अध्यायः 099

शल्येन कर्णमरणाद्व्याकुलमनसो दुर्योधनस्य समाश्वासनम् ॥ 1 ॥ तथा तम्प्रति रणाङ्कणवर्णनम् ॥ 2 ॥ देवगन्धर्वादीनां स्वस्वस्थानगमनम् ॥ 3 ॥

सञ्जय उवाच ।
कर्णं तु शूरं पतितं पृथिव्यां शराचितं शोणितदिग्धगात्रम् ।
यदृच्छया सूर्यमिवावनिं गतं दिदृक्षवः सम्परिवार्य तस्थुः ॥
प्रहृष्टवित्रस्तविषण्णविस्मिता-- स्तथाऽपरे शोकसमन्विताऽभवन् ।
परे त्वदीयाश्च रणे विशाम्पते यथायथेष्टं पृतना तथा गता ॥
प्रविद्धवर्माभरणायुधाम्बरं धनञ्जयेन प्रहतं महारथम् ।
निशाम्य कर्णं कुरवः प्रदुद्रुवु-- र्हतर्षभं केसरिणेव गोकुलम् ॥
कृत्वा दिमर्दं भृशमर्जुनेन कर्णं हतं केसरिणेव नागम् ।
दृष्ट्वा शयानं युधि मद्रराज-- श्छिन्नध्वजेनापययौ रथेन ॥
कर्णे हते पार्थभयात्प्रदुद्रुवु-- र्वैकर्तने धार्तराष्ट्राः सशल्याः ।
अवेक्षमाणा मुहुरर्जुनस्य केतुं महान्तं यशसा ज्वलन्तम् ॥
शल्यस्तु कर्णार्जुनयोर्विमर्दे बलानि दृष्ट्वा मृदितध्वजानि ।
ययौ स तेनैव रथेन तूर्णं हेलीकृतः सृञ्जयसोमकैश्च ॥
निपातितस्यन्दनवाजिनागं बलं च दृष्ट्वा हतसूतपुत्रम् ।
भीमस्तु भीमेन तदा स्वरेण समुन्नदद्रोदसी कम्पयंश्च ।
आस्फोटयन्नृत्यति वल्गते च हते कर्णे त्रासयन्धार्तराष्ट्रान् ।
तदा राजन्सृञ्जयाः सोमकाश्च शङ्खान्दध्मुः सस्वजुश्चापि सर्वे ॥
परस्परं क्षत्रिया हृष्टरूपाः सूतात्मजे वै निहते तदानीम् ।
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो दीनो मुहुर्निश्वसन्नार्तरूपः ॥
मद्राधिपश्चापि विमूढचेता-- स्तूर्णं ध्वजेनापहृतेन तेन ।
रथेन दुर्योधनमेत्य तूर्णं पश्यन्सुदुःखात्तमुवाच राजन् ॥
विशीर्णनागाश्वरथप्रवीरं बलं त्वदीयं यमराष्ट्रकल्पम् ।
अन्योन्यमासाद्य हतैः शयानै-- र्नराश्वनागैर्गिरिकूटकल्पैः ॥
नैतादृशं भारत युद्धमासी-- द्यथा हि कर्णार्जुनयोर्बभूव ।
ग्रस्तौ हि कर्णेन समेत्य कृष्णा-- वन्ये हि सर्वे तव शात्रवेयाः ॥
दैवं तु यत्तत्स्ववशे प्रवृत्तं तत्पाण्डवान्पाति निहन्ति चास्मान् ।
तवार्थसिद्ध्यर्थकरा हि सर्वे प्रसह्य वीरा निहता द्विषद्भिः ॥
कुबेरवैवस्वतवासवानां तुल्यप्रभावा वरुणस्य चापि ।
वीर्येण शौर्येण पराक्रमेण तैश्चापि युक्ता विमलैर्गुणौघैः ॥
अवध्यकल्पा निहता नरेन्द्रा-- स्तवार्थकामा युधि पाण्डवेयैः ।
तन्मा शुचो भारत दिष्टमेत-- त्पर्यायसिद्धिर्न तु नित्यसिद्धिः ॥
एतद्वचो मद्रपतेर्निशम्य स्वं चाविनीतं मनसा विचिन्त्य ।
दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो मुहुर्मुहुर्निश्वसन्नार्तरूपः ॥
