अध्यायः 065

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
ततः श्वेताश्वसंयुक्ते नारायणसमाहिते ।
तिष्ठन्रथवरे श्रीमानर्जुनः समपद्यत ॥
तद्बलं नृपतिश्रेष्ठ तावकं विजयो रणे ।
व्यक्षोभयदुदीर्णाश्वं महोदधिमिवानिलः ॥
दुर्योधनस्तव सुतः प्रमत्ते श्वेतवाहने ।
अभ्येत्य सहसा क्रुद्धः सैन्यार्धेनाभिसंवृतः ॥
पर्यवारयदायान्तं युधिष्ठिरममर्षणम् ।
क्षुरप्राणां त्रिसप्तत्या ततोऽविध्यत पाण्डवम् ॥
अक्रुध्यत भृशं तत्र कुन्तीपुत्रो युधिष्ठिरः ।
स भल्लांस्त्रिंशतस्तूर्णं तव पुत्रे न्यवेशयत् ॥
ततो धावन्त कौरव्या जिघृक्षन्तो युधिष्ठिरम् ॥
दुष्टभावान्पराञ्ज्ञात्वा समवेता महारथाः ।
आजग्मुस्तं परीप्सन्तः कुन्तीपुत्रं युधिष्ठिरम् ॥
`सञ्जय उवाच ।
युधिष्ठिरश्चित्रसेनं शरवर्षैरवाकिरत् ।
चित्रसेनस्तु कौन्तेयं सङ्क्रुद्धः समवारयत् ॥
मुहूर्ताद्विमुखीकृत्य चित्रसेनं स धर्मराट् ।
तावकं सैन्यमभ्यघ्नत्समन्तान्निशितैः शरैः ॥
तावका हि माबाहो दुर्योधनपुरोगमाः ।
युधिष्ठिरं जिघृक्षन्तः सर्वसैन्यं समाक्षिपन् ॥
दृष्टप्रभावांस्तान्मत्वा समवेतान्महारथान् ।
आजग्मुः सम्परीप्सन्तः पाण्डवेयं युधिष्ठिरम्' ॥
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।
अक्षौहिण्या परिवृतास्तेऽभ्यधावन्युधिष्टिरम् ॥
भीमसेनश्च नाराचैर्मृद्रंस्तव महारथान् ।
अभ्यधावदभिप्रेप्सू राजानं शत्रुभिर्वृतम् ॥
तांस्तु सर्वान्महेष्वासान्कर्णो वैकर्तनो वृषा ।
शरवर्षेण महता प्रत्यवारयदागतान् ॥
शरौघान्विसृजन्तस्ते प्रेयन्तश्च कुञ्जरान् ।
न शेकुर्यत्नवन्तोऽपि राधेयं प्रतिवीक्षितुम् ॥
तांश्च सर्वान्महेष्वासान्सर्वशस्त्रविशारदान् ।
महता शरवर्षेण राधेयः प्रत्यवारयत् ॥
दुर्योधनं च विंशत्या नाराचानां कृती बली ।
अविध्यत्तूर्णमभ्येत्य सहदेवो महीपतिम् ॥
स विद्धः सहदेवेन रराज बलसन्निधौ ।
प्रभिन्न इव मातङ्गो रुधिरेण परिप्लुतः ॥
दृष्ट्वा तव सुतं तत्र गाढविद्धं सुतेजनैः ।
अभ्यधावद्दृढं क्रुद्धो राधेयो रथिनां वरः ॥
दुर्योधनं तथा दृष्ट्वा शीघ्रमस्त्रमुदीर्य सः ।
अवधीत्पाण्डवानीकं पाञ्चालांश्चैव मारिष ॥
ततो यौधिष्ठिरं सैन्यं वध्यमानं महात्मना ।
सहसा प्राद्रावद्राजन्मूतपुत्रशरार्दितम् ॥
विविधा विशिखास्तत्र सम्पतन्ति परस्परम् ।
भल्लाः पुङ्खसमाश्लिष्टाः सूतपुत्रधनुश्च्युताः ॥
अन्तरिक्षे शरौघाणां पततां च परस्परम् ।
सङ्घर्पेण महाराज पावकः समजायत ॥
तकतो दशदिशः कर्णः शलभैरिव यायिभिः ।
अभ्यघ्नंस्तरसा राजञ्शरैः परशरीरगैः ॥
रक्तचन्दनसन्दिग्धौ मणिहेमविभूषितौ ।
बाहू व्यत्यक्षिपत्कर्णः परमास्त्रं विदर्शयन् ॥
ततः सर्वा दिशो राजन्सायकैर्विप्रमोहयन् ।
अपीडयद्भृशं कर्णो धर्मराजं युधिष्ठिरम् ॥
ततः क्रुद्धो महाराज धर्मपुत्रो युधिष्ठिरः ।
निशितैरिषुभिः कर्णं पञ्चाशद्भिः समार्पयत् ॥
[बाणान्धकारमभवत्तद्युद्धं घोरदर्शनम् ।
हाहाकारो महानासीत्तावकानां विशाम्पते ॥
वध्यमाने तदा सैन्ये धर्मपुत्रेण मारिष । सायकैर्विविधैस्तीक्ष्णैः कङ्कपत्रैः शिलाशितैः ।
भल्लैरनेकैर्विविधैः शक्त्यृष्टिमुसलैरपि ॥
यत्र यत्र स धर्मात्मा दुष्टां दृष्टिं व्यसर्जयत् ।
तत्र तत्र व्यशीर्यन्त तावका भरतर्षभ ॥
कर्णोऽपि भृशसङ्कुद्रो धर्मराजं युधिष्ठिरम् ।
नाराचैरर्धचन्द्रैश्च वत्सदन्तैश्च संयुगे ॥
अमर्षी क्रोधनश्चैव रोषप्रस्फुरिताननः ।
सायकैरप्रमेयात्मा युधिष्ठिरमभिद्रवत् ॥
युधिष्ठिरश्चापि स तं स्वर्णपुङ्खैः शितैः शरैः ॥]
प्रहसन्निव तं कर्णः कङ्कपत्रैः शिलाशितैः ।
उरस्यविध्यद्राजानं कुन्तीपुत्रं युधिष्ठिरम् ॥
स पीडितो भृशं तेन धर्मराजो युधिष्ठिरः ।
उपविश्य रथोपस्थे सूतं याहीत्यनोदयत् ॥
अक्रोशन्त ततः सर्वे धार्तराष्ट्राः सराजकाः ।
गृह्णीध्वमिति राजानमभ्यधावन्त सर्वशः ॥
ततः शताः सप्तदश केकयानां प्रहारिणाम् ।
पञ्चालैः सहिता राजन्धार्तराष्ट्रान्न्यवारयन् ॥
तस्मिन्सुतुमुले युद्धे वर्तमाने जनक्षये ।
दुर्योधनश्च भीमश्च समेयातां महाबलौ ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चषष्टितमोऽध्यायः ॥ 65 ॥

श्रीः