अध्यायः 075

अर्जुनेन स्वावमानितस्य युधिष्ठिरस्य प्रसादनम् ॥ 1 ॥ अर्जुनेन युधिष्टिराग्रे कर्णवधप्रतिज्ञानम् ॥ 2 ॥

सञ्जय उवाच ।
इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् ।
बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ॥
ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् ।
कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ॥
असिना तीक्ष्णधारणे हन्या धर्मे व्यस्थितम् ।
त्वमित्युक्त्वाथ राजानमेवं कश्मलमाविशः ॥
हत्वा तु नृपतिं पार्थ करिष्यसि किमुत्तरम् ।
एवं हि दुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ॥
स भवान्धर्मभीरुत्वाद्धवं यायान्महत्तमः ।
नरकं घोररूपं च भ्रातुर्ज्येतुस्य वै वथात् ॥
स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् ।
प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ॥
प्रसाद्य भक्त्या राजानं प्रीते चैव युधिष्ठिरे ।
प्रयावस्त्वरितौ योद्धुं सूतपुत्ररथं प्रति ॥
हत्वा तु समरे कर्णं त्वमद्य निशितैः शरैः ।
विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ॥
एतदत्र महाबाहो प्राप्तकालं मतं मम ।
एवं कृते कृतं चैव तव कार्यं भविष्यति ॥
सञ्जय उवाच ।
ततोऽर्जुनो महाराज लज्जपा वै समन्वितः ।
धर्तराजस्य चरणौ प्रपद्य शिरसा नतः ॥
उवाच भरतश्रेष्ठं प्रसीदेति पुनः पुनः ।
क्षमस्व राजन्यत्प्रोक्तस्त्वं मया धर्मभीरुणा ॥
पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः ।
धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभम् ॥
उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम् ।
समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ॥
रुदित्वा सुचिरं कालं भ्रातरौ सुमहाद्युती ।
कृतशौचौ महाराज प्रीतिमन्तौ बभूवतुः ॥
तत आश्लिष्य तं प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवः । प्रीत्या परमया युक्तो विस्मयंश्च पुनःपुनः ।
अब्रवीत्तं महेष्वासं धर्मराजो धनञ्जयम् ॥
कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः । कवचं च ध्वजं चैव धनुः शक्तिर्हयाः शराः ।
शरैः कृत्ता महेष्वास यतमानस्य संयुगे ॥
सोऽहं दृष्ट्वा रणे तस्य कर्ण कर्णस्य फल्गुन ।
व्यवसीदामि दुःखेन न तु मे जीवितं प्रियम् ॥
न चेदद्य हि तं वीरं निहनिष्यसि संयुगे ।
प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ॥
एवमुक्तः प्रत्युवाच विजयो भरतर्षभ ॥
सत्येन ते शपे राजंस्त्वत्पादेन तथैव च ।
भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ॥
`अहमेनं नरश्रेष्ठ सामात्यं च महीपते' । यथाद्य समरे कर्णं हनिष्यामि हतोपि वा ।
महीतले पतिष्यामि सत्येनायुधमालभे ॥
एवमाभाष्य राजानमब्रवीन्माधवं वचः । अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः ।
त्वमनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ॥
एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम ।
शक्तोऽसि भरतश्रेष्ठ यत्नं कर्तुं यदात्थ माम् ॥
एष चापि हि मे कामो नित्यमेव महारथ ।
कथं भवान्रणे कर्णं निहन्यादिति सत्तम ॥
एवमुक्तस्ततो राजन्पार्थो वचनमब्रवीत् ।
हन्यते द्वैरथे भूयो युज्यन्तां वै रथोत्तमे ॥
उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिभिः ।
रथोपकरणैः सर्वैः सत्वरं यातु मे रथः ॥
एवमुक्तो महाराज फल्गुनेन महात्मना । उवाच दारुकं कृष्णः कुरु सर्वं यदब्रवीत् ।
अर्जुनो भारतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥
आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम । योजयामास च रथं वैयाघ्नं शत्रुतापनम् ।
सज्जं निवेदयामास पाण्डवस्य महात्मनः ॥
युक्तं तु रथमास्थाय दारुकेण महात्मना । उपस्थितं रथं दृष्ट्वा पद्मनाभो रणान्तकृत् ।
भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् ॥
युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ।
अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ॥
श्रुत्वा ह्यावां महासंख्ये त्वां कर्णशरपीडितम् ।
प्रवृत्तिं ज्ञातुमायाताविहावां पाण्डुनन्दन ॥
दिष्ट्यासि राजन्विरुजो दिष्ट्या न ग्रहणं गतः ।
परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ॥
युधिष्ठिर उवाच ।
एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव ।
वक्तव्यमुक्तोस्म्यहितं त्वया क्षान्तं च तन्मया ॥
अहं त्वामनुजानामि जहि कर्णं धनञ्जय ।
मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणं ॥
सञ्जय उवाच ।
ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा ।
पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ॥
तमुत्थाप्य ततो राजा परिष्वज्य च पीडितम् ।
मूर्ध्नुपाघ्राय चैवैनमिदं पुनरुवाच ह ॥
धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया ।
माहात्म्यं विजयं चैवं भूयः प्राप्नुहि शाश्वतम् ॥
अर्जुन उवाच ।
अद्य तं पापकर्माणं सानुबन्धं रणे शरैः ।
नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ॥
येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् ।
तस्याद्य कर्मणः कर्णः फलमाप्स्यति दारुणम् ॥
अद्य त्वामुपयास्यामि कर्णं हत्वा महीपते ।
सभाजये त्वामाक्रन्दादिति सत्यं ब्रवीमि ते ॥
नाहत्वा विनिषर्तिष्ये कर्णमद्य रणाजिरात् ।
इति सत्येन ते पादौ स्पृशामि जगतीपते ॥
सञ्जय उवाच ।
इति ब्रुवाणं सुमनाः किरीटिनं युधिष्ठिरः प्राह वचो बृहत्तरम् ।
यशोऽक्षयं जीवितमीप्सितं ते जयं सदा वीर्यमरिक्षयं तदा ॥
प्रयाहि वृद्धिं च दिशन्तु देवता यथाहमिच्छामि तवास्तु तत्तथा ।
प्रयाहि शीघ्रं जहि कर्णमाहवे पुरन्दरो वृत्रमिवात्मवृद्वये ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चसप्ततितमोऽध्यायः ॥ 75 ॥

श्रीः