अध्यायः 101

कर्णवधानन्तरमर्जुनेन युधिष्ठिराभिवादनम् ॥ 1 ॥ तेन कृष्णार्जुनप्रशंसनम् ॥ 2 ॥ कृष्णयुधिष्ठिरसंवादः ॥ 3 ॥

सञ्जय उवाच ।
हते वैकर्तने कर्णे कुरवो भयपीडिताः ।
वीक्षमाणा दिशः सर्वाः पलायन्त सहस्रशः ॥
रावणं निहतं दृष्ट्वा राक्षसा राघवेण वा ।
दिशो भीता द्रवन्नेव तावका भयपीडिताः ॥
ततो महारवं चक्रुर्योधा राजन्समन्ततः ।
वार्यमाणा भृशोद्विग्नास्तव पुत्रेण भारत ॥
तेषां तु मतमाज्ञाय पुत्रस्ते भरतर्षभ ।
अवहारं ततश्चक्रे शल्यस्यानुमतेन च ॥
कृतवर्मा रणे तूर्णं वृतो भारत तावकैः ।
नारायणावशिष्टैश्च शिबिरायैव दुद्रुवे ॥
अश्वत्थामा ततः शूरो विनिश्वस्य मुहुर्मुहुः ।
पाण्डवानां जयं दृष्ट्वा शिबिरायैव दुद्रुवे ॥
कृपः शारद्वतो राजन्नागानीकेन भारत ।
महता मेघकल्पेन शिबिरायैव दुद्रुवे ॥
गान्धाराणां सहस्रेण शकुनिः परिवारितः ।
सुशर्मा च ययौ राजन्वीक्षमाणो भयार्दितः ॥
दुर्योधनोऽपि स ययौ ह्वतसर्वस्व आतुरः ।
ज्ञातिशोकसमापन्नश्चिन्तयित्वा मुहुर्मुहुः ॥
छिन्नध्वजेन शल्यस्तु रथेन रथिनां वरः ।
प्रययौ शिबिरायैव वीक्षमाणो दिशो दश ॥
ततोऽपरे सुबहुशो भारतानां महारथाः ।
व्यद्रवन्त दिशो भीता भयविह्वलचेतसः ॥
अश्रूपूर्णा भयोद्विग्ना वेपमाना भयातुराः ।
कुरवः प्राद्रवन्सर्वे दृष्ट्वा कर्णं निपातितम् ॥
प्रशंसन्तोऽर्जुनं केचित्केचित्कर्णं महारथाः ।
प्राद्रवन्त रणे भीताः कुरवः कुरुसत्तम ॥
तेषां योधसहस्राणां तावकानां महामृधे ।
नासीत्तत्र पुमान्कश्चिद्यस्तु युद्धे मनो दधे ॥
कर्णे हते महाराज निराशाः कुरवोऽभवन् ।
जीवनेषु च राज्येषु दारेषु च धनेषु च ॥
तान्समानीय पुत्रस्ते यत्नेन महता विभो ।
निवेशाय मनो दध्रे दुःखशोकसमन्वितः ॥
तस्याज्ञां शिरसा दीनाः प्रतिगृह्य विशाम्पते ।
विषण्णमनसो भीत्या न्यविशन्त महारथाः ॥
चिन्तयन्तो वधं घोरं सूतपुत्रस्य संयुगे ।
अर्जुनस्य जयं युद्धे चिन्तयानाः पुनःपुनः ॥
पाण्डवाश्च महेष्वासा न्यविशन्त परन्तपाः ।
प्रहृष्टमनसः सर्वे जित्वा शत्रुं महारथाः ॥
ततो युधिष्ठिरं तत्र निविष्टं वै मुदान्वितम् ।
समेत्य सर्वे पाञ्चाला वर्धयन्तो यथाविधि ॥
अर्जुनस्तु रथात्तूर्णमवरुह्य महायशाः ।
धर्मराजस्य चरणौ पीडयामास हृष्टवत् ॥
तमुत्थाप्य महाराज धर्मपुत्रः प्रतापवान् ।
सस्वजे भरतश्रेष्ठमुपजिघ्रन्नुपस्पृशन् ॥
नकुलः सहदेवश्च पाण्डवश्च वृकोदरः ।
अभिवाद्य महाराजमस्वजन्त स्म फल्गुनम् ॥
धृष्टद्युम्नः शिखण्डी च पाण्डवानां च ये रथाः ।
वर्धयन्ते स्म राजानं निहते सूतनन्दने ॥
ततः कृष्णो महाराज सात्यकिश्चापि सात्वतः ।
वर्धयन्ते स्म राजानं निहते सूतनन्दने ॥
वासुदेवश्च कौन्तेयं प्रणयादिदमब्रवीत् । अद्य राजन्हताः सर्वे धार्तराष्ट्राः सराजकाः ।
हते वैकर्तने कर्णे रथानां प्रवरे रथे ॥
यदि लोकास्त्रयः सर्वे योधयेयुः सवासवाः ।
तथापि दुर्जयः सूतस्तव कोपात्तु सूदितः ॥
एवमुक्तः प्रत्युवाच धर्मराजो जनार्दनम् ॥
तव प्रसादाद्ग्रोविन्द हतः कर्णो महायशाः ।
पाण्डवाश्च जयं प्राप्या नाशिताश्चापि शत्रवः ॥
त्वं हि शक्तो भयात्त्रातुं यस्य कस्यचिदाहवे ।
त्वमस्य जगतो गोप्ता पाण्डवानां च सर्वदा ॥
त्वां समासाद्य शक्रोऽपि मोदते दिवि नित्यशः ।
त्वं पाता पाण्डुपुत्राणां यथैव जगतस्तथा ॥
