अध्यायः 001

शिबिराद्धास्तिनपुरमुपगतवता सञ्जयेन धृतराष्ट्रंप्रति कर्णादिनिधनकथनम् ॥ 1 ॥ तच्छ्रवणेन मूर्च्छामुपगतवतो धृतराष्ट्रस्य सञ्जयादिभिराश्वासनम् ॥ 2 ॥

श्रीवेदव्यासाय नमः ।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
`वैशम्पायन उवाच ।
शिबिराद्धास्तिनपुरं प्राप्य भारत सञ्जयः । प्रविवेश महाबाहुर्धृतराष्ट्रनिवेशनम् ॥
शोकेनापहतः सूतो विलपन्भृशदुःखितः ।
चिन्तयन्निधनं घोरं सूतपुत्रस्य पाण्डवैः ॥
अन्तःपुरं प्रविश्यैव सञ्जयो राजसत्तमम् ।
अश्रुपूर्णो भृशं त्रस्तो राजानमुपजग्मिवान् ॥
उपस्थाय च राजानं विनिश्वस्य च सूतजः ।
नातिहृष्टमना राजन्निदं वचनमब्रवीत् ॥
सञ्जय उवाच ।
सञ्चयोऽहं महाराज नमस्ते भरतर्षभ ।
हतो वैकर्तनः कर्णः कृत्वा कर्म सुदुष्करम् ॥
चेदिकाशिकरूशानां मत्स्यानां सोमकैः सह ।
कृत्वाऽसौ कदनं शेते वातनुन्न इव द्रुमः ॥
गोष्ठमध्येव ऋषभो गोव्रजैः परिवारितः ।
व्यालेन निहतो यद्वत्तथाऽसौ निहतः परैः ॥
निराशान्पाण्डवान्कृत्वा दृढं राजन्ससात्यकान् ।
पाञ्चालानां रथांश्चैव विनिहत्य सहस्रशः ॥
जित्वा शूरान्महेष्वासान्विद्राव्य च दिशोदश ।
हतो वैकर्तनः कर्णः पाण्डवेन किरीटिना ॥
वैरस्य गत आनृण्यं दुर्गमस्य दुरात्मभिः ।
हत्वा कर्णं महाराज विशल्यः पाण्डवोऽभवत् ॥
शोषणं सागराणां वा पतनं वा विवस्वतः ।
विशीर्णत्वं यथा मेरोस्तथा कर्णस्य पातनम् ॥
योधाश्च बहवो राजन्हतास्तत्र जयैषिणः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥
रथौघाश्च नरौघाश्च हता राजन्सहस्रशः ।
वारणा निहतास्तत्र वाजिनश्च महाहवे ॥
क्षत्रियाश्च महाराज सेनयोरुभयोर्हताः ।
परस्परं वै वीक्ष्यात्र परस्परकृतागसः ॥
किञ्चिच्छेषान्परान्कृत्वा तीर्त्वा पाण्डववाहिनीम् ।
पार्थवेलां समासाद्य हतो वैकर्तनो वृषा ॥
जयाशा धार्तराष्ट्राणां वैरस्य च मुखं नृप ।
तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ॥
प्रोच्यमानं महाराज बन्धुभिर्हितबुद्धिभिः ।
तदिदं समनुप्राप्तं व्यसनं त्वां महाभयम् ॥
पुत्राणां राज्यकामेन त्वया राजन्हितैषिणा ।
चरितान्यहितान्येव तेषां ते फलमागतम् ॥
हतो दुःशासनो राजन्यथोक्तं पाण्डवेन तु ।
प्रतिज्ञा भीमसेनेन निस्तीर्णा सा चमूमुखे ॥
पीतं च क्षतजं तस्य धार्तराष्ट्रस्य संयुगे ।
पाण्डवेन महाराज कर्म कृत्वा सुदुष्करम्*' ॥
वैशम्पायन उवाच ।
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः । शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् ।
विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ॥
तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे ।
आर्तनादो महानासीत्स्त्रीणां भरतसत्तम ॥
श शब्दः पृथिवीं कृत्स्नां पूरयामास सर्वशः ॥
शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः ।
रुरुदुर्दुःखशोकार्ता भृशमुद्विग्नचेतसः ॥
राजानं च समासाद्य गान्धारी भरतर्षभ ।
निःसंज्ञा पतिता भूमौ सर्वाण्यन्तः पुराणि च ॥
ततस्ताः स़ञ्जयो राजन्समाश्वासयदातुराः ।
मुह्यामानाः सुबहुशो मुञ्चन्तीर्वारि नेत्रजम् ॥
समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः ।
कदल्य इव वातेन धूयमानाः समन्ततः ॥
राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् ।
आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् ॥
स लब्ध्वा सनकैः संज्ञां ताश्च दृष्ट्वा स्त्रियो नृपः ।
उन्मत्त इव राजेन्द्र स्थितस्तूष्णीं विशाम्पते ॥
ततो ध्यात्वा चिरं कालं निःश्वस्य च पुनःपुनः ।
स्वान्पुत्रान्गर्हयामास बहुमेने च पाण्डवान् ॥
गर्हयंश्चात्मनो बुद्धिं शकुनेः सौबलस्य च ।
ध्यात्वा तु सुचिरं कालं वेपमानो मुहुर्मुहुः ॥
संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः ।
पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् ॥
न त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया ॥
कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् । जये निराशः पुत्रो मे सततं जयकामुकः ।
ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् ॥
वैशम्पायन उवाच ।
एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय । हतो वैकर्तनो राजन्सहपुत्रैर्महारथः ।
भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ॥
दुःशासनश्च निहतः पाण्डवेन यशस्विना ।
पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ॥
`वैशम्पायन उवाच ।
एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः । दह्यमानोऽब्रवीत्सूतं मुहूर्तं तिष्ठ सञ्जय ।
व्याकुलं मे मनस्तात मा तावत्किंचिदुच्यताम् ॥
राजापि नाब्रवीत्किञ्चित्सञ्जयो विदुरस्तथा ।
तूष्णीम्भूतस्तदा सोऽथ बभूव जगतीपतिः' ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि प्रथमोऽध्यायः ॥ 1 ॥