अध्यायः 068

कर्णबाणव्यथापनोदनाय युधिष्ठिरं शिबिरगतं विज्ञाय शत्रुनिग्रहे भीमनियोजनपूर्वकमर्जुनेन सह श्रीकृष्णस्य तत्समीपं प्रति गमनम् ॥ 1 ॥

सञ्जय उवाच ।
ततो जनार्दनः श्रुत्वा तस्य वाक्यं विशाम्पते ।
रथेनापययौ क्षिप्रं सङ्ग्रामादिति भारत ॥
प्रत्यनीकमवस्थाप्य भीमं भीमपराक्रमम् ।
अलं विषहितुं ह्येष कुरूणां सम्प्रपश्यताम् ॥
कर्णं च समरे राजन्ग्राहयिष्यञ्श्रमं प्रति । विश्वमार्थं च कौरव्य पार्थस्य च महात्मनः ।
अपयातो रणाद्वीरो राजानं द्रष्टुमेव च ॥
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः ।
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि ॥
ततो धनञ्जयः श्रुत्वा राजानं शल्यपीडितम् । याहियाहिति बहुशो वासुदेवमचोदयत् ।
राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः ॥
स चोद्यमानः पार्थेन केशिघ्नो वृष्णिनन्दनः ।
रथेनापययौ क्षिप्रं सङ्ग्रामाद्धोरदर्शनात् ॥
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया ।
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम् ॥
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत ।
दुःसहं वज्रिणा सङ्ख्ये पराजित्य गुरोः सुतम् ॥
द्रौणिं पराजित्य ततोग्रधन्वा कृत्वा महद्दुष्करं शूरकर्म ।
आलोकयामास ततः स्वसैन्यं धनञ्जयः शत्रुभिरप्रधृष्यः ॥
संयुध्यमानान्पृतनामुखस्था-- ञ्शूरः शूरान्हर्षयन्सव्यसाची ।
पूर्वापदानैः प्रथितैः प्रशंस-- न्स्थितांश्चकारात्मरथाननीके ॥
अपश्यमानस्तु किरीटमाली युधिष्ठिरं भ्रातरमाजमीढम् ।
उवाच भीमं तरसाभ्युपेत्य राज्ञः प्रवृत्तिस्त्विह कुत्र चेति ॥
भीमसेन उवाच ।
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः ।
कर्णबाणाभितप्ताङ्गो यदि जीवेत्कथञ्चन ॥
अर्जुन उवाच ।
तस्माद्भवाञ्शीघ्रमितः प्रयातु ज्ञातुं प्रवृत्तिं पुरुषर्षभस्य ।
नूनं स विद्धोऽतिभृशं पृषत्कैः कर्णेन राजा शिबिरं गतोऽसौ ॥
यः सम्प्रहारैर्युधि सम्प्रवृत्ते द्रोणेन विद्धोऽतिभृशं तरस्वी ।
तस्थौ स तत्रापि जयप्रतीक्षो द्रोणेन यावन्न हतः किलासीत् ॥
स संशयं गमितः पाण्डवाग्र्यः सङ्ख्येऽद्य कर्णेन महानुभावः ।
ज्ञातुं प्रयाह्याशु तमद्य भीम स्थास्याम्यहं शत्रुगणान्निरुध्य ॥
भीमसेन उवाच ।
त्वमेव जानीहि महानुभाव राज्ञः प्रवृत्तिं भरतर्षभस्य ।
अहं हि यद्यर्जुन याम्यमित्रा वदन्ति मां भीत इति प्रवीराः ॥
ततोऽब्रवीदर्जुनो भीमसेनं संशप्तकाः प्रत्यनीकस्थिता मे ।
एतानहत्वाद्य मया न शक्य-- मितोपयातुं रिपुसङ्खमध्यात् ॥
अथाब्रवीदर्जुनं भीमसेनः स्ववीर्यमासाद्य कुरुप्रवीर ।
संशप्तकान्प्रतियोत्स्यामि सङ्ख्ये सर्वानहं याहि धनञ्जय त्वम् ॥
तद्भीमसेनस्य वचो निशम्य धनञ्जयो भ्रातुरमित्रमध्ये ।
द्रष्टुं कुरुश्रेष्ठमभिप्रयास्य-- न्प्रोवाच वृष्णिप्रवरं तदानीम् ॥
अर्जुन उवाच ।
`राजानं प्रति वार्ष्णेय दूयते मे दृढं मनः' । चोदयाश्वान्हृषीकेश विहायैतद्बलार्णवम् ।
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव ॥
सञ्जय उवाच ।
`तं रथ चोदयामास बीभत्सोर्वचनाद्धरिः' ॥
ततो हयान्सर्वदाशार्हमुख्यः प्रचोदयन्भीममुवाच चेदम् ।
नैतच्चित्रं तव कर्माद्य भीम यास्यावहे जहि पार्थारिसङ्घान् ॥
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः ।
शीघ्राच्छीघ्रतरो राजन्वाजिभिर्गरुडोपमैः ॥
प्रत्यनीके त्ववस्थाप्य भीमसेनमरिन्दमम् ।
सन्दिश्य चैनं राजेन्द्र युद्धं प्रति वृकोदरम् ॥
ततस्तु गत्वा पुरुषप्रवीरौ राजानमासाद्य शयानमेकम् ।
रथादुभौ प्रत्यवरुह्य तस्मा-- द्ववन्दतुर्धर्मराजस्य पादौ ॥
`इत्येवमुपसङ्गृह्य उभौ तु पाञ्जली स्थितौ । शस्त्रक्षतौ महाराज रुधिरेण समुक्षितौ ।
निहत्य वाहिनीं तुभ्यमपयातौ रणाजिरात्' ॥
तं दृष्ट्वा पुरुषव्याघ्रं क्षेमिणं पुरुषर्षभम् ।
मुदाभ्यनन्दतां कृष्णावश्विनाविव वासवम् ॥
तावभ्यनन्दद्राजापि विवस्वानश्विनाविव ।
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः ॥
मन्यमानो हतं कर्णं प्रीतः परपुरञ्जयः । `स भूत्वा पुरुषव्याघ्रो राजा तत्र युधिष्ठिरः' ।
हर्षगद्गदया वाचा प्रीतः प्राह परन्तपः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टषष्टितमोऽध्यायः ॥ 68 ॥

8-68-9 ततोग्रधन्वा विस्तारितोग्रचापः ॥ 8-68-11 उवाच तं पप्रच्छ ॥ 8-68-24 प्रत्यनीके शत्रुसैन्यरामीपे ॥ 8-68-68 अष्टषष्टितमोऽध्यायः ॥

श्रीः