अध्यायः 003

सञ्जय उवाच ।
हते द्रोणे महेष्वासे तव पुत्रा महारथाः ।
बभूवुरस्वस्थमुखा विषण्णा गतचेतसः ॥
अवाङ्मुखाः शस्त्रभृतः सर्व एव विशाम्पते ।
अवेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् ॥
तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत ।
ऊर्ध्वमेव निरैक्षन्त दुःखत्रस्तान्यनेकशः ॥
शस्त्राण्येषां तु राजेन्द्र शोणिताक्तानि सर्वशः ।
प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं हतं युधि ॥
तानि बद्वान्यरिष्टानि लम्बमानानि भारत ।
अदृश्यन्त महाराज नक्षत्राणि यथा दिवि ॥
तथा तु स्तिमितं दृष्ट्वा गतसत्वमवस्थितम् ।
बलं तव महाराज राजा दुर्योधनोऽब्रवीत् ॥
भवतां बाहुवीर्यं हि समाश्रित्य मया युधि ।
पाण्डवेयाः समाहूता युद्वं चेदं प्रवर्तितम् ॥
तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते ।
युध्यमानाश्च समरे योधा वध्यन्ति सर्वशः ॥
जयो वाऽपि वधो वाऽपि युध्यमानस्य संयुगे ।
भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः ॥
पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि ।
प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् ॥
यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः ।
निवर्तते सदा मन्दः सिंहात्क्षुद्रमृगो यथा ॥
येन नागायुतप्राणो भीमसेनो महाबलः ।
मानुषेणैव युद्धेन तामवस्थां प्रवेशितः ॥
येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः ।
अमोघया रणे शक्त्या निहतो भैरवं नदन् ॥
तस्य दुर्वारवीर्यस्य सत्यसन्धस्य धीमतः ।
बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे ॥
द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः ।
पश्यन्तु पाण्डुपुत्रास्ते विष्णुवासवयोरिव ॥
सर्व एव भवन्तश्च शक्ताः प्रत्येकशोऽपि वा । पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किसु संहताः ।
वीर्यवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् ॥
सञ्जय उवाच ।
एवमुक्त्वा ततः कर्णं चक्रे सेनापतिं तदा ।
तव पुत्रो महावीर्यो भ्रातृभिः सहितोऽनघ ॥
सैनापत्यमथावाप्य कर्णो राजन्महारथः ।
सिंहनादं विनद्योच्चैः प्रायुध्यत रणोत्कटः ॥
ससृञ्जयानां सर्वेषां पाञ्चालानां च मारिष ।
केकयानां विदेहानां चकार कदनं महत् ॥
तस्येषुधाराः शतशः प्रादुरासञ्छरासनात् ।
अग्रे पुङ्खेषु संसक्ता यथा भ्रमरपङ्क्तयः ॥
स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः ।
हत्वा सहस्रशो योधानर्जुनेन निपातितः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि तृतीयोऽध्यायः ॥ 3 ॥

8-1-21 विह्वलः चलनासमर्थः काष्ठवत्पतितः ॥ 8-1-25 अन्तःपुराणि स्त्रियः ॥ 8-1-27 कदल्यइव वेपमाना आसन्निति शेषः ॥ 8-1-29 दृष्ट्वा मनसैवात्मप्रत्ययेन दुःखवतीर्ज्ञत्वा ॥ 8-1-34 इष्टवियोगमात्रेण दशरथादिर्मृतः । अस्यतु जये नैराश्यमधिकं मरणकारणमस्तीति भावः ॥ 8-1-1 प्रथमोऽध्यायः ॥

श्रीः