अनाश्चर्यो जयस्तेषां भक्तिर्येषां त्वयि प्रभो ॥
त्वया नाथेन गोविन्द नाथवन्तो वयं युधि ।
यथेन्द्रेण पुरा देवास्त्वया चापि जनार्दन ॥
स्वप्स्याम्यद्य सुखं कृष्णनिद्रां लप्स्ये त्वहं क्षपाम् ।
विगतं हि भयं मेऽद्य त्वत्प्रसादान्न संशयः ॥
एवमुक्तस्तु पार्थेन केशवः प्राह पाण्डवम् ।
निमित्तमात्रं हि वयं तवाप्यस्मिन्मुदागमे ॥
यस्य ते भ्रातरः शूरा भीमसेनादयो नृप ।
सम्बन्धिनश्चेन्द्रवीर्याः पार्षतप्रमुखास्तथा ॥
अर्हते च भवान्नित्यं प्रियं नित्यं च मद्वितम् ।
प्रियो हि मे त्वमेतेन वचनेन नरोत्तम ॥
इत्युक्तो धर्मराजस्तु स्वरथं हेमभूपितम् ।
दन्तवर्णैर्हयैर्युक्तं कालवालैर्महीपतिः ॥
आस्थाय पुरुषव्याघ्रः स्वबलेनापि संवृतः ।
प्रययौ बहुवृत्तान्तं द्रष्टुमायोधनं प्रति ॥
सम्भाषमाणौ तौ वीर उभौ माधवपाण्डवौ ॥
स ददर्श रणे कर्णं शयानं पुरुषर्षभम् ।
गाण्डीवमुक्तैर्विशिखैः सर्वतः सन्निपीडितम् ॥
सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः ।
प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ॥
अद्य राजाऽस्मि सर्वस्यां पृथिव्यां मधुसूदन ।
दिष्ट्या जयसि गोविन्द दिष्ट्याशत्रुर्निपातितः ॥
एवं सुबहुशो राजन्प्रशशंस जनार्दनम् ।
अर्जुनं च कुरुश्रेष्ठो धर्मराजो युधिष्ठिरः ॥
दृष्ट्वा च निहतं कर्णं स पुत्रं पार्थसायकैः ।
पुनर्जातमिवात्मानं मेने कुरुकुलोद्वहः ॥
समेत्य च कुरुश्रेष्ठं कुन्तीपुत्रं युधिष्ठिरम् ।
वर्धयन्ति स्म राजानो हर्षयुक्ता महारथाः ॥
सञ्जय उवाच ।
एवमेष क्षयो वृत्तः सुमहान्रोमहर्षणः ।
तव दुर्मन्त्रिते राजन्दिष्ट्या त्वमनुशोचसि ॥
वैशम्पायन उवाच ।
श्रुत्वैतदप्रियं राजा धृतराष्ट्रो महीपतिः । पपात भूमौ निश्चेष्टः कौरव्यः परमासनात् ।
तथा सत्यव्रता देवी गान्धारी दिव्यदर्शना ॥
ततस्तूर्णं तु विदुरस्तं नृपं सञ्जयस्तथा ।
पर्याश्वासयतां चैतावुभावेव तु भूमिपम् ॥
तथैवाश्वासयामासुर्गान्धारीं कुरुयोषितः ॥
स दैवं परमं मेने भवितव्यं च भारत ।
ताभ्यामाश्वासितो राजा तूष्णीमास्ते विशाम्पते ॥
एवमाख्याय राज्ञे च सञ्जयो राजसत्तम ।
जगाम शिबिरं भूयो हते कर्णे महात्मनि ॥
स दृष्ट्वा निहतं शल्यं राजानं च सुयोधनम् ।
शकुनिं सुबहून्राजन्सैनिकांश्च सहस्रशः ॥
तथैव पाण्डवीं सेनां निहतां प्रेक्ष्य सञ्जयः ।
सौप्तिके द्रौणिना राजन्हतवाजिनरद्विपाम् ॥
स हि दृष्ट्वा हतान्सर्वान्समन्ताद्युधि सञ्जयः ।
प्रयातो हास्तिनपुरं शोकार्तो भयविह्वलः ॥
हतेषु पुनरेतेषु प्रभूतगजवाजिषु ।
योधैश्च तैर्महाराज नानादेशसमुद्भवैः ॥
कुरुक्षेत्रं तु तत्सर्वं शून्यमासीद्विशाम्पते ।
निहतैः पाण्डवेयैश्च धार्तराष्ट्रैश्च संयुगे ॥
यथाहि विषयं वृत्तं धार्तराष्ट्रस्य संञ्जयः ।
निवेदयति तत्सर्वं यथावृत्तं यथाविधि ॥
एवं महायुद्धमिदं महात्मनो धनञ्जयस्याधिरथेश्च यः पठेत् ।
स सम्यगिष्टस्य मखस्य यत्फलं तदाप्नुयाद्यः शृणुयाच्च नित्यशः ॥
मखो हि विष्णुर्भगवान्सनातनो वहन्ति यं चाप्यनिलेन्दुभानवः ।
अतोऽनसूयुः शृणुयात्पठेच्च यः स सर्वलोकांश्च जयेत्सुखी भवेत् ॥ ॥

इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां कर्णपर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥ ॥ कर्णपर्व समाप्तम् ॥ 8 ॥