अध्यायः 088

दुःशासनवधक्रोधादात्मनामभिद्रुतदतां तदनुजानां भीमेन वधः ॥ 1 ॥ दुःशासनादिनिधनाद्बिश्यतः कर्णस्य शल्येन प्रोत्साहनम् ॥ 2 ॥ सङ्कुलयुद्धम् ॥ 3 ॥

सञ्जय उवाच ।
स पीत्वा रुधिरं तस्य चरणौ गृह्य भारत ।
इत्युच्चैर्वचनं प्राह प्रतिनृत्यन्वृकोदरः ॥
एष ते रुधिरं तीव्रं पिबामि पुरुषादवत् ।
वदेदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥
ये चास्मान्प्रतिनृत्यन्ति तदा गौरिति गौरिति ।
तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ॥
प्रमाणकोट्यां शयने कालकूटकभोजनम् ।
दंशनं चाहिभिस्तीक्ष्णैर्दाहं जतुगृहे च यत् ॥
द्यूते च दोषभूयस्त्वमरण्ये वसतिश्च या ।
इष्वस्त्राणि च सङ्ग्रामे अनिलानिलवेश्मसु ॥
दुःखान्येवाभिजानीमो न सुखानि कदाचन ।
धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य वयं सदा ॥
इत्युच्चैर्वचनं प्रोच्य जयं प्राप्य वृकोदरः ।
पुनरेव महाराज तव सैन्यमभिद्रवत् ॥
रक्तार्द्रपाणिस्तु ततो महात्मा गदापाणिः काल इवान्तकाले ।
विभीषयंस्तव पुत्रस्य सैन्य-- मितस्ततो धावति वाहिनीं ते ॥
ततः क्षणाद्भारत शून्यमासी-- दायोधनं घोरतरं कुरूणाम् ।
यत्राजिमध्ये प्रापिबद्भीमसेनो दुःशासनस्य रुधिरं क्रोधदीप्तः ॥
स हत्वा समरे राजन्राजपुत्रं महाबलम् ।
पूर्णकामो मदोदग्रः सिंहो रुरुमिवोत्कटः ॥
रुधिरार्द्रो महाराज व्यशोभत परन्तपः ।
सपुष्पः किंशुक इव रक्तरक्ततरो बभौ ॥
रुधिराक्तो घोरवेषः क्रुद्धो राजन्वचोऽब्रवीत् ।
ब्रूहीदानीं पापमते नृशंस पतितो ह्यसि ॥
दुःशासने यादृशं संश्रुतं न-- स्तदवाप्तं पाण्डवैः सर्वमेव ।
अत्रैवमाप्स्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य ॥
शिरो मृदित्वाऽस्य पुनश्च शान्तिं यास्याम्यहं कौरवाणां समक्षम् ।
या साऽपतिः सा सपतिर्हि जाता यास्ताः सपत्योऽपतयस्तु जाताः ॥
पश्यन्तु चित्रं विविधं हि लोके ये वै तिलाः षण्डतिला बभूवुः ।
ते चेत्संसिद्धा निधनं गताः परे किं चित्ररूपं बत जीवलोके ॥
एतावदुक्त्वा वचनं प्रहृष्टः प्राक्रोशदुच्चै रुधिरार्द्रवक्रः ।
ननर्त चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः ॥
दृष्ट्वा तु नृत्यन्तमुदग्रवीर्यं कालं यथा त्वन्तकाले प्रजानाम् ।
महद्भयं चाधिरथिं विवेश जये निराशाश्च सुतास्त्वदीयाः ॥
दुःशासने तु निहते पुत्रास्तव महारथाः । महत्क्रोधविषं वीरा धारयन्तो महाबलाः ।
ते तु राजन्महावीर्या भीमं प्राच्छादयञ्छरैः ॥
निषङ्गी कवची खङ्गी दण्डधारो धनुर्धरः ।
अलम्बुर्जलसन्धश्च वातवेगसुवर्चसौ ॥
एते समेत्य सहिता भ्रातृव्यसनकर्शिताः ।
भीमसेनं महाबाहुं पीडयामासुरञ्जसा ॥
स वध्यमानो विशिखैः समन्तात्तैर्महारथैः ।
भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ ॥
ततः परिवृतो राजन्नवभिः शत्रुतापनैः ।
दुःशासनादवरजैः पुत्रैस्तव वृकोदरः ॥
तांस्तु भल्लैर्महावेगैर्नवभिर्नव भारत ।
रुक्माङ्गदान्रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् ॥
हतेषु तव पुत्रेषु बलं तद्विप्रदुद्रुवे ।
पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ॥
ततः कर्णं महाराज प्रविवेश महद्भयम् ।
दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ॥
तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः ।
उवाच वचनं कर्णं प्राप्तकालं हितं तदा ॥
एते द्रवन्ति राजानो भीमसेनभयार्दिताः ।
दुर्योधनश्च सम्मूढो भ्रातृव्यसनकर्शितः ॥
दुःशासनस्य रुधिरे पीयमाने महात्मना ।
व्यापन्नचेताः सहसा शोकोपहतचेतनः ॥
उपासते त्वामेते हि परिवार्य महारथाः ।