*तद्व्यानमूकं कृपणं भृशार्त-- मार्तायनिर्दीनमुवाच राजन् ।
पश्येदमुग्रैर्नरवाजिनागै-- रायोधनं वीर हतैः सुपूर्णम् ॥
महीधराभैः पतितैश्च नागैः सकृत्प्रयत्नैः शरभिन्नगात्रैः ।
प्रविह्वलद्भिश्च गतासुभिश्च प्रध्वस्तवर्मायुधसर्वयोधैः ॥
वज्रापविद्वैरिव चाचलौघै-- र्विभिन्नपाषाणमृगद्रुमौघैः ।
प्रविद्धघण्टाङ्कुशतोमरध्वजैः सहेमजालै रुधिरौघसम्प्लवैः ॥
शरावनुन्नैः पतितैस्तुरङ्गै-- स्तनद्भिरार्तैः क्षतजं वमद्भिः ।
दीनैस्त्रसद्भिः परिवृत्तनेत्रै-- र्मही पतद्भिः कृपणा वभूव ॥
तथाऽपविद्वैर्गजवाजियूथै-- र्मन्दासुभिश्चापि गतासुभिश्च ।
रथैश्च नागैस्तुरगैश्च नुन्नै-- र्मही महावैतरणीव भाति ॥
गजैर्निकृत्तापरहस्तगात्रै-- रुद्वेपमानैः पतितैः पृथिव्याम् ।
रथर्षभैर्नागवराश्वयोधैः पदातिभिश्चाभिमुखैः परैर्हतैः ॥
विशीर्णवर्माभरणाम्बरायुधै-- र्युता प्रशान्तैरिव पावकैर्मही ।
शरप्रहाराभिहतैर्महाबलै-- रवेक्षमाणैः पतितैः समन्ततः ॥
प्रनष्टसंज्ञैः पुनराश्वसद्भि-- र्मही बभौ कुम्भगतैरिवाग्निभिः ।
रत्नैश्च्युतैर्भूरतिदीप्तिमद्भि-- र्नक्तं ग्रहैर्द्यौर्विमलैर्विभाति ॥
शरास्तु कर्णार्जुनबाहुमुक्ता विदार्य नागांश्च मनुष्यदेहान् ।
प्राणान्निरस्याशु महीं प्रतीयु-- र्महोरगा वासमिवाभिनम्राः ॥
हतैर्मनुष्यैश्च गजैश्च सङ्ख्ये शरावभिन्नै रुधिरप्रदिग्धैः ।
धऩञ्जयस्याधिरथेश्च मार्गे हतैरगम्या वसुधाऽतिदुर्गा ॥
रथैर्महेषून्मथितैः सुकल्पितैः सनागयोधाश्ववरायुधध्वजैः
विशीर्णयोक्त्रैर्विनिकीर्णबन्धनै-- र्निकृत्तचक्राक्षयुगत्रिवेणुभिः ॥
विमुक्तयोक्त्रैश्च रथैरुपस्करैः कृताभिषङ्गैर्विनिबद्वकूबरैः ।
प्रभग्ननीडैर्मणिहेमभूषितै-- र्वृता मही द्यौरिव शारदैर्घनैः ॥
निकृष्यमाणा जवनैस्तुरङ्गमै-- र्हतेश्वरा राजरथाः सुकल्पिताः ।
मनुष्यमातङ्करथाश्वसादिषु द्रुतं व्रजन्तो बहुधा विघूर्णिताः ॥
सहेमपृष्ठाः सपरश्वथायुधाः शिताश्च शूला मुसलाः समुद्गराः ।
चित्राश्च खङ्गा विमलाश्च कोशा गजाश्च जाम्बूनदपट्टनद्धाः ॥
चापानि जाम्बूनदभूषितानि शराश्च कार्तस्वरचित्रपुङ्खाः ।
ऋष्ट्यश्च पीता विमलाश्च कोशाः प्रासाश्च दण्डाः कनकप्रभासाः ॥
शुभ्राणि वालव्यजनानि शङ्खा-- श्छिन्नावरुद्धा विरुचः स्रजश्च ।
कुथाः पताकाम्बरवेष्टनानि किरीटमाला मकुटाश्च शुभ्राः ॥
प्रकीर्णका विप्रतिकीर्णकाश्च प्रधानमुख्यास्तरलाश्च हाराः ।
आपीडकेयूरवराङ्गदानि ग्रैवेयनिष्काः ससुवर्णसूत्राः ॥
