ॥
धृष्टद्युम्नं तु पश्याम घटमानं महाबलम् ।
दुःशासनेन संरुद्धं सिंहेनेव महागजम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिषष्टितमोऽध्यायः ॥ 63 ॥

श्रीः