कृपप्रभृतयः कर्ण हतशेषाः सहोदराः ॥
पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः ।
त्वामेवाभिमुखाः शूरा युद्धाय समुपस्थिताः ॥
स त्वं पुरुषशार्दूल पौरुषे महति स्थितः ।
क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् ॥
भारो हि धार्तराष्ट्रेण त्वयि सर्वः समाहितः ।
तमुद्वह महाबाहो यथाशक्ति यथाबलम् ॥
जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये । वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव ।
त्वयि मोहं समापन्ने पाण़्डवानभिधावति ॥
सञ्जय उवाच ।
एतच्छ्रुत्वा तु वचनं शल्यस्यामिततोजसः ।
हृदि मानुष्यकं भावं कृत्वा युद्वाय सुस्थिरम् ॥
ततः क्रुद्धो वृषसेनोऽभ्यधाव-- द्भीमं समायान्तममित्रसाहम् ।
बाणैः किरन्तं प्रतियाति चोग्रं व्यात्ताननं कालमिवापतन्तम् ॥
तमभ्यधावन्नकुलः प्रवीर-- मारादमित्रं प्रतुदन्पृषत्कैः ।
कर्णस्य पुत्रं समरे प्रहृष्टं जिष्णुर्जिघांसुर्मघवेव जम्भम् ॥
ततो ध्वजं स्फाटिकहेमचित्रं चिच्छेद धैर्यान्नकुलः क्षुरेण ।
कर्णात्मजस्येष्वसनं च चित्रं भल्लेन जाम्बूनदचित्रनद्धम् ॥
अथान्यदादाय धनुः स शीघ्रं कर्णात्मजः पाण्डवमभ्यविध्यत् ।
दिव्यैरस्त्रैरभ्यवर्षत्तदैनं कर्णस्य पुत्रो नकुलं कृतास्त्रम् ॥
ततः क्रुद्धो नकुलः कर्णपुत्रं शरैर्महोल्काभिरिवाभ्यपीडयत् ।
स कर्णपुत्रो नकुलस्य राज-- न्सर्वानस्त्रान्वारयदुत्तमास्त्रैः ॥
आसीत्सुघोरं भरतप्रवीर युद्धं तदा कर्णजपाण्डवाभ्याम् ॥
वनायुजान्सुकुमारान्सुशुभ्रा-- नलङ्कृताञ्जातरूपेण चित्रान् ।
जघान चाश्वान्नकुलस्य वीरो रणाजिरे सूतपुत्रस्य पुत्रः ॥
ततो हताश्वादवरुह्य याना-- च्चर्माऽऽददे रुचिरं बर्हिचित्रम् ।
आकाशसङ्काशमसिं प्रगृह्य प्रकाशमानः खगवच्चचार ॥
ततोऽस्य पक्षाननयद्यमाय द्विसाहस्रान्नकुलः क्षिप्रकारी ।
ते प्रापतन्नसिना वै विशस्ता यथाऽश्वमेधे पशवः शमित्रा ॥
ततस्ततो विजिता युद्धशौण्डा नानादेश्याः सुहृदः सत्यसन्धाः ।
एकेन शीघ्रं नकुलेन नुन्नाः सारेप्सुनेवोत्तमचन्दनस्य ॥
भूमौ चरन्तं नकुलं रथौघाः समन्ततः सायकैः प्रत्यगृह्णन् ।
स तुद्यमानो नकुलो विहङ्गै-- श्चचार सङ्ख्ये द्विषतो विनिघ्नन् ॥
तं कर्णपुत्रोऽपि चरन्तमाजौ नराश्वमातङ्गरथप्रवीरान् ।
निघ्नन्तमष्टादशभिः पृषत्कै-- र्विव्याध वीरः स चुकोप विद्धः ॥
ततोऽभ्यधावत्समरे जिघांसुः कर्णात्मजं पाण्डुसुतो नृवीरम् ।
तस्येषुभिर्वधमत्सूतपुत्रो महारणे वर्म सहस्रभारम् ॥
तस्याथ कांस्यं सुशितं सुपीत-- मसिप्रवीरं गुरुभारासाहम् ।
द्विषच्छरीरापहरं सुघोर-- माधून्वतः सर्पमिवात्तकोशम् ॥
क्षिप्रं शरैः षङ्भिरमित्रसाह-- श्चकर्त खङ्गं निशितैः सुधारैः ।
पुनश्च पार्थं निशितैः पृषत्कैः स्तनान्तरे क्षिप्रमिवात्यविध्यत् ॥
स भीमसेनस्य रथं च गत्वा ववर्ष वै शरवर्षं सुघोरम् ॥
नकुलमथ विदित्वा छिन्नबाणासनासिं विरथमरिभिरार्तं कर्णपुत्रास्त्रमग्नम् ।
पवनचलपताका ह्लादिनो वल्गिताश्वाः परपुरुषनियुक्ताः स्वै रथैः शीघ्रमीयुः ॥
द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः ।
द्विरदरथनराश्वान्सूदयन्तस्त्वदीयान् भगवत इव रुद्राः सङ्ख्यया हेतिमन्तः ॥
अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तः कृपहृदिकसुतौ च द्रौणिदुर्योधनौ च ।
शकुनिशुकवृकाश्च क्राथदेवावृधौ च द्विरदजलदघौषैः स्यन्दनैः कार्मुकैश्च ॥
अथ तव रथवर्यास्तान्दशैकप्रवीरा-- निषुभिरशनिकल्पैस्ताडयन्तो न्यरुन्धन् ।
नवजलदसवर्णैर्हस्तिभिस्तान्स्म वव्रु-- र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे अष्टाशीतितमोऽध्यायः ॥ 88 ॥

श्रीः