अध्यायः 066

कर्णबाणपीडितस्य युधिष्ठिरस्य विश्रमाय स्वशिबिरप्रवेशः ॥ 1 ॥

सञ्जय उवाच ।
कर्णोऽपि शरजालेन केकयानां महारथान् ।
व्यधमत्परमेष्वासानग्रानीके व्यवस्थितान् ॥
तेषां प्रयतमानानां राधेयस्य निवारणे ।
रथान्पञ्चशतान्कर्णः प्राहिणोद्यमसादनम् ॥
अविषह्यतमं दृष्ट्वा राधेयं युधि योधिनः ।
भीमसेनमुपागच्छन्कर्णबाणप्रपीडिताः ॥
रथानीकं विदार्यैव शरै राजन्ननेकधा ।
कर्ण एकरथेनैव युधिष्ठिरमुपाद्रवत् ॥
सेनानिवेशं गच्छन्तं मार्गणैर्भृशपीडितम् ।
यमयोर्मध्यगं वीरं शनैर्यान्तं विचेतसम् ॥
स समासाद्य राजानं दुर्योधनहितेप्सया ।
सूतपुत्रस्त्रिभिस्तीक्ष्णैर्विव्याध परमेषुभिः ॥
तथैव राजा राधेयं प्रत्यविध्यत्स्तनान्तरे ।
शरैस्त्रिभिश्च यन्तारं चतुर्भिश्चतुरो हयान् ॥
चक्ररक्षौ नृपसुतौ माद्रीपुत्रौ परन्तपौ ।
तावप्यधावतां कर्णं राजानं मा वधीदिति ॥
तौ पृथक्शरवर्षाभ्यां राधेयं समवर्षताम् ।
नकुलः सहदेवश्च परमं यत्नमास्थितौ ॥
तथैव तौ प्रत्यविध्यत्सूतपुत्रः प्रतापवान् ।
भल्लाभ्यां शितधाराभ्यां महात्मानावरिन्दमौ ॥
दन्तवर्णांस्तु राधेयो निजघान मनोजवान् ।
युधिष्ठिरस्य सङ्ग्रामे कालवालान्हयोत्तमान् ॥
ततोऽपरेण भल्लेन शिरस्त्राणमपातयत् ।
कौन्तेयस्य महेष्वासः प्रहसन्निव सूतजः ॥
तथैव नकुलस्यापि हयान्हत्वा महारथः । ततोऽपरेण भल्लेन भृशं तीक्ष्णेन भारत ।
धनुश्चिच्छेद वीरस्य माद्रीपुत्रस्य धीमतः ॥
तौ हताश्वौ हतरथौ पाण्डवौ भृशविक्षतौ ।
भ्रातरावारुरुहतुः सहदेवरथं तदा ॥
तौ दृष्ट्वा मातुलस्तत्र विरथौ परवीरहा ।
अभ्यभाषत राधेयं मद्रराजोऽनुकम्पया ॥
मार्गितव्यस्त्वया कर्ण कुन्तीपुत्रो धनञ्जयः ।
अतस्त्वं धर्मराजेन किमर्थमिह युध्यसे ॥
[क्षीणशस्त्रास्त्राकवचः क्षीणबाणो विबाणधिः । श्रान्तसारथिवाहश्च च्छन्नोऽस्त्रैररिभिस्तथा ।
पार्थमासाद्य राधेय उपहास्यो भविष्यसि ॥]
तथापि कर्णः संरब्धो युधिष्ठिरमपीडयत् ।
शरैस्तीक्ष्णैर्महावीर्यैर्माद्रीपुत्रौ च पाण्डवौ ॥
ततः शल्यः प्रहस्येदं कर्णं पुनरुवाच ह ।
रथस्थमतिसंरब्धं युधिष्ठिरवधे स्थितम् ॥
यदर्थं धार्तराष्ट्रेण सततं मानितो भवान् । तं पार्थ जहि राधेय किं ते हत्वा युधिष्ठिरम् ।
`हते यस्मिन्ध्रुवं पार्थः सर्वाञ्जेष्यति नो रथान् ॥
तस्मिन्हि धार्तराष्ट्रस्य निहते तु ध्रुवो जयः । ध्वजोऽसौ दृश्यते तस्य रोचमानोंऽशुमानिव ।
सारो ह्येष महाबाहो किं ते हत्वा युधिष्ठिरम् ॥'
शङ्खयोर्ध्मातयोः शब्दः सुमहानेष कृष्णयोः ।
श्रूयते चापघोषश्च प्रावृषीवाम्बुदस्य ह ॥
असौ निघ्नन्रथोदारानर्जुनः शरवृष्टिभिः ।
सर्वां ग्रसति नः सेनां कर्ण पश्यैनमाहवे ॥
पृष्ठरक्षौ च शूरस्य युधामन्यूत्तमौजसौ ॥
उत्तरं चास्य वै शूरश्चक्रं रक्षति सांत्यकिः ।
धृष्टद्युम्नस्तथा चास्य चक्रं रक्षति दक्षिणम् ॥
भीमसेनश्च वै राज्ञा धार्तराष्ट्रेण युध्यते । यथा न हन्यात्तं भीमः सर्वेषां नोऽद्य पश्यताम् ।
कुरु राधेय वै राजा यथा मुच्येत तत्तथा ॥
xxxx भीमसेनेन ग्रस्तमाहवशोभिना ।
यदि नामाद्य मुच्येत विस्मयः सुमहान्भवेत् ॥
परित्राह्येनमभ्येत्य संशयं परमं गतम् ।
किं नु माद्रीसुतौ हत्वा राजानं वा युधिष्ठिरम् ॥
इति शल्यवचः श्रुत्वा राधेयः पृथिवीपते ।
दृष्ट्वा दुर्योधनं चैव भीमग्रस्तं महाहवे ॥
राजगृध्नुर्भृशं चैव शल्यवाक्यप्रचोदितः ।
अजातशत्रुमुत्सृज्य माद्रीपुत्रौ च पाण्डवौ ॥
तव पुत्रं परित्रातुमभ्यधावत वीर्यवान् ।
मद्रराजप्रणुदितैरश्वैराकाशगैरिव ॥
गते कर्णे तु कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः ।
अपायाज्जवनैरश्वैः सहदेवस्य मारिष ॥
[ताभ्यां स सहितस्तूर्णं व्रीडन्निव नरेश्वरः] ।
प्राप्य सेनानिवेशं स्वं मार्गणैर्भृशविक्षतः ॥
अवतीर्य रथात्तूर्णमाविशच्छयनं शुभम् ।
अपेतशल्यो राजा तु हृच्छल्येनाभिपीडितः ॥
सोऽब्रवीद्धातरौ राजा माद्रीपुत्रौ महारथौ ।
गच्छन्त त्वरितौ वीरौ यत्र भीमो व्यवस्थितः ॥
`ततस्ते पाण्डवाः सर्वे समाभाष्य परस्परम् । अनीकं भीमसेनस्य पाण्डवावभ्यगच्छताम्' ।
जीमूत इव नर्दंस्तु युध्यते स वृकोदरः ॥
ततोऽन्यं रथमास्थाय नकुलो रथपुङ्गवः ।
सहदेवश्च तेजस्वी भ्रातरौ शत्रुकर्शनौ ॥
तुरगैरग्र्यरंहोभिर्यत्र भीमस्तरस्विनौ ।
अनीकैः सहितौ तत्र भ्रातरौ समवस्थितौ ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट््षष्टितमोऽध्यायः ॥ 66 ॥

श्रीः