अध्यायः 082

कर्णपराक्रमवर्णनम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे ।
दुर्योधनोऽब्रवीत्किं नु सौबलो वाऽपि सञ्जय ॥
कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि ।
कृपो वा कृतवर्मा वा द्रौणिर्दुःशासनोऽपि वा ॥
अत्यद्भुतमहं मन्ये पाण्डवेयस्य विक्रमम् ।
यदेकः समरे सर्वान्योधयामास मामकान् ॥
यथाप्रतिज्ञं योधानां राधेयः कृतवानपि । कुरूणामथ सर्वेषां कर्णः शत्रुनिषूदनः ।
शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय ॥
तद्भग्रं स्वबलं दृष्ट्वा कौन्तेयेनामितौजसा ।
धनुर्दराणां प्रवरः कर्णः किमकरोद्युधि ॥
पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः ।
एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय ॥
सञ्जय उवाच ।
अपराह्णे महाराज सूतपुत्रः प्रतापवान् ।
जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ॥
भीमोऽप्यतिबलं सैन्यं धार्तराष्ट्रं व्यपोथयत् ॥
द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता ।
यन्तारमब्रवीत्कर्णः पाञ्चालानेव मां वह ॥
मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् ।
प्राहिणोच्चेदिपाञ्चालान्करूशांश्च महाबलः ॥
प्रविश्य च महत्सैन्यं शल्यः परबलार्दनः ।
न्ययच्छत्तुरगान्हृष्टो यत्रयत्र च ते रथाः ॥
तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम् ।
संदृश्य पाण्डुपञ्चालास्त्रस्ता ह्यासन्विशाम्पते ॥
ततो रथस्य निनदः प्रादुरासीन्महारणे ।
पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ॥
ततः शरशतैस्तीक्षणैः कर्ण आकर्णनिःसृतैः ।
जघान पाण्डवबलं शतशोऽथ सहस्रशः ॥
तं तथा समरे कर्म कुर्वाणमपराजितम् ।
परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ॥
तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः ।
नकुलः सहदेवश्च द्रौपदेयाश्च सात्यकिः ॥
परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ।
सात्यकिस्तु तदा कर्णं विंशत्या निशितैः शरैः ॥
अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ।
शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च सप्तभिः ॥
द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ।
नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ॥
भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् ।
विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ॥
अथ प्रहस्याधिरथिर्व्याक्षिपद्धनुरुत्तमम् ।
मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ॥
तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ।
सात्यकेस्तु धनुश्छित्त्वा ध्वजं च भरतर्षभ ॥
तं तथा नवभिर्बाणैराजघान स्तनान्तरे ।
भीमसेनं ततः क्रुद्धो विव्याध त्रिंशता शरैः ॥
सहदेवस्य भल्लेन ध्वजं चिच्छेद मारिष ।
सारथिं च त्रिभिर्बाणैराजघान परन्तपः ॥
विरथान्द्रौपदेयांश्च चकार भरतर्षभ ।
अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ॥
विमुखीकृत्य तान्सर्वाञ्शरैः सन्नतपर्वभिः ।
पाञ्चालानहनञ्छूरांश्चेदीनां च महारथान् ॥
ते वध्यमानाः समरे चेदिमत्स्या विशाम्पते ।
कर्णमेकमभिद्रुत्य शरसङ्खैः समार्पयन् ॥
ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः । ते वध्यमानाः समरे चेदिमात्स्या विशाम्पते ।
प्राद्रवन्त रणे भीताः सिंहत्रस्ता मृगा इव ॥
एतदत्युद्भतं कर्म दृष्ट्वानस्मि भारत ।
यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ॥
यतमानान्परं शक्त्या योधयानांश्च धन्विनः ।
पाण्डवेयान्महाराज शरैर्वारितवान्रणे ॥
तत्र भारत कर्णस्य लाघवेन महात्मनः ।
तुतुषुर्देवताः सर्वाः सिद्धाश्च सह चारणैः ॥
अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् ।
कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ॥
ततः कर्णो महाराज ददाह रिपुवाहिनीम् ।
कक्षमिद्धो यथा वह्निर्निदाधे ज्वलितो महान् ॥
ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः ।
प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महारथम् ॥
तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे ।
वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ॥
तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः ।
कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ॥
तत्राद्भुतं पुनश्चक्रे राधेयः शत्रुकर्शनः ।
यदेनं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ॥
जलौघः पर्वतश्रेष्ठं यथासाद्य प्रभिद्यते ।
तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ॥
कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलत् ।
दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ॥
शिरांसि च महाराज कर्णां श्चैव सकुण्डलान् ।
बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ॥
हस्तिदन्तत्सरून्खङ्गान्ध्वजाञ्शक्तीर्हयान्गजान् ।
रथांश्च विविधान्राजन्पताका व्यजनानि च ॥
अक्षं च युगयोक्त्राणि चक्राणि विविधानि च ।
चिच्छेद बहुधा कर्णो योधव्रतमनुष्ठितः ॥
तत्र भारत कर्णेन निहतैर्गजवाजिभिः ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥
विषमं च समं चैव हतैरश्वपदातिभिः ।
रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन ॥
नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् ।
घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ॥
राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषणैः ।
सञ्छादिता महाराज पाण्डवानां महारथाः ॥
ते पाण्डवेयाः समरे राधेयेन पुनः पुनः ।
अभज्यन्त महाराज यतमाना महारथाः ॥
मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने ।
पञ्चालानां रथश्रेष्ठान्द्रावयञ्शात्रवांस्तथा ॥
कर्णस्तु समरे योधांस्त्रासयुन्सुमहायशाः ।
कालयामास तत्सैन्यं यथा पशुगणान्वृकः ॥
दृष्ट्वा तु पाण्डवीं मेनां धार्तराष्ट्राः पराङ्युखीम् ।
तत्राजग्मुर्महेष्वासा रुदन्तो भैरवात्रवान् ॥
दुर्योधनो हि राजेन्द्र मुदा परमया युतः ।
वादयामास संहृष्टो नानावाद्यानि सर्वशः ॥
पाञ्चालाश्च महेष्वासा भग्नास्तत्र नरोत्तमाः ।
न्यवर्तन्त तदा शूरा मृत्युं कृत्वा निवर्तनम् ॥
तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः ।
अनेकशो महाराज बभञ्ज पुरुषर्षभः ॥
तत्र भारत कर्णेन पाञ्चाला विंशती रथाः ।
निहताः सायकैः क्रोधाच्चेदयश्च परंशताः ॥
कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत ।
निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ॥
आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः ।
कालान्तकवपुः शूरः सूतपुत्रोऽभ्यराजत ॥
एवमेतन्महाराज नरवाजिरथद्विपान् ।
हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ॥
यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः ।
तथा स सोमकान्हत्वा तस्थावेको महारथः ॥
तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् ।
वध्यमानाऽपि यत्कर्णं नाजहू रणमूर्धनि ॥
राजा दुःशासनश्चैव कृपः शारद्वतस्तथा । अश्वत्थामा कृतवर्मा शकुनिश्च महाबलः ।
व्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ॥
कर्मपुत्रौ तु राजेन्द्र भ्रातरौ सत्यविक्रमौ ।
निजघ्नाते बलं क्रुद्धौ पाण्डवानामितस्ततः ॥
तत्र युद्धं महच्चासीत्क्रूरं विशसनं महत् ॥
तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ ।
द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम् ॥
एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः ।
तावकानामपि रणे भीमं प्राप्य महाबलम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्व्यशीतितमोऽध्यायः ॥ 82 ॥

श्रीः