अध्यायः 080

भीमसेनविशोकयोः संवादः ॥ 1 ॥

सञ्जय उवाच ।
अथ त्विदानीं तुमुले विमर्दे द्विषद्भिरेको बहुभिः समावृतः ।
महारणे सारथिमित्युवाच भीमश्चमूं वाहय धार्तराष्ट्रीम् । त्वं सारथे याहि जवेन वाहै-- र्नयाम्येतान्धार्तराष्ट्रान्यमाय ॥
सञ्चोदितो भीमसेनेन चैवं स सारथिः पुत्रबलं त्वदीयम् ।
प्रायात्ततः सत्वरमुग्रवेगो यतो भीमस्तद्बलं गन्तुमैच्छत् ॥
ततोऽपरे नागरथाश्वपत्तिभिः
प्रत्युद्ययुस्तं कुरवः समन्तात् ।
भीमस्य वाहाग्र्यमुदारवेगं समन्ततो बाणगणैर्निजघ्नुः ॥
ततः शरानापततो महात्मा चिच्छेद बाणैस्तपीनयपुङ्खैः ।
ते वै निपेतुस्तपनीयपुङ्खा द्विधा त्रिधा भीमशरैर्निकृत्ताः ॥
ततो राजन्नागरथाश्वयूनां भीमाहतानां वरराजमध्ये ।
घोरो निनादः सुमहानभूत्तदा वज्राहतानामिव पर्वतानाम् ॥
ते वध्यमानाश्च नरेन्द्रमुख्या निर्भिद्यन्तो भीमशरप्रवेकैः ।
भीमं समन्तात्समरेऽभ्यरोहन् वृक्षं शकुन्ता इव पुष्पहेतोः ॥
ततोऽभियाते तव सैन्ये स भीमः प्रादुश्चक्रे वेगमनन्तवेगः ।
यथाऽन्तकाले क्षपयन्दिधक्षु-- र्भूतान्तकृत्काल इवात्तदण्डः ॥
तस्यातिवेगस्य रणेऽतिवेगं नाशक्नुवन्धारयितुं त्वदीयाः ।
व्यात्ताननस्यापततो यथैव कालस्य काले हरतः प्रजा वै ॥
ततो बलं भारत भारतानां प्रदह्यमानं समरे महात्मना ।
भीतं दिशोऽकीर्यत भीमनुन्नं महानिलेनाभ्रगणा यथैव ॥
ततो धीमान्सारथिमब्रवीद्बली स भीमसेनः पुनरेव हृष्टः ॥
सूताभिजानीहि परान्स्वकान्वा रथान्ध्वजांश्चापततः समेतान् ।
युध्यन्ह्यहं नाभिजानामि किञ्चि-- न्मा सैन्यं स्वं छादयिष्ये प्रमत्तः ॥
अरीन्विशोकान्हि निरीक्ष्य सर्वतो महांश्च मन्युः पुनरेति मां भृशम् ।
राजातुरो नागमद्यत्किरीटी बहूनि दुःखान्यभिचिन्तयामि ॥
एतद्दुःखं धारये धर्मराजो यन्मां हित्वा यातवाञ्शत्रुमध्ये ।
नैनं जीवं नाभिजानाम्यजीवं बीभत्सुं वा तन्ममाद्यातिदुःखम् ॥
सोऽहं द्विषत्सैन्यमुदग्रकल्पं विनाशयिष्ये परमप्रतीतः ।
एतन्निहत्याजिमध्ये समेतं प्रीतो भविष्यामि सह त्वयाद्य ॥
सर्वांस्तूणान्सायकानामवेक्ष्य किं शिष्टं स्यात्सायकानां रथे मे ।
का वा जातिः किं प्रमाणं च तेषां ज्ञात्वा व्यक्तं तत्समाचक्ष्व सूत । `कति वा सहस्राणि कति वा शतानि ह्याचक्ष्व मे सारथे क्षिप्रमेव ॥
विशोक उवाच ।
सर्वं विदित्वैवमहं वदामि तवार्थसिद्धिप्रदमद्य वीर ।
कैकेयकाम्भोजसुराष्ट्रबाह्लिका म्लेच्छाश्च सुह्माः परतङ्कणाश्च ।
मद्राश्च वङ्गा मगधाः कुणिन्दा आनर्तकावर्तकाः पार्वतीयाः ।
सर्वे गृहीतप्रवरायुधास्त्वां संवेष्ट्य संवेष्ट्य ततो विवेदुः ॥
रथे तवास्मिन्निशिताः सुपीता-- स्ततो भल्ला द्वादश वै सहस्राः' ।
षण्मार्गणानामयुतानि वीर क्षुराश्च भल्लाश्च तथायुताख्याः ॥
नाराचानां द्वे सहस्रे च वीर त्रीण्येप च प्रदराणां स्म पार्थ ।
अस्त्यायुधं पाण्डवेयावशिष्टं न यद्वहेच्छकटं षङ्गवीयम् ॥
एतद्विद्वन्मुञ्च सहस्रशोऽपि गदासिबाहुद्रविणं च तेऽस्ति ।
प्रासाश्च मुद्रराः शक्तयस्तोमराश्च माभैषीस्त्वं संक्षयादायुधानाम् ॥
भीमसेन उवाच ।
`अद्यैव नूनं कथयन्तु सिद्धां मम प्रतिज्ञां सर्वलोके विशोक ।
न मोक्ष्यते समरे भीमसेन एकः शत्रून्समरे वाप्यजैषीत् । आशंसितानामिदमेकमस्तु तन्मे देवाः सकलं साधयन्तु ॥'
सूताद्य मद्बाहुयुतैः समस्ता-- न्समाहनद्भिः पार्थिवानाशुवेगैः ।