मण्युत्तमा वज्रसुवर्णयुक्ता रत्नानि चोच्चावचमङ्गलानि ।
गात्राणि चाभान्ति सुखोचितानि शिरांसि चेन्दुप्रतिमाननानि ॥
देहांश्च भोगांश्च परिच्छदांश्च त्यक्त्वा मनोज्ञा निहताः सुखानि ।
स्वधर्मनिष्ठां महतीमवाप्य प्राप्ताश्च लोकान्यशसा गतास्ते ॥
निवर्त दुर्योधन यान्तु सैनिका व्रजस्व राजञ्शिबिराणि मानद ।
दिवाकरोऽप्येष विलम्बते प्रभो पुनस्त्वमेवात्र नरेन्द्र कारणम् ॥
सञ्जय उवाच ।
एतावदुक्त्वा विरराम शल्यो दुर्योधनं चैव निवर्तयित्वा ।
युद्धाय राजन्विनिविष्टबुद्धि-- र्हा कर्ण हा कर्ण इति ब्रुवाणम् ॥
तं द्रोणपुत्रप्रमुखा नरेन्द्राः सर्वे समाश्वास्य ततः प्रजग्मुः ।
निरीक्षमाणा ध्वजमर्जुनस्य रथं च दिव्यं यशसा ज्वलन्तम् ॥
नराश्वमातङ्गशरीरजेन रक्तेन सिक्तां रुधिरेण भूमिम् ।
रक्ताम्बरस्रक्तपनीययोगा-- न्नारीं प्रकाशामिव सर्वरम्याम् ॥
प्रच्छन्नरूपां रुधिरेण राज न्रौद्रे मुहूर्तेऽतिविराजमाने ।
नैवावतस्थुः कुरवः समीक्ष्य प्रव्राजिता नरदेवा यथाऽक्षैः ॥
वधेन कर्णस्य सुदुःखितास्ते हा कर्ण हा कर्ण इति ब्रुवाणाः ।
द्रुतं प्रजग्मुः शिबिराणि राज--
न्दिवाकरं रक्तमवेक्षमाणाः ॥
गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः शिलाशितैः शोणितदिग्धवाजैः ।
शरैश्चिताङ्गोऽपि रराज कर्णो हतोऽपि दीप्तांशुरिवांशुजालैः ॥
कर्णस्य देहं रुधिराम्बुसिक्तं पुत्रानकुम्पी भगवान्विवस्वान् ।
स्पृष्ट्वा कराग्रैः क्षतजानुरूपैः स्नातुं तदाऽगादपरं समुद्रम् ॥
इतीव सञ्चिन्त्य सुरर्षभाश्च सम्प्रस्थितास्ते तु यथानिकेतम् ।
सञ्चिन्त्य सर्वा जनता विसस्रु-- र्यथासुखं खे च महीतले च ॥
तदद्भुतं प्राणभृतां भयङ्करं निशाम्य युद्धं कुरुवीरमुख्ययोः ।
समाचितौ कर्णशरैऋ परन्तपौ तथैव संरेजतुरच्युतार्जुनौ ॥
तमो निहत्याभ्युदितौ यथाऽमलौ शशाङ्कसूर्याविव रश्मिमालिनौ ।
विहाय तान्बाणगणान्महाबलौ सुहृद्वृतावप्रतिमानविक्रमौ ॥
सुखप्रविष्टौ सुखदौ विरेजतुः सदस्यचिन्त्याविव विष्णुवासवौ ।
सदेवगन्धर्वमनुष्यचारणै-- र्महर्षिभिर्यक्षमहोरगैरपि । जयाभिवृद्ध्या परयाऽभिपूजितौ निहत्य कर्णं परमाहवे तदा ॥
यथानुरूपं प्रतिपूज्य तानथ प्रशस्यमानावतुलैश्च कर्मभिः ।
ननन्दतुश्चैव सुहृद्भिरावृतौ बलं निहत्येव सुरेशकेशवौ ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥

8-99-2 प्रहृष्टाः अर्जुनादयः । वित्रस्ताः भीरवः । विषण्णाः शत्रवः । विस्मिताः प्रेक्षकाः ॥ 8-99-* अत्र झ.पाठे 61 श्लोका अधिका दृश्यन्ते 8-99-99 एकोनशततमोऽध्यायः ॥

श्रीः