[विना किरीटं शंशुभे स पार्थः । श्यामो युवा नील इवोच्चशृङ्गः ।
ततः समुद्ग्रथ्य सितेन वाससा स्वमूर्धजानव्यथितस्तदाऽर्जुनः । विभासितः सूर्यमरीचिना दृढं शिरोगतेनोदयपर्वतो यथा ॥
गोकर्णा सुमुखी कृतेन इषुणा गोपुत्रसम्प्रेषिता गोशब्दात्मजभूषणं सुविहितं सुव्यक्तगोऽसुप्रभं
दृष्ट्वा गोगतकं जहार मुकुटं गोशब्दगोपूरि वै गोकर्णासनमर्दनश्च न ययावप्राप्य मृत्योर्वशं
स सायकः कर्णभुजप्रसृष्टो हुताशनार्कप्रतिमो महार्हः ।
महोरगः कृतवैरोऽर्जुनेन किरीटमाहत्य ततो व्यतीयात् ॥
तं चापि दग्ध्वा तपनीयचित्रं किरीटमाकृष्य तदर्जुनस्य ।
इयेष गन्तुं पुनरेव तूणं दृष्टश्च कर्णेन ततोऽब्रवीत्तम् ॥
मुक्तस्त्वयाऽहं त्वसमीक्ष्य कर्ण शिरो हृतं यन्न मयाऽर्जुनस्य ।
समीक्ष्य मां मुञ्च रणे त्वमाशु हन्ताऽस्मि शत्रुं तव चात्मनश्च ॥
स एवमुक्तो युधि सूतपुत्र-- स्तम्ब्रवीत्को भवानुग्ररूपः ।
नागोऽब्रवीद्विद्वि कृतागसं मां पार्थेन मातुर्वधजातवैरम् ॥
यदि स्वयं वज्रधरोऽस्य गोप्ता तथापि याता पितृराजवेश्मनि ।
कर्ण उवाच ।
न नाग कर्णोऽद्य रणे परस्य बलं समास्थाय जयं बुभूषेत् ॥
न संदध्यां द्विः शरं चैव नाग यद्यर्जुनानां शतमेव हन्याम् ।
तमाह कर्णः पुनरेव नागं तदाऽजिमध्ये रविसूनुसत्तमः ॥
व्यालास्त्रसर्गोत्तमयत्नमन्युभि-- र्हन्ताऽस्मि पार्थं सुसुखी व्रज त्वम् ।
इत्येवमुक्तो युधि नागराजः कर्णेन रोषादसहंस्तस्य वाक्यम् ॥
स्वयं प्रायात्पार्थवधाय राजन् कृत्वा स्वरूपं विजिघांसुरुग्रः ।
ततः कृष्णः पार्थमुवाच सङ्ख्ये महोरगं कृतवैरं जहि त्वम् ॥
स एवमुक्तो मधुसूदनेन गाण्डीवधन्वा रिपुवीर्यसाहः ।
उवाच को ह्येष ममाद्य नागः स्वयं य आयाद्गरुडस्य वक्त्रम् ॥]