अध्यायः 074

अर्जुनकृतावमानाद्वनं यियासोर्युधिष्ठिरस्य कृष्णेन परिसान्त्वनम् ॥ 1 ॥

सञ्जय उवाच ।
एतच्छ्रुत्वा पाण्डवो धर्मराजो भ्रातुर्वाक्यं परुषं फल्गुनस्य ।
उत्थाय तस्माच्छयनादुवाच पार्थं ततो दुःखपरीतचेताः ॥
कृतं मया पार्थं न साधुकर्म येन प्राप्तं व्यसनं वः सुघोरम् ।
तस्माच्छिरश्छिन्धि ममैतदद्य कुलान्तकस्याधमपूरुषस्य ॥
पापस्य पाप्मोहतस्य वीर विमूढबुद्धेरलसस्य भीरोः ।
वृद्धावमन्सुः परुषत्य चैव किं ते चिरं मामनुसृज्य रूक्षम् ॥
गच्छाम्यहं वनमद्यैव पापः सुखं भवान्वर्ततां मद्विहीनः ।
योग्यो राजा भीमसेनो महात्मा क्लीबस्य किं वा मम राज्यकृत्यम् ॥
न चापि शक्तः परुषाणि सोढुं पुनस्तवेमानि रुषान्वितस्य ।
भीमोऽस्तु राजा मम जीवितेन न कार्यमद्यावमतस्य वीर ॥
इत्येवमुक्त्वा सहसोत्पपात रुषान्वितस्तच्छयनं विहाय ।
इयेष निर्गन्तुमथो वनाय तं वासुदेवः प्रणतोऽभ्युवाच ॥
न राजन्विदितं तत्ते यथा गाण्डीवधन्वनः ।
प्रतिज्ञा सत्यसन्धस्य गाण्डीवं प्रति विश्रुता ॥
ब्रूयाद्य एनं गाण्डीवं देह्यन्यस्मै त्वमित्युत ।
वध्योऽस्य स पुमाँल्लोके त्वया चोक्तोयमीदृशम् ॥
ततः सत्यां प्रतिज्ञां तां पार्थेन प्रतिरक्षता ।
मच्छन्दादवमानोऽयं कृतस्तव महीपते ॥
गुरूणामवमानो हि वध इत्यभिधीयते ।
तस्मात्क्षम महाबाहो मम पार्थस्य चोभयोः ॥
व्यतिक्रममिमं राजन्सत्यसंरक्षणं प्रति ।
शरणं त्वां महाराज प्रतिपन्नावुभावपि ॥
क्षन्तुमर्हसि मे राजन्प्रणतस्याभियाचतः ।
राधेयस्याद्य पापस्य भूमिः पास्यति शोणितम् ॥
सत्यं ते प्रतिजानामि हतं विद्व्यद्य सूतजम् ।
यस्येच्छसि वधं तस्य गतमेवाद्य जिवीतम् ॥
इति कृष्णवचः श्रुत्वा धर्मराजो युधिष्ठिरः । ससम्भ्रमं हृषीकेशमुत्थाप्य प्रणतं तदा ।
कृताञ्जलिमुवाचेदं वाक्यं यत्समनन्तरम् ॥
एवमेव यथात्थ त्वमस्त्येषोऽतिक्रमो मम ।
अनुनीतोऽस्मि गोविन्द तारितश्चास्मि माधव ॥
मोचिता व्यसनाद्धोराद्वयमद्य त्वयाच्युत । भवन्तं नावमासाद्य ह्यावां व्यसनसागरात् ।
घोरादद्य समुत्तीर्णावुभावज्ञानमोहितौ ॥
त्वद्बुद्धिप्लवमासाद्य दुःखशोकार्णवाद्वयम् ।
समुत्तीर्णाः सहामात्याः सनाथाः स्म त्वयाच्युत ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

श्रीः