च्छन्नं बाणैराहवं घोररूपं नष्टादित्यं मृत्युलोकेन तुल्यम् ॥
अद्यैतद्यै विदितं पार्थिवानां भविष्यति ह्याकुमारं च सूत ।
निमग्नो वा समरे भीमसेन एकः कुरून्वा समरे व्यजैषीत् ॥
सर्वे सङ्ख्ये कुरवो निष्पतन्तु मां वा लोकाः कीर्तयन्त्वाकुमारम् ।
सर्वानेकस्तानहं पातयिष्ये ते वा सर्वे भीमसेनं तुदन्तु ॥
आशास्तारः कर्म चाप्युत्तमं ये तन्मे देवाः सफलं साधयन्तु ।
आयातीह केशवसारथी रथी शक्रस्तूर्णं यज्ञ इवोपहूतः ॥
ईक्षस्वैतां भारतीं दीर्यमाणा-- मेते कस्माद्विद्रवन्ते नरेन्द्राः ।
व्यक्तं धीमान्सव्यसाची नराग्र्यः सैन्यं ह्येतच्छादयत्याशु बाणैः ॥
पश्य ध्वजांश्च द्रवतो विशोक नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये ।
रथान्विकीर्णाञ्शरशक्तिताडिता-- न्पश्यस्वैतान्रथिनश्चैव सूत ॥
आपूर्यते कौरवी चाप्यभीक्ष्णं सेना ह्यसौ सुभृशं हन्यमाना ।
धनञ्जयस्याशनितुल्यवेगै-- र्ग्रस्ता शरैः काञ्चनबर्हजालैः ॥
एते द्रवन्ति स्म रथाश्वनागाः पदातिसङ्घानतिमर्दयन्तः ।
सम्मुह्यमानाः कौरवाः सर्व एव द्रवन्ति नागा इव दाहभीताः ॥
हाहाकृताश्चैव रणे विशोक मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ॥
विशोक उवाच ।
किं भीम नैनं त्वमिहाशृणोषि विस्फारितं गाण्डिवस्यातिघोरम् ।
क्रुद्धेन पार्थेन विकृष्यतोऽद्य कच्चिन्नेमौ तव कर्णौ विनष्टौ ॥
सर्वे कामाः पाण्डव ते समृद्धाः कपिर्ह्यसौ दृश्यते हस्तिसैन्ये ।
नीलाद्धनाद्विद्युतमुच्चरन्तीं तथा पश्य विस्फुरन्तीं धनुर्ज्याम् ॥
कपिर्ह्यसौ वीक्षते सर्वतो वै ध्वजाग्रमारुह्य धनञ्जयस्य ।
वित्रासयन्रि पुसङ्घान्विमर्दे बिभेम्यस्मादात्मनैवाभिवीक्ष्य ॥
विभ्राजते चातिमात्रं किरीटं विचित्रमेतच्च धनञ्जयस्य ।
दिवाकराभो मणिरेष दिव्यो विभ्राजते चैव किरीटसंस्थः ॥
पार्श्वे भीमं पाण्डुराभ्रप्रकाशं पश्यस्व सङ्खं देवदत्तं सुघोषम् ।
अभीषुहस्तस्य जनार्दनस्य विगाहमानस्य चमूं परेषाम् ॥
रविप्रभं वज्रनाभं क्षुरान्तं पार्श्वे स्थितं पश्य जनार्दनस्य ।
चक्रं यशोवर्धनं केशवस्य सदार्चितं यदिभिः पश्य वीर ॥
महाद्विपानां सरलद्रुमोपमाः करा निकृत्ताः प्रपतन्त्यमी क्षुरैः ।
किरीटिना तेन पुनः ससादिनः शरैर्निकृत्ताः कुलिशैरिवाद्रयः ॥
तथैव कृष्णस्य च पाञ्चजन्यं महार्हमेतं द्विजराजवर्णम् ।
कौन्तेय पश्योरसि कौस्तुभं च जाज्वल्यमानं विजयां स्रजं च ॥
ध्रवं रथाग्र्यः समुपैति पार्थो विद्रावयन्सैन्यमिदं परेषाम् ।
सिताभ्रवर्णैरसितप्रयुक्तै-- र्हयैर्महार्है रथिनां वरिष्ठः ॥
रथान्हयान्पत्तिगणांश्च सायकै-- र्विदारितान्पश्य पतन्त्यमी यथा ।
तवानुजेनामरराजतेजसा महावनानीव सुपर्णवायुना ॥
चतुः शतान्पश्य रथानिमान्हतान् सवाजिसूतान्समरे किरीटिना ।
महेषुभिः सप्तशतानि दन्तिनां
पदातिसादींश्च रथाननेकशः ॥
अयं समभ्येति तवान्तिकं बली निघ्नन्कुरूंश्चित्र इव ग्रहोऽर्जुनः ।
समृद्धकामोऽसि हतास्तवाहिता बलं तवायुश्च चिराय वर्धताम् ॥
भीमसेन उवाच ।
ददानि ते ग्रामवरांश्चतुर्दश प्रियाख्याने सारथे सुप्रसन्नः ।
दासीशतं चापि रथांश्च विंशतिं यदर्जुनं वेदयसे विशोक ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अशीतितमोऽध्यायः ॥ 80 ॥

8-80-19 प्रदरा बाणविशेषः ॥ 8-80-39 असितप्रयुक्तैः कृष्णप्रयुक्तैः ॥ 8-80-80 अशीतितमोऽध्यायः ॥

श्रीः